{अथ सप्तदशो ऽध्यायः}
विश्वास-प्रस्तुतिः
सृष्टिविषयकवर्ननम्
अग्निरुवाच्च
जगत्सर्गादिकान् क्रीडान् विष्णोर्वक्ष्येधुना शृणु ।
स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः ॥००१॥
मूलम्

[[४०]]
विश्वास-प्रस्तुतिः
ब्रह्माव्यक्तं सदाग्रे ऽभूत् न खं रात्रिदिनादिकं ।
प्रकृतिं पुरुषं विष्णुः1 प्रविश्याक्षोभयत्ततः ॥००२॥

स्वर्गकाले महत्तत्त्वमहङ्कारस्ततो ऽभवत् ।।
वैकारिकस्तैजसश् च भूतादिश् चैव तामसः ॥००३॥

अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः ।
स्पर्शमात्रो ऽनिलस्तस्माद्रूपमात्रो ऽनलस्ततः ॥००४॥

रसमात्रा आप इतो गन्धमात्रा मही स्मृता2 ।
अहङ्कारात्तामसात्तु तैजसानीन्द्रियाणि च ॥००५॥

वैकारिका दश देवा मन एकादशेन्द्रियम् ।
ततः स्वयम्भूर्भगवान्3 सिसृक्षुर्विविधाः प्रजाः ॥००६॥

अप एव ससर्जादौ तासु वीर्यमवासृजत्4 ।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥००७॥

अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः ।
हिरण्यवर्णमभवत्5 तदण्डमुदकेशयम् ॥००८॥

तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।
हिरण्यगर्भो6 भगवानुषित्वा परिवत्सरम् ॥००९॥

तदण्डमकरोत् द्वैधन्दिवं भुवमथापि च ।
तयोः शकलयोर्मध्ये आकाशमसृजत् प्रभुः ॥०१०॥

अप्सु पारिप्लवां पृथिवीं दिशश् च दशधा दधे ।
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥०११॥

:न्
[[४१]]
विश्वास-प्रस्तुतिः
ससर्ज सृष्टिन्तद्रूपां स्रष्टुमिच्छन् प्रजापतिः ।
विद्युतोशनिमेघांश् च रोहितेन्द्रधनूंषि च ॥०१२॥

वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः ।
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥०१३॥

साध्यास्तैर् अयजन्देवान् भूतमुच्चावचं भुजात्1 ।
सनत्कुमारं रुद्रञ्च ससर्ज क्रोधसम्भवम् ॥०१४॥

मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।।
वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः2 ॥०१५॥

सप्तैते जनयन्ति स्म प्रजा रुद्राश् च सत्तम ।
द्विधा कृत्वात्मनो देहमर्धेन पुरुषो ऽभवत् ॥०१६॥

अर्धेन नारी तस्यां स ब्रह्मा वै चासृजत् प्रजाः ॥०१६॥

{इत्य् आदिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम सप्तदशो ऽध्यायः }