०२३ वासुदेवादिपूजाविधिः

{अथ त्रयोविंशोध्यायः }

विश्वास-प्रस्तुतिः

पूजाविधिकथनं

नारद उवाच
वक्ष्ये पूजाविधिं विप्रा यत् कृत्वा सर्वमाप्नुयात् ।
प्रक्षालिताङ्घ्रिराचम्य वाग्यतः कृतरक्षकः ॥००१॥

मूलम्

:न्

[[५६]]

विश्वास-प्रस्तुतिः

प्राङ्मुखः स्वस्तिकं बद्ध्वा पद्माद्यपरमेव च ।
यं वीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकं ॥००२॥

विशेषयेदशेषन्तु1 ध्यायेत् कायात्तु कल्मषं ।
क्षौं हृत्पङ्कजमध्यस्थं वीजं तेजोनिधिं स्मरन् ॥००३॥

अधोर्ध्वतिर्यग्गाभिस्तु ज्वालाभिः कल्मषं दहेत् ।
शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः ॥००४॥

हृत्पद्मव्यापिभिर्देहं स्वकमाप्लावयेत्सुधीः2
सुसुम्नायोनिमार्गेण सर्वनाडीविसर्पिभिः ॥००५॥

शोधयित्वा न्यसेत्तत्त्वं करशुद्धिरथास्त्रकं ।
व्यापकं हस्तयोरादौ दक्षिणाङ्गुष्ठतोङ्गकं ॥००६॥

मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर् द्विषट्ककैः ।
हृदयं च शिरश् चैव शिखा वर्मास्त्रलोचने ॥००७॥

उदरं च तथा पृष्ठं बाहुरुजानुपादकं ।
मुद्रां दत्त्वा स्मरेत् विष्णुं जप्त्वाष्टशतमर्चयेत् ॥००८॥

वामे तु वर्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे ।
प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत् ॥००९॥

चैतन्यं सर्वगं ज्योतिरष्टजप्तेन वारिणा ।
फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे3 ॥०१०॥

धर्मं ज्ञानं च वैराग्यमैश्वर्यं वह्निदिङ्मुखाः ।
अधर्मादीनि गात्राणि पूर्वादौ योगपीठके ॥०११॥

कूर्मं पीठे ह्य् अनन्तञ्च यमं[^४] सूर्यादिमण्डलं ।

:न्

[[५७]]

विश्वास-प्रस्तुतिः

विमलाद्याः केशरस्थानुग्रहा कर्णिका स्थिता ॥०१२॥

पूर्वं स्वहृदये ध्यात्वा आवाह्यार्चैश् च मण्डले ।
अर्घ्यं पाद्यं तथाचामं मधुपर्कं पुनश् च तत् ॥०१३॥

स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकं ।
धूपदीपनैर् वेद्यानि पुण्डरीकाक्षविद्यया ॥०१४॥

यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजं ।
दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत् ॥०१५॥

देवस्य वामतो दक्षे चेषुधी खड्गमेव च ।
वामे चर्म श्रियं1 दक्षे पुष्टिं वामेग्रतो न्यसेत् ॥०१६॥

वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्पतीन्वहिः ।
स्वमन्त्रैः पूजयेत् सर्वान् विष्णुरर्घोवसानतः2 ॥०१७॥

व्यस्तेन च समस्तेन अङ्गैर् वीजेन वै यजेत् ।
जप्त्वा प्रदक्षिणीकृत्य स्तुत्त्वार्ध्यञ्च समर्प्य च ॥०१८॥

हृदये विन्यसेद्ध्यात्वा अहं ब्रह्म हरिस्त्विति ।
आगच्छावाहने योज्यं क्षमस्वेति विसर्जने ॥०१९॥

एवमष्टाक्षराद्यैश् च पूजां कृत्वा विमुक्तिभाक् ।
एकमूर्त्यर्चनं प्रोक्तं नवव्यूहार्चनं शृणु ॥०२०॥

अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान् ।
तर्जन्यादौ शरीरेथ शिरोललाटवक्त्रके ॥०२१॥

हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकं यजेत्3
एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत् ॥०२२॥

[[५८]]

विश्वास-प्रस्तुतिः

नवाब्जे नवमूर्त्या च नवव्यूहञ्च पूर्ववत् ।
इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत् ॥०२३॥

{इत्य् आदिमहापुराणे आग्नेये आदिमूर्त्यादिपूजाविधिर्नाम त्रयोविंशो ऽध्यायः }

  1. ध्यायं हरिं देवमिति घ।चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. स्वकामान् दाहयेत् सुधीः इति ख, चिह्नितपुस्तकपाठः
    स्वकमाह्लादयेत् सुधीरिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. स्थलं तेन तु संसिच्य हस्ते ध्यात्वा हरिं पठेदिति ङ,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎