०१८

{अथ अष्टादशो ऽध्यायः}

विश्वास-प्रस्तुतिः

स्वायम्भुववंशवर्णनम्

अग्निर् उवाच
प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवात् सुतौ ।
अजीजनत्स तां कन्यां शतरूपां तपोन्विताम्1 ॥००१॥

मूलम्

:न्

[[४२]]

विश्वास-प्रस्तुतिः

काम्यां2 कर्दमभार्यातः सम्राट् कुक्षिर्विराट् प्रभुः ।
सुरुच्यामुत्तमो जज्ञे पुत्र उत्तानपादतः ॥००२॥

सुनीत्यान्तु ध्रुवः पुत्रस्तपस्तेपे स कीर्तये ।
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि हे मुने ॥००३॥

तस्मै प्रीतो हरिः प्रादान्मुन्यग्रे स्थानकं स्थिरम्3
श्लोकं पपाठ ह्य् उशना वृद्धिं दृष्ट्वा स तस्य च ॥००४॥

अहो ऽस्य तपसो वीर्यमहो श्रुतमहोद्भुतम् ।
यमद्य1 पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥००५॥

तस्मात् शिष्टिञ्च4 भव्यञ्च ध्रुवाच्छम्भुर्व्यजायत ।
शिष्टेराधत्त5 सुछाया पञ्च पुत्रानकल्मषान् ॥००६॥

रिपुं रिपुञ्जयं रिप्रं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥००७॥

अजीजनत् पुष्करिण्यां वीरिण्यां चाक्षुषो मनुम् ।
मनोरजायन्त दश नड्वलायां सुतोत्तमाः ॥००८॥

ऊरुः6 पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः ।
अग्निष्टुरतिरात्रश् च सुद्युम्नश्चाभिमन्युकः ॥००९॥

ऊरोरजनयत् पुत्रान् षडग्नेयी महाप्रभान् ।
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसङ्गयम् ॥०१०॥

अङ्गात् सुनीथापत्यं वै वेणमेकं व्यजायत ।

:न्

[[४३]]

विश्वास-प्रस्तुतिः

अरक्षकः पापरतः स हतो मुनिभिः कुशैः ॥०११॥

प्रजार्थमृषयोथास्य ममन्थुर्दक्षिणं करं ।
वेणस्य मथितो पाणौ सम्बभूव पृथुर् नृपः ॥०१२॥

तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ।
करिष्यति महातेजा यशश् च प्राप्स्यते महत् ॥०१३॥

स धन्वी कवची जातस्तेजसा निर्दहन्निव ।
पृथुर्वैण्यः प्रजाः सर्वा ररक्ष क्षेत्रपूर्वजः ॥०१४॥

राजसूयाभिषिक्तानामाद्यः2 स पृथिवीपतिः ।
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ॥०१५॥

तत्स्तोत्रञ्चक्रतुर्वीरौ राजाभूज्जनरञ्जनात् ।
दुग्धा गौस्तेन शस्यार्थं प्रजानां जीवनाय च ॥०१६॥

सह देवैर् मुनिगणैर् गन्धर्वैः साप्सरोगणैः ।
पितृभिर्दानवैः सर्पैर् वीरुद्भिः पर्वतैर् जनैः ॥०१७॥

तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ।
प्रादाद्यथेप्सितं क्षीरन्तेन प्राणानधारयत् ॥०१८॥

पृथोः पुत्रौ तु धर्मज्ञौ जज्ञाते ऽन्तर्द्विपालिनौ ।
शिखण्डी हविर्धानमन्तर्धानात् व्यजायत ॥०१९॥

हविर्धानात् षडाग्नेयी धीषणाजनयत् सुतान् ।
प्राचीनवर्हिषं शुक्रं3 गयं कृष्णं व्रजाजिनौ ॥०२०॥

प्राचीनाग्राः कुशास्तस्य पृथिव्यां यजतो यतः ।
प्राचीनवर्हिर्भगवान् महानासीत्प्रजापतिः ॥०२१॥

सवर्णाधत्त[^३] सामुद्री दश प्राचीनवर्हिषः ।

:न्

[[४४]]

विश्वास-प्रस्तुतिः

सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥०२२॥

अपृथग्धर्मचरणास् ते तप्यन्त महत्तपः ।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥०२३॥

मूलम्

अपृथग्धर्मचरणास् ते तप्यन्त महत्तपः ।
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥०२३॥

विश्वास-प्रस्तुतिः

प्रजापतित्वं सम्प्राप्य तुष्टा विष्णोश् च निर्गताः ।
भूः खं व्याप्तं हि तरुभिस्तांस्तरूनदहंश् च ते ॥०२४॥

मुखजाग्निमरुद्भ्यां च दृष्ट्वा चाथ द्रुमक्षयम् ।
उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥०२५॥

कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम् ।
तपस्विनो मुनेः कण्डोः3 प्रम्लोचायां ममैव च ॥०२६॥

भविष्यं जानता सृष्टा भार्या वो ऽस्तु कुलङ्करी ।
अस्यामुत्पत्स्यते दक्षः प्रजाः संवर्धयिष्यति ॥०२७॥

प्रचेतसस्तां जगृहुर्दक्षोस्याञ्च ततो ऽभवत् ।
अचरांश् च चरांश् चैव द्विपदोथ चतुष्पदः ॥०२८॥

स सृष्ट्वा मनसा3 दक्षः पश्चादसृजत स्त्रियः ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥०२९॥

सप्ताविंशति सोमाय चतस्त्रो ऽरिष्टनेमिने ।
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे अदात्1 ॥०३०॥

तासु देवाश् च नागाद्या मैथुनान्मनसा पुरा ।
धर्मसर्गम्प्रवक्ष्यामि दशपत्नीषु धर्मतः ॥०३१॥

विश्वेदेवास्तु विश्वायाः साध्यान् साध्या व्यजायत ।
मरुत्त्वया मरुत्त्वन्तो वसोस्तु वसवो ऽभवन् ॥०३२॥

भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ।

:न्

[[४५]]

विश्वास-प्रस्तुतिः

सम्बाया2 धर्मतो घोषो नागवीथी3 च यामिजा ॥०३३॥

पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत ।
सङ्कल्पायास्तु सङ्कल्पा इन्दोर् नक्षत्रतः सुताः ॥०३४॥

आपो ध्रुवञ्च सोमञ्च धरश् चैवानिलोनलः1
प्रत्यूषश् च प्रभावश् च वसवोष्टौ च नामतः ॥०३५॥

आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस् तथा ।
ध्रुवस्य कालो लोकान्तो वर्चाः सोमस्य वै सुतः ॥०३६॥

धरस्य पुत्रो द्रविणो4 हुतहव्यवहस् तथा ।
मनोहरायाः शिशिरः प्राणोथ रमणस् तथा5 ॥०३७॥

पुरोजवोनिलस्यासीदविज्ञातो ऽनलस्य च ।
अग्निपुत्रः कुमारश् च शरस्तम्बे व्यजायत ॥०३८॥

तस्य शाखो विशाखश् च नैगमेयश् च पृष्टजः ।
कृत्तिकातः कार्त्तिकेयो यतिः सनत्कुमारकः6 ॥०३९॥

प्रत्यूषाद्देवलो जज्ञे विश्वकर्मा प्रभावतः ।
कर्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्धकिः ॥०४०॥

मनुष्याश्चोप्जीवन्ति शिल्पं वै भूषणादिकं ।
सुरभी7 कश्यपाद्रुद्रानेकादश विजज्ञुषी ॥०४१॥

महादेवप्रसादेन तपसा भाविता सती ।

:न्

[[४६]]

विश्वास-प्रस्तुतिः

अजैकपादहिर्ब्रघ्नस्त्वष्टा रुद्राश् च सत्तम2 ॥०४२॥

त्वष्टुश् चैवात्मजः श्रीमान्विश्वरूपो महायशाः ।
हरश् च बहुरूपश् च त्र्यम्बकश्चापराजितः ॥०४३॥

वृषाकपिश् च शम्भुश् च कपर्दी रैवतस् तथा ।
मृगव्याधस्य सर्पश् च कपाली दश चैककः ।०४४।
रुद्राणां च शतं लक्षं यैर् व्याप्तं सचराचरं ॥०४४॥

{इत्य् आदिमाहापुराणे आग्नेये जगत्सर्गवर्णनं नाम अष्टादशो ऽध्यायः }

  1. अजीजनत् सुतां कन्यां सद्रूपाञ्च तपोन्वितामिति ग,
    चिह्नितपुस्तकपाठः । अजीजनत् सुतां कन्यां शतरूपां
    तपोन्वितामिति ङ,चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. भूतमुच्चावचं ह्य् अजादिति ख, घ, चिह्नितपुस्तकद्वयपाठः
    सान्ध्यांस्तैर् अयजन् देवान् भूतमुच्चावचं प्रजा इति ङ,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. निश्चितमिति ख,चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. तस्मात् श्लिष्टिञ्च इति ग, घ, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  5. श्लिष्टेआराधत्त इति ख, घ, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  6. उरूरिति ख,ग, ङ, चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  7. युवती इति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎