{अथ दशमो ऽध्यायः}
विश्वास-प्रस्तुतिः
श्रीरामावतारवर्णनं
नाराद उवाच
रामोक्तश्चाङ्गदो गत्वा रावणं प्राह जानकी ।
दीयतां राघवायाशु अन्यथा त्वं मरिष्यसि ॥००१॥
मूलम्

रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः ।
रामायाह दशग्रीवो युद्धमेकं तु मन्यते ॥००२॥

रामो युद्धाय तच् छ्रुत्वा लङ्कां सकपिराययौ ।
वानरो हनूमान् मैन्दो द्विविदो जाम्बवान्नलः ॥००३॥

[[२३]]
विश्वास-प्रस्तुतिः
पनसो विनतो रम्भः शरभः क्रथनो बली ॥००४॥
मूलम्
पनसो विनतो रम्भः शरभः क्रथनो बली ॥००४॥
विश्वास-प्रस्तुतिः
गवाक्षो दधिवक्त्रश् च गवयो गन्धमादनः ।
एते चान्ये च सुग्रीव एतैर् युक्तो ह्य् असङ्ख्यकैः ॥००५॥

रक्षसां वानराणाञ्च युद्धं सङ्कुलमाबभौ ।
राक्षसा वानरान् जघ्नुः शरशक्तिगदादिभिः ॥००६॥

वानरा राक्षसाञ् जघ्नुर् नखदन्तशिलादिभिः ।
हस्त्यश्वरथपादातं राक्षसानां बलं हतं ॥००७॥

हनूमान् गिरिशृङ्गेण धूम्राक्षमबधीद्रिपुम् ।
अकम्पनं प्रहस्तञ्च युध्यन्तं नील आबधीत् ॥००८॥

इन्द्रजिच्च्छरबन्धाच्च विमुक्तौ रामलक्ष्मणौ ।
तार्क्षसन्दर्शनाद्वाणैर् जघ्नतू राक्षसं बलम् ॥००९॥

रामः शरैर् जर्जरितं रावणञ्चाकरोद्रणे ।
रावनः कुम्भकर्णञ्च बोधयामास दुःखितः ॥०१०॥

कुम्भकर्णः प्रबुद्धो ऽथ पीत्वा घटसहस्रकम् ।
मद्यस्य महिषादीनां भक्षयित्वाह रावणम् ॥०११॥

सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः ।
अतो गच्छामि युद्धाय रामं हन्मि सवानरम् ॥०१२॥

इत्युक्त्वा वानरान् सर्वान् कुम्भकर्णो ममर्द ह ।
गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त सः ॥०१३॥

कर्णनासाविहीनो ऽसौ भक्षयामास वानरान् ।
रामो ऽथ कुम्भकर्णस्य बाहू चिच्छेद शायकैः ॥०१४॥

ततः पादौ ततश्छित्वा शिरो भूमौ व्यपातयत् ।
अथ कुम्भो निकुम्भश् च मकराक्षश् च राक्षसः ॥०१५॥

महोदरो महापार्श्वो मत्त उन्मत्तराक्षसः ।
प्रघसो भासकर्णश् च विरूपाक्षश् च संयुगे ॥०१६॥

[[२४]]
विश्वास-प्रस्तुतिः
रामेण लक्ष्मणेनैते वानरैः सविभीषणैः ॥०१७॥

युध्यमानास्तया ह्य् अन्ये राक्षसा भुवि पातिताः ।
इन्द्रजिन्मायया युध्यन् रामादीन् सम्बबन्ध ह ॥०१८॥

वरदत्तैर् नागबाणैः1 ओषध्या तौ विशल्यकौ ।
विशल्ययाब्रणौ कृत्वा मारुत्यानीतपर्वते ॥०१९॥

हनूमान् धारयामास तत्रागं यत्र संस्थितः ।
निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः ॥०२०॥

शरैर् इन्द्रजितं वीरं युद्धे तं तु व्यशातयत् ।
रावणः शोकसन्तप्तः सीतां हन्तुं समुद्यतः ॥०२१॥

अविन्ध्यवारितो2 राजा रथस्थः सबलो ययौ ।
इन्द्रोक्तो मातली रामं रथस्थं प्रचकार तम् ॥०२२॥

रामरावणयोर्युद्धं रामरावणयोरिव ।
रावणो वानरान् हन्ति मारुत्याद्याश् च रावणम् ॥०२३॥

रामः शस्त्रैस्तमस्त्रैश् च ववर्ध जलदो यथा ।
तस्य ध्वजं स चिच्छेद रथमश्वांश् च सारथिम् ॥०२४॥

धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि ।
पैतामहेन हृदयं भित्वा रामेण रावणः ॥०२५॥

भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः ।
आश्वास्य तञ्च संस्कृत्य रामाज्ञप्तो विभीषणः ॥०२६॥

हनूमतानयद्रामः सीतां शुद्धां गृहीतवान् ।
रामो वह्नौ प्रविष्टान्तां शुद्धामिन्द्रादिभिः स्तुतः ॥०२७॥

ब्रह्मणा दशरथेन त्वं विष्णू राक्षसमर्दनः ।
इन्द्रोर्चितो ऽमृतवृष्ट्या जीवयामास वानरान् ॥०२८॥

:न्
[[२५]]
विश्वास-प्रस्तुतिः
रामेण पूजिता जग्मुर् युद्धं दृष्ट्वा दिवञ्च ते ।
रामो विभीषणायादाल् लङ्कामभ्यर्च्य वानरान् ॥०२९॥

ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः1 ।
दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः ॥०३०॥

भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः ।
भरतेन नतश्चागाद् अयोध्यान्तत्र संस्थितः ॥०३१॥

वसिष्ठादीन्नमस्कृत्य कौशल्याञ्चैव केकयीम् ।
सुमित्रां प्राप्तराज्यो ऽथ द्विजादीन् सो ऽभ्यपूजयत् ॥०३२॥

वासुदेवं स्वमात्मानम् अश्वमेधैर् अथायजत् ।
सर्वदानानि स ददौ पालयामास सः प्रजाः ॥०३३॥

पुत्रवद्धर्मकामादीन् दुष्टनिग्रहणे रतः ।
सर्वधर्मपरो लोकः सर्वशस्या च मेदिनी ।०३४।
नाकालमरणञ्चासीद् रामे राज्यं प्रशासति ॥०३४॥

{इत्य् आदिमहापुराणे आग्नेये रामायणे युद्धकाण्डवर्णनं नाम दशमो ऽध्यायः }