{अथ त्रयोदशो ऽध्यायः}
विश्वास-प्रस्तुतिः
कुरुपाण्डवोत्पत्त्यादिकथनं
अग्निर् उवाच
भारतं सम्प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम् ।
भूभारमहरद्विष्णुर् निमित्तीकृत्य पाण्डवान् ॥००१॥
मूलम्

विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रो ऽत्रिरत्रितः ।
सोमः सोमाद्बुधस्तस्मादैल आसीत् पुरूरवाः ॥००२॥

तस्मादायुस्ततो राजा नहुषो ऽतो ययातिकः ।
ततः पुरुस्तस्य वंशे भरतो ऽथ नृपः कुरुः ॥००३॥

तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतो ऽनुजौ ।
चित्राङ्गदो विचित्रश् च सत्यवयाञ्च शान्तनोः ॥००४॥

स्वर्गं गते शान्तनौ च भीष्मो भार्याविवर्जितः ।
अपालयत् भ्रातृराज्यं बालश्चित्राङ्गदो हतः ॥००५॥

चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका ।
अम्बालिका च भीष्मेण आनीते विजितारिणा ॥००६॥

भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः ।
सत्यवत्या ह्य् अनुमतादम्बिकायां नृपोभवत् ॥००७॥

धृतराष्ट्रो ऽम्बालिकायां पाण्डुश् च व्यासतः सुतः ।
गान्धार्यां धृतराष्ट्राच्च दुर्योधनमुखं शतम् ॥००८॥

शतशृङ्गाश्रमपदे भार्यायोगाद् यतो मृतिः ।
ऋषिशापात्ततो धर्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः ॥००९॥

वाताद्भीमो ऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः ।
नकुलः सहदेवश् च पाण्डुर्माद्रीयुतो मृतः ॥०१०॥

कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधाश्रितः ।
कुरुपाण्डवयोर्वैरन्दैवयोगाद्बभूव ह ॥०११॥

[[३३]]
विश्वास-प्रस्तुतिः
दुर्योधनो जतुगृहे पाण्डवानदहत् कुधीः ।
दग्धागाराद्विनिष्क्रान्ता मातृपृष्टास्तु पाण्डवाः ॥०१२॥

ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने ।
मुनिवेषाः स्थिताः सर्वे निहत्य वकराक्षसम् ॥०१३॥

ययौः पाञ्चालविषयं द्रौपद्यास्ते स्वयम्वरे ।
सम्प्राप्ता बाहुवेधेन1 द्रौपदी पञ्चपाण्डवैः2 ॥०१४॥

अर्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः ।
गाण्डीवञ्च धनुर्दिव्यं पावकाद्रथमुत्तमम् ॥०१५॥

सारथिञ्चार्जुनः सङ्ख्ये कृष्णमक्षय्यशायकान् ।
ब्रह्मास्त्रादींस् तथा द्रोणात्सर्वे शस्त्रविशारदाः ॥०१६॥

कृष्णेन सो ऽर्जुनो वह्निं खाण्डवे समतर्पयत् ।
इन्द्रवृष्टिं वारयंश् च शरवर्षेण पाण्डवः ॥०१७॥

जिता दिशः पाण्डवैश् च राज्यञ्चक्रे युधिष्ठिरः ।
बहुस्वर्णं3 राजसूयं न सेहे तं सुयोधनः ॥०१८॥

भ्रात्रा दुःशासनेनोक्तः कर्णेन प्राप्तभूतिना ।
द्यूतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम् ॥०१९॥

अजयत्तस्य राज्यञ्च सभास्थो माययाहसत् ।
जितो युधिष्ठिरो भ्रातृयुक्तश्चारण्यकं ययौ ॥०२०॥

वने द्वादशवर्षाणि प्रतिज्ञातानि सो ऽनयत् ।
अष्टाशीतिसहस्राणि भोजयन् पूर्ववत् द्विजान् ॥०२१॥

सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम् ।
कङ्को द्विजो ह्य् अविज्ञातो4 राजा भीमोथ सूपकृत् ॥०२२॥

:न्
[[३४]]
विश्वास-प्रस्तुतिः
बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा ।
अन्यनाम्ना भीमसेनः कीचकञ्चाबधीन्निशि ॥०२३॥

द्रौपदीं हर्तुकामं तं अर्जुनश्चाजयत् कुरून् ।
कुर्वतो गोग्रहादींश् च तैर् ज्ञाताः पाण्डवा अथ ॥०२४॥

सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत् ।
अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम् ॥०२५॥

सप्ताक्षौहिणीश आसीद्धर्मराजो रणाय सः ।
कृष्णो दूतोब्रवीद् गत्वा दुर्योधनममर्षणम् ॥०२६॥

एकादशाक्षौहिणीशं नृपं दुर्योधनं तदा ।
युधिष्ठिरायार्धराज्यं देहि ग्रामांश् च पञ्च वा ॥०२७॥

युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः ।
भूसूच्यग्रं न दास्यामि योत्स्ये सङ्ग्रहणोद्यतः ॥०२८॥

विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्चितः1 ।
प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम् ॥०२९॥

{इत्य् आदिमहापुराणे आग्नेये आदिपर्वादिवर्णनं नाम त्रयोदशो ऽध्यायः }