{अथ एकादशो ऽध्यायः}
विश्वास-प्रस्तुतिः
श्रीरामावतारवर्णनं
नारद उवाच
राज्यस्थं राघवं जग्मुर् अगस्त्याद्याः सुपूजिताः ।
धन्यस्त्वं विजयी यस्माद् इन्द्रजिद्विनिपातितः ॥००१॥
मूलम्

ब्रह्मात्मजः पुलस्त्योभूत् विश्रवास्तस्य नैकषी ।
पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः ॥००२॥

:न्
[[२६]]
विश्वास-प्रस्तुतिः
तपसा ब्रह्मदत्तेन वरेण जितदैवतः ॥००३॥
मूलम्
तपसा ब्रह्मदत्तेन वरेण जितदैवतः ॥००३॥
विश्वास-प्रस्तुतिः
कुम्भकर्णः सनिद्रो ऽभूद् धर्मिष्ठो ऽभूद्विभीषणः ।
स्वसा शूर्पणखा तेषां रावणान्मेघनादकः ॥००४॥

इन्द्रं जित्वेन्द्रजिच्चाभूद् रावणादधिको बली ।
हतस्त्वया लक्ष्मणेन देवादेः क्षेममिच्छता ॥००५॥

इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः ।
देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्दनः ॥००६॥

अभूत् पूर्मथुरा काचित् रामोक्तो भरतो ऽवधीत् ।
कोटित्रयञ्च शैलूष- पुत्राणां निशितैः शरैः ॥००७॥

शैलूषं दुष्टगन्धर्वं सिन्धुतीरनिवासिनम् ।
तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः ॥००८॥

भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः ।
रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः ॥००९॥

पुत्रौ कुशलवौ जातौ वाल्मीकेराश्रमे वरौ ।
लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् ॥०१०॥

राज्येभिषिच्य ब्रह्माहम् अस्मीति ध्यानतत्परः ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥०११॥

राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्चितो ययौ ।
सपौरः सानुजः सीता- पुत्रो जनपदान्वितः ॥०१२॥

अग्निर् उवाच
वाल्मीकिर् नारदाच्छ्रुत्वा रामायणमकारयत् ।
सविस्तरं यदेतच्च शृणुयात्स दिवं व्रजेत् ॥०१३॥

{इत्य् आदिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशो ऽध्यायः }
[[२७]]