०१९

{अथोनविंशतितमो ऽध्यायः}

विश्वास-प्रस्तुतिः

कश्यपवंशवर्णनम्

अग्निर् उवाच
कश्यपस्य वेदे सर्गमदित्यादिषु हे मुने ।
चाक्षुषे तुषिता देवास्ते ऽदित्यां कश्यपात्पुनः ॥००१॥

मूलम्

आसन् विष्णुश् च शक्रश् च त्वष्टा धाता तथार्यमा ।
पूषा विवस्वान् सविता मित्रोथ वरुणो भगः ॥००२॥

अंशुश् च द्वादशादित्या आसन् वैवस्वतेन्तरे ।
अरिष्टनेमिपत्रीनामपत्यानीह षोडश ॥००३॥

बहुपुत्रस्थ विदुषश् चतस्रो विद्युतः सुताः1
प्रत्यङ्गिरजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः ॥००४॥

उदयास्तमने सूर्ये तद्वदेते युगे युगे ।
हिरण्यकशिपुर्दित्यां हिरण्याक्षश् च कश्यपात् ॥००५॥

:न्

[[४७]]

विश्वास-प्रस्तुतिः

सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ।
राहुप्रभृतयस्तस्यां सैंहिकेया इति श्रुताः ॥००६॥

हिरण्यकशिपोः पुत्राश् चत्वारः प्रथितौजसः ।
अनुह्रादश् च ह्रादश् च प्रह्रादश्चातिवैष्णवः ॥००७॥

संह्रादश् च चतुर्थोभूत् ह्रादपुत्रो ह्रदस् तथा ।
ह्रदस्य पुत्र आयुष्मान्2 शिबिर्वास्कल एव च ॥००८॥

विरोवनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात् ।
बलेः पुत्रशतं त्वासीद्वाणश्रेष्ठं1 महामुने ॥००९॥

पुराकल्पे हि बाणेन प्रसाद्योमापतिं वरः3
पार्श्वतो विहरिष्यामीत्येवम् प्राप्तश् च ईश्वरात्4 ॥०१०॥

हिरण्याक्षसुताः पञ्च शम्बरः शकुनिस्त्विति5
द्विमूर्धा शङ्कुरार्यश् च6 शतमासन् दनोः सुताः ॥०११॥

स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता ।
उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी ॥०१२॥

पुलोमा कालका चैव वैश्वानरसुते उभे ।
कश्यपस्य तु भार्ये द्वे तयोः पुत्राश् च कोटयः ॥०१३॥

प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले ।
ताम्रायाः षट् सुताः स्युश् च काकी श्वेनी च भास्यपि ॥०१४॥

गृध्रिका शुचि सुग्रीवा[^७] ताभ्यः काकादयो ऽभवन् ।

:न्

[[४८]]

विश्वास-प्रस्तुतिः

अश्वाश्चोष्ट्राश् च ताम्राया अरुणो गरुडस् तथा ॥०१५॥

विनतायाः सहस्रन्तु सर्पाश् च सुरसाभवाः ।
काद्रवेयाः सहस्रन्तु शेषवासुकितक्षकाः ॥०१६॥

दंष्ट्रिणः क्रोधवशजा धरोत्थाः2 पक्षिणो जले ।
सुरभ्यां गोमहिष्यादि इरोत्पन्नास्तृणादयः ॥०१७॥

स्वसायां यक्षरक्षांसि मुनेरश्वरसोभवन् ।
अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरं1 ॥०१८॥

एषां पुत्रादयो ऽसङ्ख्या देवैर् वै दानवा जिताः3
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपं ॥०१९॥

पुत्रमिन्द्रप्रहर्तारमिच्छती प्राप कश्यपात् ।
पादाप्रक्षालनात् सुप्ता तस्या गर्भं जघान ह ॥०२०॥

छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतो ऽभवन् ।
शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः ॥०२१॥

एतत्सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपं ।
ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः ॥०२२॥

द्विजौषधीनां चन्द्रश् च अपान्तु वरुणो नृपः ।
राज्ञां वैश्रवणो राजा सूर्याणां विष्णोरीश्वरः ॥०२३॥

वसूनां पावको राजा मरुतां वासवः प्रभुः ।
प्रजापतीनां दक्षो ऽथ प्रह्लादो दानवाधिपः ॥०२४॥

पितॄणां च यमो राजा भूतादीनां हरः4 प्रभुः ।
हिमवांश् चैव शैलानां नदीनां सागरः प्रभुः ॥०२५॥

[[४९]]

विश्वास-प्रस्तुतिः

गान्धर्वाणां चित्ररथो नागानामथ वासुकिः ।
सर्पाणां तक्षको राजा गरुडः पक्षिणामथ ॥०२६॥

ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि ।
मृगणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः ॥०२७॥

उच्चैःश्रवास् तथाश्वानां सुधन्वा पूर्वपालकः ।
दक्षिणस्यां शङ्खपदः केतुमान् पालको जले ।०२८।
हिरण्यरोमकः सौम्ये प्रतिसर्गोयमीरितः ॥०२८॥

{इत्य् आदिमाहापुराणे आग्नेये प्रतिसर्गवर्णनं नाम ऊनविंशतितमो ऽध्यायः }

  1. स्मृता इति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. सप्तम इति ख ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. प्रभुमिति ख, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  4. इत्य् एवं प्राप्तमीश्वरादिति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  5. झर्झरः शकुनिस्त्वतीति ख, चिह्नितपुस्तकपाठः । शक्निस्त्वथेति
    ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  6. द्विमूर्धा शम्बराद्याश् च इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎