०१२ हरिवंशकथनम्

{अथ द्वादशो ऽध्यायः}

विश्वास-प्रस्तुतिः

श्रीहरिवंशवर्णनं

अग्निर् उवाच
हरिवंशम्प्रवक्ष्यामि विष्णुनाभ्यम्बुजादजः1
ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः ॥००१॥

मूलम्

तस्मादायुरभूत्तस्मान् नहुषो ऽतो ययातिकः ।
यदुञ्च तुर्वसुन्तस्माद् देवयानी व्यजायत ॥००२॥

द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ।
यदोः कुले यादवाश् च वसुदेवस्तदुत्तमः ॥००३॥

भुवो भारावतारार्थं देवक्यां वसुदेवतः ।
हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया ॥००४॥

विष्णुप्रयुक्तया नीता देवकीजठरं पुरा ।
अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः ॥००५॥

सङ्क्रामितो ऽभूद्रोहिण्यां रौहिणेयस्ततो हरिः ।
कृष्णाष्टम्याञ्च नभसि अर्धरात्रे चतुर्भुजः ॥००६॥

देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः ।
वसुदेवः कंसभयाद् यशोदाशयने ऽनयत् ॥००७॥

यशोदाबालिकां गृह्य देवकीशयने ऽनयत् ।
कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षेप शिलातले ॥००८॥

वारितोपि स देवक्या मृत्युर्गर्भोष्टमो मम ।
श्रुत्वाशरीरिणीं वाचं मत्तो गर्भास्तु मारिताः ॥००९॥

समर्पितास्तु देवक्या विवाहसमयेरिताः ।
सा क्षिप्ता बालिका कंसम् आकाशस्थाब्रवीदिदम् ॥०१०॥

किं मया क्षिप्तया कम्स जातो यस्त्वां बधिष्यति ।

:न्

[[२८]]

विश्वास-प्रस्तुतिः

सर्वस्वभूतो देवानां भूभारहरणाय सः ॥०११॥

मूलम्

सर्वस्वभूतो देवानां भूभारहरणाय सः ॥०११॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा सा च शुम्भादीन् हत्वेन्द्रेण च संस्तुता ।
आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि ॥०१२॥

भद्रा क्षेम्या क्षेमकरी नैकबाहुर् नमामि ताम् ।
त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात् ॥०१३॥

कंसो ऽपि पूतनादींश् च प्रेषयद्बालनाशने ।
यशोदापतिनन्दाय वसुदेवेन चार्पितौ ॥०१४॥

रक्षणाय च कंसादेर् भीतेनैव हि गोकुले ।
रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ॥०१५॥

सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः ।
कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ॥०१६॥

यमलार्जुनमध्ये ऽगाद् भग्नौ च यमलार्जुनौ ।
परिवृत्तश् च शकटः पादक्षेपात् स्तनार्थिना ॥०१७॥

पूतना स्तनपानेन सा हता हन्तुमुद्यता ।
वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ॥०१८॥

जित्वा निःसार्य चाब्धिस्थञ् चकार बलसंस्तुतः ।
क्षेमं तालवनं चक्रे हत्वा धेनुकगर्दभं ॥०१९॥

अरिष्टवृषभं हत्वा केशिनं हयरूपिणम् ।
शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ॥०२०॥

पर्वतं धारयित्वा च शक्राद्वृष्टिर् निवारिता ।
नमस्कृतो महेन्द्रेण गोविन्दो ऽथार्जुनोर्पितः ॥०२१॥

इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः ।
रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः ॥०२२॥

गोपीभिरनुरक्ताभिः क्रीडिताभिर् निरीक्षितः ।

[[२९]]

विश्वास-प्रस्तुतिः

रजकं चाप्रयच्छन्तं1 हत्वा वस्त्राणि चाग्रहीत् ॥०२३॥

सह रामेण मालाभृन् मालाकारे वरन्ददौ ।
दत्तानुलेपनां कुब्जाम् ऋजुं चक्रे ऽहनद् गजं ॥०२४॥

मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च ।
कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकं ॥०२५॥

चक्रे चाणूरमल्लेन मुष्टिकेन बलो ऽकरोत् ।
चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे ॥०२६॥

मथुराधिपतिं कंसं हत्वा तत्पितरं हरिः ।
चक्रे यादवराजानम् अस्तिप्राप्ती च कंसगे ॥०२७॥

जरासन्धस्य ते पुत्र्यौ जरासन्धस्तदीरितः ।
चक्रे स मथुरारोधं यादवैर् युयुधे शरैः ॥०२८॥

रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ ।
जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकं ॥०२९॥

पुरीं च द्वारकां कृत्वा न्यवसद् यादवैर् वृतः ।
भौमं तु नरकं हत्वा तेनानीताश् च कन्यकाः ॥०३०॥

देवगन्धर्वयक्षाणां ता उवाच जनार्दनः ।
षोदशस्त्रीसहस्राणि रुक्मिण्याद्यास् तथाष्ट च ॥०३१॥

सत्यभामासमायुक्तो गरुडे नरकार्दनः ।
मणिशैलं सरत्रञ्च इन्द्रं जित्वा हरिर्दिवि ॥०३२॥

पारिजातं समानीय सत्यभामागृहे ऽकरोत् ।
सान्दीपनेश् च शस्त्रास्त्रं ज्ञात्वा तद्बालकं ददौ ॥०३३॥

जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः ।

:न्

[[३०]]

विश्वास-प्रस्तुतिः

अबधीत् कालयवनं मुचुकुन्देन पूजितः ॥०३४॥

मूलम्

अबधीत् कालयवनं मुचुकुन्देन पूजितः ॥०३४॥

विश्वास-प्रस्तुतिः

वसुदेवं देवकीञ्च भक्तविप्रांश् च सोर्च्यत् ।
रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ ॥०३५॥

कृष्णात् शाम्बो जाम्बवत्यामन्यास्वन्ये ऽभवन् सुताः ।
तं मत्स्यं शम्बरायादान्मायावत्यै च शम्बरः ॥०३७॥

मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात् ।
पपोष सा तं चोवाच रतिस्ते ऽहं पतिर्मम ॥०३८॥

कामस्त्वं शम्भुनानङ्गः कृतोहं शम्बरेण च ।
हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि ॥०३९॥

तच् छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया ।
मायावत्या ययौ कृष्णं कृष्णो हृष्टो ऽथ रुक्मिणी ॥०४०॥

प्रद्युम्नादनिरुद्धोभूदुषापतिरुदारधीः ।
बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरं ॥०४१॥

तपसा शिवपुत्रो ऽभूत् मायूरध्वजपातितः ।
युद्धं प्राप्स्यसि वाण त्वं वाणं तुष्टः शिवोभ्यधात् ॥०४२॥

शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ ।
तामाह गौरी भर्ता ते निशि सुप्तेति दर्शनात् ॥०४३॥

वैशाखमासद्वादश्यां पुंसो भर्ता भविष्यति ।
गौर्युक्ता1 हर्षिता चोषा गृहे सुप्ता ददर्श तं ॥०४४॥

आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया ।
लिखिताद्वै चित्रपटादनिरुद्धं समानयत् ॥०४५॥

[[३१]]

विश्वास-प्रस्तुतिः

कृष्णपौत्रं द्वारकातो दुहिता वाणमन्त्रिणः ।
कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्य् उषया सह ॥०४६॥

वाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः ।
अनिरुद्धस्य वाणेन युद्धमासीत्सदारुणम् ॥०४७॥

श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान् ।
गरुडस्थोथ जित्वाग्नीन् ज्वरं माहेश्वरन्तथा ॥०४८॥

हरिशङ्करयोर्युद्धं बभूवाथ शराशरि ।
नन्दिविनायकस्कन्दमुखास्तार्क्षादिभिर्जिताः ॥०४९॥

जृम्भते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना ।
छिन्नं सहस्रं बाहूनां रुद्रेणाभयमर्थितम् ॥०५०॥

विष्णुना जीवितो वाणो द्विबाहुः प्राब्रवीच्छिवम् ।
त्वया यदभयं दत्तं वाणस्यास्य मया च तत् ॥०५१॥

आवयोर् नास्ति भेदो वै भेदी नरकमाप्नुयात् ।
शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक् ॥०५२॥

द्वारकान्तु गतो रेमे उग्रसेनादियादवैः ।
अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित् ॥०५३॥

बलभद्रः प्रलम्बघ्नो यमुनाकर्षणो1 ऽभवत् ।
द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः ॥०५४॥

हरी रेमेनेकमूर्तो रुक्मिण्यादिभिरीश्वरः ।
पुत्रानुत्पादयामास त्वसङ्ख्यातान् स यादवान् ।०५५।
हरिवंशं पठेत् यः स प्राप्तकामो हरिं व्रजेत् ॥०५५॥

{इत्य् आदिमहापुराणे आग्नेये हरिवंशवर्णनं नाम द्वादशो ऽध्यायः }

:न्

[[३२]]

  1. विष्णुनाभ्यब्जादज इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎