०२०

{अथ विंशतितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

सर्गविषयकवर्णनं

अग्निर् उवाच
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ।
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥००१॥

मूलम्

वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ॥००२॥

मुख्यः सर्गश् चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्स्रोतास्तु यः प्रोक्तः स्तैर्यग्योन्यस्ततः स्मृतः ॥००३॥

तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।
ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥००४॥

अष्टमोनुग्रहः सर्गैः सात्विकस्तामसश् च यः ।
पञ्चैते वैकृताः सर्गाः प्राकृताश् च त्रयः स्मृताः ॥००५॥

प्राकृतो वैकृतश् चैव कौमारो नवमस् तथा ।

[[५०]]

विश्वास-प्रस्तुतिः

ब्रह्मतो नव सर्गास्तु जगतो मूलहेतवः ॥००६॥

ख्यात्याद्या दक्षकन्यास्तु भृग्वाद्या उपयेमिरे ।
नित्यो नैमित्तकः सर्गस्त्रिधा प्रकथितो जनैः ॥००७॥

प्राकृता दैनन्दिनी स्यादन्तरप्रलयादनु ।
जायते यत्रानुदिनं मित्यसर्गो हि सम्मतः ॥००८॥

देवौ धाताविधातारौ भृगोः ख्यातिरसूयत ।
श्रियञ्च पत्नी विष्णोर्या स्तुता शक्रेण वृद्धये ॥००९॥

धातुर्विधार्तुर्द्वौ पुत्रौ क्रमात् प्राणो मृकण्डुकः ।
मार्कण्डेयो मृकण्डोश् च जज्ञे वेदशिरास्ततः ॥०१०॥

पौर्णमासश् च सम्भूत्यां मरीचेरभवत् सुतः ।
स्मृत्यामङ्गिरसः पुत्राः सिनीवाली कुहूस् तथा ॥०११॥

राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत् ।
सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम् ॥०१२॥

प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोभवत् ।
क्षमायां1 पुलहाज्जाताः सहिष्णुः कर्मपादिकाः ॥०१३॥

सन्नत्याञ्च क्रतोरासन् बालिखिल्या महौजसः ।
अङ्गुष्ठपर्वमात्रास्ते ये हि षष्टिसहस्विणः ॥०१४॥

उर्जायाञ्च वशिष्ठाच्च राजा गात्रोर्ध्वबाहुकः2
सवनश्चालघुः शुक्रः3 सुतपाः सप्त चर्षयः ॥०१५॥

पावकः पवमानोभूच्छुचिः स्वाहाग्निजोभवत् ।

:न्

[[५१]]

विश्वास-प्रस्तुतिः

अग्निस्वात्ता वर्हिषदो ऽनग्नयः साग्नयो ह्य् अजात्1 ॥०१६॥

पितृभ्यश् च स्वधायाञ्च मेना वैधारिणी सुते2
हिंसाभार्या त्वधर्मस्य तयोर्जज्ञे तथानृतम् ॥०१७॥

कन्या च निकृतिस्ताभ्यां भयन्नरकेमेव च ।
माया च वेदना चैव मिथुनन्त्विदमेतयोः ॥०१८॥

तयोर्जज्ञेथ वै मायां मृत्युं भूतापहारिणम् ।
वेदना च सुतं चापि दुःखं जज्ञेथ रौरवात् ॥०१९॥

मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश् च जज्ञिरे ।
ब्रह्मणश् च रुदन् जातो रोदनाद्रुद्रनामकः ॥०२०॥

भवं शर्वमथेशानं तथा पशुपतिं द्विज ।
भीममुग्रं महादेवमुवाच स पितामहः ॥०२१॥

मूलम्

भवं शर्वमथेशानं तथा पशुपतिं द्विज ।
भीममुग्रं महादेवमुवाच स पितामहः ॥०२१॥

विश्वास-प्रस्तुतिः

दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती ।
हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत् पुनः ॥०२२॥

ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः ।
स्वायम्भुवाद्यास्ताः कृत्वा विष्ण्वादेर्भुक्तिमुक्तिदाः ॥०२३॥

{इत्य् आदिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम विंशतितमो ऽध्यायः }

  1. कुमार्यामिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. रजोगोत्रोर्ध्वाहुक इति ख, चिह्नितपुस्तकपाठः राजा
    शात्रोर्ध्वबालक इति ग, चिह्नितपुस्तकपाठः, रजोगोत्रोर्ध्ववाहक इति
    ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. सबलश्चानघः शुक्र इति घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎