०२२ स्नानविधिः

{अथ द्वाविंशो ऽध्यायः}

विश्वास-प्रस्तुतिः

स्नानविधिकथनं

नारद उवाच
वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकां ।
गृहीत्वा तां द्विधा कृत्वा मनःस्नानमथैकया ॥००१॥

मूलम्

निमज्याचम्य विन्यस्य सिंहेन कृतरक्षकः[^२] ।

:न्

[[५५]]

विश्वास-प्रस्तुतिः

विधिस्नानं ततः कुर्यात् प्राणायामपुरःसरं ॥००२॥

हृदि ध्यायन् हरिज्ञानं1 मन्त्रेणाष्टाक्षरेण हि ।
त्रिधा पाणितले मृत्स्नां दिग्बन्धं सिंहजप्ततः ॥००३॥

वासदेवप्रजप्तेन तीर्थं सङ्कल्प्य चालभेत् ।
गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्तिना ॥००४॥

कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत् ।
विन्यस्य मन्त्रैर् द्विर्मार्ज्य पाणिस्थं जलमेव च ॥००५॥

नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत् ।
जलं ध्यायन् हरिं पश्चाद्दत्वार्घ्यं द्वादशाक्षरं ॥००६॥

जप्त्वान्याञ्छतशस्तस्य योगपीठादितः क्रमात् ।
मन्त्रान् दिक्पालपर्यन्तानृषीन् पितृगणानपि ॥००७॥

मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत् ।
न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत् ॥००८॥

एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत् ॥००८॥

{इत्य् आदिमहापुराणे आग्नेये स्नानविधिकथनं नाम द्वाविंशोध्यायः }

  1. ह्रीं त्वरितायै, ह्रीं ऐं क्लीं सौ त्रिपुरा इति ख,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎