{अथ षोडशो ऽध्यायः}
विश्वास-प्रस्तुतिः
बुद्धाद्यवतारकथनम्
अग्निर् उवाच
वक्ष्ये बुद्धावतारञ्च पठतः शृण्वतोर्थदम् ।
पुरा देवासुरे युद्धे दैत्यैर् देवाः पराजिताः ॥००१॥
मूलम्

रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम् ।
मायमोहस्वरुपोसौ शुद्धोदनसुतो ऽभवत् ॥००२॥

मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम् ।
ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः ॥००३॥

आर्हतः सो ऽभवत् पश्चादार्हतानकरोत् परान् ।
एवं पाषण्डिनो जाता वेदधर्मादिवर्जिताः ॥००४॥

[[३९]]
विश्वास-प्रस्तुतिः
नरकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि ।
सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः ॥००५॥

दस्यवः शीलहीनाश् च वेदो वाजसनेयकः ।
दश पञ्च च शाखा वै प्रमाणेन भविष्यति ॥००६॥

धर्मकञ्चुकसंवीता अधर्मरुचयस् तथा ।
मानुषान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ॥००७॥

कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः ।
उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः ॥००८॥

स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम् ।
आश्रमेषु च सर्वेषु प्रजाः सद्धर्मवर्त्मनि ॥००९॥

कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति ।
ततः कृतयुगान्नाम पुरावत् सम्भविष्यति ॥०१०॥

वर्नाश्रमाश् च धर्मेषु स्वेषु स्थास्यन्ति सत्तम ।
एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च ॥०११॥

अवतारा असङ्ख्याता अतीतानागतादयः ।
विष्णोर्दशावताराख्यान् यः पठेत् शृणुयान्नरः ॥०१२॥

सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात् ।
धर्माधर्मव्यवस्थानमेवं वै कुरुते हरिः ।०१३।
अवतीर्णञ्च स गतः सर्गादेः कारणं हरिः ॥०१३॥

{इत्य् आदिमहापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनं नाम षोडशो ऽध्यायः }