०२१ आगमोक्तविष्ण्वादिदेवतासामान्यपूजा

{अथ एकविंशो ऽध्यायः}

विश्वास-प्रस्तुतिः

सामान्यपूजाकथनं

नारद उवाच
सामान्यपूजां विष्ण्वादेर्वक्ष्ये मन्त्रांश् च सर्वदान् ।
समस्तपरिवाराय अच्युताय नमो यजेत् ॥००१॥

मूलम्

:न्

[[५२]]

विश्वास-प्रस्तुतिः

धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा ।
द्वारश्रियं वस्तुनवं शक्तिं कूर्ममनन्तकम् ॥००२॥

पृथिवीं धर्मकं ज्ञानं वैराग्यैश्वर्यमेव च ।
अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः ॥००३॥

ऋग्वेदाद्यं कृताद्यञ्च सत्वाद्यर्कादिमण्डलम् ।
विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत् ॥००४॥

प्रह्वीं सत्यां तथेशानानुग्रहासनमूर्तिकाम्1
दुर्गां गिरङ्गणं2 क्षेत्रं वासुदेवादिकं यजेत् ॥००५॥

हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम् ।
शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत् ॥००६॥

वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत् ।
इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम् ॥००७॥

ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम् ।
विष्वक्सेनं मण्डलादौ सिद्धिः पूजादिना भवेत् ॥००८॥

शिवपूजाथ सामान्या पूर्वं नन्दिनमर्चयेत् ।
महाकालं यजेद्गङ्गां3 यमुनाञ्च गणादिकम् ॥००९॥

गिरं श्रियं4 गुरुं वास्तुं शक्यादीन् धर्मकादिकम् 5
वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी ॥०१०॥

बलविकरिणी चापि बलप्रमथिनी क्रमात् ।

:न्

[[५३]]

विश्वास-प्रस्तुतिः

सर्वभूतदमनी च मदनोन्मादिनी शिवासनं ॥०११॥

हां हुं हां शिवमूर्तये साङ्गवक्त्रं शिवं यजेत् ।
हौं शिवाय हामित्यादि हामीशानादिवक्त्रकं ॥०१२॥

ह्रीं गौरीं गं गणः शक्रमुखाश्
चण्डीहृतादिकाः ।
क्रमात्सूर्यार्चने मन्त्रा दण्डी पूज्यश् च पिङ्गलः ॥०१३॥

उच्चैःश्रवाश्चारुणश् च प्रभूतं विमलं यजेत् ।
साराध्योपरमसुखं1 स्कन्दाद्यं मध्यतो यजेत् ॥०१४॥

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।
अमोघा विद्युता चैव पूज्याथ सर्वतोमुखी ॥०१५॥

अर्कासनं हि हं खं ख सोल्कायेति च मूर्तिकाम् ।
ह्रां ह्रीं स सूर्याय नम आं नमो हृदाय च ॥०१६॥

अर्काय शिरसे तद्वदग्नीशासुरवायुगान्2
भूर्भुवः स्वरे ज्वालिनि शिखा हुं कवचं स्मृतं ॥०१७॥

भां नेत्रं वस् तथार्कास्त्रं राज्ञी शक्तिश् च निष्कुभा3
सोमो ऽङ्गारकोथ बुधो जीवः शुक्रः शनिः क्रमात् ॥०१८॥

राहुः केतुस्तेजश् चण्डः सङ्क्षेपादथ पूजनं ।
आसनं मूर्तये मूलं हृदाद्यं परिचारकः ॥०१९॥

विष्ण्वासनं विष्णुर्मूर्तेरों श्रीं श्रीं श्रीधरो
हरिः ।
ह्रीं सर्वमूर्तिमन्त्रोयमिति त्रैलोक्यमोहनः ॥०२०॥

ह्रीं हृषीकेशः क्लीं विष्णुः स्वरैर् दीर्घैर्
हृदादिकं ।
समस्तैः पञ्चमी पूजा सङ्ग्रामादौ जयादिदा ॥०२१॥

[[५४]]

विश्वास-प्रस्तुतिः

चक्रं गदां क्रमाच्छङ्खं मुषलं खड्गशार्ङ्गकम् ।
पाशाङ्कुशौ च श्रीवत्सं कौस्तुभं वनमालया ॥०२२॥

श्रीं श्रीर्महालक्ष्मीतार्क्ष्यो गुरुरिन्द्रादयो ऽर्चनम् ।
सरस्वत्यासनं मूर्तिरौं ह्रीं दधी सरस्वती ॥०२३॥

हृदाद्या लक्ष्मीर्मेधा च कलातुष्टिश् च पुष्टिका ।
गौरी प्रभामती दुर्गा गणो गुरुश् च क्षेत्रपः ॥०२४॥

तथा गं गणपतये च ह्रीं गौर्यै च श्रीं श्रियै ।
ह्रीं त्वरितायै ह्रीं सौ त्रिपुरा1 चतुर्थ्यन्तनमोन्तकाः ॥०२५॥

प्रणवाद्याश् च नामाद्यमक्षरं विन्दुसंयुतं ।
ॐ युतं वा सर्वमन्त्रपूजनाज्जपतः स्मृताः ॥०२६॥

होमात्तिलघृताद्यैश् च धर्मकामार्थमोक्षदाः ।
पूजामन्त्रान् पठेद्यस्तु भुक्तभोगो दिवं व्रजेत् ॥०२७॥

{इत्य् आदिमहापुराणे आग्नेये वासुदेवादिपूजाकथनं नाम एकविंशतितमो ऽध्यायः }

  1. साग्नयो ह्य् अगादिति ख, चिह्नितपुस्तकपाठः, अग्निपाला वर्हिषदो ह्य्
    आज्यपाः साग्नयो ह्य् अजादिति घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. वैसारणी सुते इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. यजेत् दुर्गां इति ख, घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  4. गिरिं श्रियमिति ख, चिह्नितपुस्तकपाठः शिवं श्रियतमिति घ,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎

  5. गौरीं श्रियं गुरुं चास्त्रं शक्त्यादिं धर्मकादिकमिति ङ,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎