{अथ पञ्चदशो ऽध्यायः}
विश्वास-प्रस्तुतिः
पाण्डवचरितवर्णनम्
अग्निर् उवाच
युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम् ।
धृतराष्ट्रो वनमगाद् गान्धारी च पृथा द्विज ॥००१॥
मूलम्

विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः ।
एवं विष्णुर्भुवो भारमहरद्दानवादिकम् ॥००२॥

धर्मायाधर्मनाशाय निमित्तीकृत्य पाण्डवान् ।
स विप्रशापव्याजेन मुषलेनाहरत् कुलम् ॥००३॥

यादवानां भारकरं वज्रं राज्येभ्यषेचयत् ।
देवदेशात् प्रभासे स देहं त्यक्त्वा स्वयं हरिः ॥००४॥

इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः ।
बलभद्रोनन्तमूर्तिः पातालस्वर्गमीयिवान् ॥००५॥

अविनाशी हरिर्देवो ध्यानिभिर्ध्येय एव सः ।
विना तं द्वारकास्थानं प्लावयामास सागरः ॥००६॥

संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः ।
स्त्रियोष्टावक्रशापेन भार्या विष्णोश् च याः स्थिताः ॥००७॥

पुनस्तच्छापतो नीता गोपालैर् लगुडायुधैः ।
अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह ॥००८॥

:न्
[[३८]]
विश्वास-प्रस्तुतिः
हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत् ॥००९॥

युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा ।
तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः ॥०१०॥

विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा ।
तच् छ्रुत्वा धर्मराजस्तु राज्ये स्थाप्य परीक्षितम् ॥०११॥

प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह ।
संसारानित्यतां ज्ञात्वा जपन्नष्टशतं हरेः ॥०१२॥

महापथे तु पतिता द्रौपदी सहदेवकः ।
नकुलः फाल्गुनो भीमो राजा शोकपरायणः ॥०१३॥

इन्द्रानीतरथारूढः सानुजः स्वर्गमाप्तवान् ।
दृष्ट्वा दुर्योधनादींश् च वासुदेवं च हर्षितः ॥०१४॥

एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत् ॥०१४॥

{इत्य् आदिमहापुराणे आग्नेये महाभारतवर्णनं नाम पञ्चदशो ऽध्यायः }