{अथ नवमो ऽध्यायः}
विश्वास-प्रस्तुतिः
श्रीरामावतारकथनं
नारद उवाच
सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः ।
अब्धिं दृष्ट्वाब्रुवंस्ते ऽब्धिं लङ्घयेत् को नु जीवयेत् ॥००१॥
मूलम्

[[२०]]
विश्वास-प्रस्तुतिः
कपीनां जीवनार्थाय रामकार्यप्रसिद्धये ।
शतयोजनविस्तीर्णं पुप्लुवे ऽब्धिं स मारुतिः ॥००२॥

दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च ।
लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे ॥००३॥

दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः ।
विभीषणस्येन्द्रजितो गृहे ऽन्येषां च रक्षसो ॥००४॥

नापश्यत् पानभूम्यादौ सीतां चिन्तापरायणः ।
अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले ॥००५॥

राक्षसीरक्षितां सीतां भव भार्येति वादिनं ।
रावणं शिंशपास्थो ऽथ नेति सीतान्तु वादिनीं ॥००६॥

भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः ।
गते तु रावणे प्राह राजा दशरथो ऽभवत् ॥००७॥

रामो ऽस्य1 लक्ष्मणः पुत्रौ वनवासङ्गतौ वरौ ।
रामपत्नी जानकी त्वं रावणेन हृता बलात् ॥००८॥

रामः सुग्रीवमित्रस् त्वां मार्गयन् प्रेषयच्च माम्2 ।
साभिज्ञानञ्चागुलीयं रामदत्तं गृहाण वै ॥००९॥

सीताङ्गुलीयं जग्राह सापश्यन्मारूतिन्तरौ ।
भूयो ऽग्रे चोपविष्टं तम् उवाच यदि जीवति ॥०१०॥

रामः कथं न नयति शृङ्कितामब्रवीत् कपिः ।
रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति ॥०११॥

रावणं राक्षसं हत्वा सबलं देवि मा शुच ।
साभिज्ञानं देहि मे त्वं मणिं सीताददत्कपौ ॥०१२॥

:न्
[[२१]]
विश्वास-प्रस्तुतिः
काकाक्षिपातनकथाम् प्रतियाहि हि शोकह ॥०१३॥

मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः ।
अथवा ते त्वरा काचित् पृष्ठमारुह मे शुभे ॥०१४॥

अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् ।
सीताब्रवीद्धनूमन्तं नयतां मां हि राघवः ॥०१५॥

हनूमान् स दशग्रीव दर्शनोपायमाकरोत् ।
वनं बभञ्ज तत्पालान् हत्वा दन्तनखादिभिः ॥०१६॥

हत्वातु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि ।
पुत्रमक्षं कुमारञ्च शक्रजिच्च बबन्ध तम् ॥०१७॥

नागपाशेन पिङ्गाक्षं दर्शयामास रावणम् ।
उवाच रावणः कस्त्वं मारुतिः प्राह रावणम् ॥०१८॥

रामदूतो राघवाय सीतां देहि मरिष्यसि ।
रामबाणैर् हतः सार्धं लङ्कास्थै राक्षसैर् ध्रुवम् ॥०१९॥

रावणो हन्तुमुद्युक्तो विभीषणनिवारितः ।
दीपयामास लाङ्गलं दीप्तपुच्छः स मारुतिः ॥०२०॥

दग्ध्वा लङ्कां राक्षसांश् च दृष्ट्वा सीतां
प्रणम्य ताम् ।
समुद्रपारमागम्य दृष्टा सीतेति चाब्रवीत् ॥०२१॥

अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु ।
जित्वा दधिमुखादींश् च दृष्ट्वा रामञ्च ते ऽब्रुवन् ॥०२२॥

दृष्टा सीतेति रामो ऽपि हृष्टः पप्रच्छ मारुतिम् ।
कथं दृष्ट्वा त्वया सीता किमुवाच च माम्प्रति ॥०२३॥

सीताकथामृतेनैव सिञ्च मां कामवह्निगम् ।
हनूमानब्रवीद्रामं लङ्घयित्वाब्धिमागतः ॥०२४॥

सीतां दृष्ट्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै ।
हत्वा त्वं रावणं सीतां प्राप्स्यसे राम मा शुच ॥०२५॥

[[२२]]
विश्वास-प्रस्तुतिः
मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम् ॥०२६॥

तया विना न जीवामि सुग्रीवाद्यैः प्रबोधितः ।
समुद्रतीरं गतवान् तत्र रामं विभीषणः ॥०२७॥

गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना ।
रामाय देहि सीतां त्व मित्युक्तेनासहायवान् ॥०२८॥

रामो विभीषणं मित्रं लङ्कैश्वर्ये ऽभ्यषेचयत् ।
समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः ॥०२९॥

भेदयामास रामञ्च उवाचाब्धिः समागतः ।
नलेन सेतुं बध्वाब्धौ लङ्कां व्रज गभीरकः ॥०३०॥

अहं त्वया कृतः पूर्वं रामो ऽपि नलसेतुना ।
कृतेन तरुशैलाद्यैर् गतः पारं महोदधेः ॥०३१॥

वानरैः स सुवेलस्थः सह लङ्कां ददर्श वै ॥०३१॥

{इत्य् आदिमहापुराणे आग्नेये रामायणे सुन्दरकाण्डवर्णनं नाम नवमो ऽध्यायः }