{अथ चतुर्दशो ऽध्यायः}
विश्वास-प्रस्तुतिः
कुरुपाण्डवसङ्ग्रामवर्णनम्
अग्निर् उवाच
यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः ।
भीष्मद्रोणादिकान् दृष्ट्वा नायुध्यत गुरूनिति ॥००१॥
मूलम्

पार्थं ह्य् उवाच भगवान्नशोच्या भीष्ममुख्यकाः ।
शरीराणि विनाशीनि न शरीरी विनश्यति ॥००२॥

:न्
[[३५]]
विश्वास-प्रस्तुतिः
अयमात्मा परं ब्रह्म अहं ब्रह्मस्मि विद्धि तम् ।
सिद्ध्यसिद्ध्योः समो योगी राजधर्मं प्रपालय ॥००३॥

कृष्णोक्तोथार्जुनो ऽयुध्यद्रथस्थो वाद्यशब्दवान् ।
भीष्मः सेनापतिरभूदादौ दौर्योधने बले ॥००४॥

पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह ।
धार्तराष्ट्राः पाण्डवांश् च जघ्नुर्युद्धे
सभीष्मकाः ॥००५॥

धार्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहवे ।
देवासुरसं युद्धं कुरुपाण्दवसेनयोः ॥००६॥

बभूव स्वस्थदेवानां पश्यतां प्रीतिवर्धनं ।
भीष्मोस्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत् ॥००७॥

दशमे ह्य् अर्जुनो वाणैर् भीष्मं वीरं ववर्ष ह ।
शिखण्डी द्रुपदोक्तो ऽस्त्रैर् ववर्ष जलदो यथा ॥००८॥

हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम्1 ।
भीष्मः स्वच्छन्दमृत्युश् च युद्धमार्गं प्रदर्श्य च ॥००९॥

वसूक्तो वसुलोकाय शरशय्यागतः स्थितः ।
उत्तरायणमीक्षंश् च ध्यायन् विष्णुं स्तवन् स्थितः ॥०१०॥

दुर्योधने तु शोकार्ते द्रोणः सेनापतिस्त्वभुत् ।
पाण्दवे हर्षिते सैन्ये ढृष्टद्युम्नश् चमूपतिः ॥०११॥

तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम् ।
विराटद्रुपदाद्याश् च निमग्ना द्रोणसागरे ॥०१२॥

दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी ।
धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ ॥०१३॥

हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत् ।
धृष्टद्युम्नशराक्रान्तः पतितः स महीतले ॥०१४॥

[[३६]]
विश्वास-प्रस्तुतिः
पञ्चमेहनि दुर्धर्षः सर्वक्षत्रं प्रमथ्य च ।
दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत् ॥०१५॥

अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह ।
शस्त्राशस्त्रि महारौद्रं देवासुररणोपमम् ॥०१६॥

कर्णार्जुनाख्ये सङ्ग्रामे कर्णोरीनबधीच्छरैः ।
द्वितीयाहनि कर्णस्तु अर्जुनेन निपातितः ॥०१७॥

शल्यो दिनार्धं युयुधे ह्य् अबधीत्तं युधिष्ठिरः ।
युयुधे भीमसेनेन हतसैन्यः सुयोधनः ॥०१८॥

बहून् हत्वा नरादींश् च भीमसेनमथाब्रवीत् ।
गदया प्रहरन्तं तु भीमस्तन्तु व्यपातयत् ॥०१९॥

गदयान्यानुजांस्तस्य तस्मिन्नष्टादेशेहनि ।
रात्रौ सुषुप्तञ्च बलं पाण्डवानां न्यपातयत् ॥०२०॥

अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः ।
द्रौपदेयान् सपाञ्चालान् धृष्टद्युम्नञ्च सो ऽबधीत् ॥०२१॥

पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः ।
शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च ॥०२२॥

अश्वत्थामास्त्रनिर्दग्धं जीवयामास वै हरिः ।
उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः ॥०२३॥

कृतवर्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात् ।
पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे ॥०२४॥

स्त्रियश्चार्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः ।
संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः ॥०२५॥

भीष्माच्छान्तनवाच्छ्रुत्वा धर्मान् सर्वांश् च शान्तिदाम् ।
राजधर्मान्मोक्षधर्मान्दानधर्मान् नृपो ऽभवत् ॥०२६॥

[[३७]]
विश्वास-प्रस्तुतिः
श्रुत्वार्जुनान्मौषलेयं1 यादवानाञ्च सङ्क्षयम् ।०२७।
राज्ये परीक्षितं स्थाप्य सानुजः स्वर्गमाप्तवान् [^२] ॥०२७॥

{इत्य् आदिमहापुराणे आग्नेये महाभारतवर्णनं नाम चतुर्दशो ऽध्यायः }