{अथ पञ्चविंशो ऽध्यायः}
विश्वास-प्रस्तुतिः
वासुदेवादिमन्त्रनिरूपणं
नारद उवाच
वासुदेवादिमन्त्राणां पूजानां लक्षणं वदे ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥००१॥
मूलम्

नमो भगवते चादौ अ आ अं अः स्ववीजकाः1 ।
ओङ्काराद्या नमोन्ताश् च नमो नारायणस्ततः ॥००२॥

ॐ तत् सत् ब्रह्मणे चैव ॐ नमो विष्णवे नमः ।
ॐ क्षौं ॐ नमो भगवते नरसिंहाय वै नमः ॥००३॥

ॐ भूर्नमो भगवते वराहाय नराधिपाः ।
जवारुणहरिद्राभा नीलश्यामललोहिताः ॥००४॥
मूलम्
ॐ भूर्नमो भगवते वराहाय नराधिपाः ।
जवारुणहरिद्राभा नीलश्यामललोहिताः ॥००४॥
विश्वास-प्रस्तुतिः
मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः ।
अङ्गानि स्वरवीजानां स्वनामान्तैर् यथाक्रमम् ॥००५॥

हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः ।
व्यञ्जनादीनि वीजानि तेषां लक्षणमन्यथा ॥००६॥

दीर्घस्वरैस्तु भिन्नानि नमोन्तान्तस्थितानि तु ।
अङ्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते ॥००७॥

विभक्तनामवर्णान्तस्थितानि वीजमुत्तमं2 ।
दीर्घैर् ह्रस्वैश् च संयुक्तं साङ्गोपाङ्गंस्वरैः क्रमात्3 ॥००८॥

व्यञ्जनानां क्रमो ह्य् एष हृदयादिप्रकॢप्तये ।
स्ववीजेन स्वनामान्तैर् विभक्तान्यङ्गनामभिः ॥००९॥

:न्
[[६५]]
विश्वास-प्रस्तुतिः
युक्तानि हृदयादीनि द्वादशान्तानि पञ्चतः1 ।
आरभ्य कल्पयित्वा तु जपेत् सिद्ध्यनुरूपतः ॥०१०॥

हृदयञ्च शिरश्चूडा कवचं नेत्रमस्त्रकं ।
षडङ्गानि तु वीजानां मूलस्य द्वादशाङ्गकं ॥०११॥

हृच्छिरश् च शिखा वर्म चास्त्रनेत्रान्तयोदरं ।
प्रष्टबाहूरुजानूंश् च जङ्घा पादौ क्रमान्न्यसेत् ॥०१२॥

कं टं पं शं वैनतेयः खं ठं फं घं
गदामनुः2 ।
गं डं बं सं पुष्ठिमन्तो घं ढं भं हं श्रियै
नमः ॥०१३॥

वं शं मं क्षं3 पाञ्चजन्यं छं तं पं4
कौस्तुभाय च ।
जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चं
लं5 ॥०१४॥

ॐ धं वं वनमालायै महानन्ताय वै नमः6 ।
निर्वीजपदमन्त्राणां पदैर् अङ्गानि कल्पयेत् ॥०१५॥

जात्यन्तैर् नामसंयुक्तेर्हृदयादीनि पञ्चधा ।
प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा ॥०१६॥

प्रणवं हृदयं पूर्वं परायेति शिरः शिखा ।
नाम्नात्मना तु7 कवचं अस्त्रं नामान्तकं भवेत् ॥०१७॥

[[६६]]
विश्वास-प्रस्तुतिः
ॐ परास्त्रादिस्वनामात्मा1 चतुर्थ्यन्तो नमोन्तकः ।
एकव्यूहादिषड्विंशव्यूहात्तस्यात्मनो मनुः2 ॥०१८॥

कनिष्टादिकराग्रेषु प्रकृतिं देहकेर्चयेत् ।
पराय पुरुषात्मा स्यात् प्रकृत्यात्मा द्विरूपकः ॥०१९॥

ॐ परयाम्न्यात्मने चैव वाय्वर्कौ च द्विरूपकः ।
अग्निं त्रिमूर्तौ3 विन्यस्य व्यापकं करदेहयोः ॥०२०॥

वाय्वर्कौ करशाखासु सव्येतरकरद्वये ।
हृदि मूर्तो तनावेष त्रिव्यूहे तुर्यरूपके ॥०२१॥

ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत् ।
तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः ॥०२२॥

आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत् ।
अङ्गुलीषु च वाय्वादि शिरोहृद्गुह्यपादके ॥०२३॥

वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः ।
मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्व्यूह ईरितः ॥०२४॥

व्यापकं मानसं न्यस्य ततोङ्गुष्टादितः क्रमात् ।
मूर्धास्यहृद्गुह्यपत्सु कथितः करुणात्मकः ॥०२५॥

आदिमूर्तिस्तु सर्वत्र व्यापको जीवसञ्ज्ञितः ।
भूर्भुवः स्वर्महर्जनस्तपः स्त्यञ्च सप्तधा ॥०२६॥

करे देहे न्यसेदाद्यमङ्गुष्टादिक्रमेण तु ।
तलसंस्थः सप्तमश् च4 लोकेशो देहके क्रमात् ॥०२७॥

[[६७]]
विश्वास-प्रस्तुतिः
देहे शिरोललाटास्यहृद्गुह्याङ्ग्रिषु संस्थितः ।
अग्निष्ठोमस्तथोक्थस्तु षोडशी वाजपेयकः ॥०२८॥

अतिरात्राप्तोर्यामञ्च1 यज्ञात्मा सप्तरूपकः ।
धीरहं मनः शब्दश् च स्पर्शरूपरसास्ततः2 ॥०२९॥
विश्वास-प्रस्तुतिः
गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत् क्रमात् ।
न्यसेदन्त्यै च3 तलयोः के ललाटे मुखे हृदि ॥०३०॥

नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृतः4 ।
वीजो बुद्धिरहङ्कारो मनः शब्दो गुणोनिलः ॥०३१॥

रूपं रसो नवात्मायं जीव अङ्गुष्ठकद्वये ।
तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीं ॥०३२॥

देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु ।
पादयोश् च दशात्मायं इन्द्रो व्यापी समास्थितः ॥०३३॥

अङ्गुष्ठकद्वये वह्निस्तर्जन्यादौ परेषु च ।
शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु ॥०३४॥

पादयोरेकदशात्मा मनः श्रोत्रं त्वगेव च ।
चक्षुर्जिह्वा तथा घ्राणं वाक्पाण्यङ्घ्रिश् च पायुकः ॥०३५॥

उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वये ।
तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये ॥०३६॥

उत्तमाङ्गुलललाटास्यहृन्नाभावथ गुह्यके ।
उरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात् ॥०३७॥

[[६८]]
विश्वास-प्रस्तुतिः
विष्णुर्मधुहरश् चैव त्रिविक्रमकवामनौ ।
श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च ॥०३८॥
मूलम्
विष्णुर्मधुहरश् चैव त्रिविक्रमकवामनौ ।
श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च ॥०३८॥
विश्वास-प्रस्तुतिः
दामोदरः केशवश् च नारायणस्ततः परः ।
माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत् ॥०३९॥

अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ ।
शिरःशिखरकट्याञ्च जानुपादादिषु न्यसेत् ॥०४०॥

द्वादशात्मा पञ्चविंशः षड्विंशव्यूहकस् तथा ।
पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः ॥०४१॥

तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस् तथा ।
चक्षुर्जिह्वा नासिका च वाक्पाण्यङ्घ्रिश् च पायवः ॥०४२॥

उपस्थो भूर्जलन्तेजो वायुराकाशमेव च ।
पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत् ॥०४३॥

शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके ।
मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोद्गतौ ॥०४४॥

पादे जान्वोरुपस्थे च हृदये मूर्ध्नि च क्रमात् ।
परश् च पुरुषात्मादौ षड्विंशे पूर्ववत्परं ॥०४५॥

सञ्चिन्त्य मण्डलैके तु प्रकृतिं पूजयेद्बुधः ।
पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत् ॥०४६॥

अस्त्रमग्न्यादिकोणेषु1 वैनतेयादि पूर्ववत् ।
दिक्पालांश् च विधिस्त्वन्यः2 त्रिव्यूहेग्निश् च मध्यतः ॥०४७॥

पूर्वादिदिग्बलावसोराज्यादिभिरलङ्कृतः ।
कर्णिकायां नाभसश् च मानसः कर्णिकास्थितः ॥०४८॥

[[६९]]
विश्वास-प्रस्तुतिः
विश्वरूपं सर्वस्थित्यै1 यजेद्राज्यजयाय च ।
सर्वव्यूहैः समायुक्तमङ्गैर् अपि च पञ्चभिः ॥०४९॥

गरुडाद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात् ।
विश्वक्सेनं यजेन्नाम्ना वै वीजं व्योमसंस्थितं2 ॥०५०॥

{इत्य् आदिमहापुराणे आग्नेये मन्त्रप्रदर्शनं नाम पञ्चविंशो ऽध्यायः }
-
द्वादशाक्षरवीजका इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
स्थितवीजार्थमुत्तममिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
दीर्घस्वरैश् च संयुक्तमङ्गोपाङ्गं स्वरैः क्रमादिति ख,
चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
स्वरवीजेषु नामान्तैर् विभक्तान्यङ्गनामभिरिति ङ,
चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ -
श्रीवत्साय च पञ्चममिति ङ, चिह्नितपुस्त्कपाठः श्रीवत्सो
वं चं दं ठं लं इति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎