००८

{अथ अष्टमो ऽध्यायः}

विश्वास-प्रस्तुतिः

श्रीरामावतारकथनं

नारद उवाच
रामः पम्पासरो गत्वा शोचन् स शर्वरीं ततः1
हनूमता स सुग्रीवं2 नीतो मित्रञ्चकार ह ॥००१॥

मूलम्

सप्त तालान् विनिर्भिद्य शरेणैकेन पश्यतः ।
पादेन दुन्दुभेः कायञ् चिक्षेप दशयोजनं ॥००२॥

तद्रिपुं बालिनं हत्वा भ्रातरं वैरकारिणम् ।
किष्किन्धां कपिराज्यञ्च रुमान्तारां समर्पयत् ॥००३॥

ऋष्यमूके हरीशाय किष्किन्धेशो ऽब्रवीत्स च3
सीतां त्वं प्राश्यसे यद्वत्4 तथा राम करोमि ते ॥००४॥

तच् छ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकार सः ।
किष्किन्धायाञ्च सुग्रीवो यदा नायाति दर्शनं ॥००५॥

तदाब्रवीत्तं रामोक्तं लक्ष्मणो व्रज राघवम् ।
न स सङ्कुचितः पन्था येन बाली हतो गतः ॥००६॥

समये तिष्ठ सुग्रीव मा बालिपथमन्वगाः ।
सुग्रीव आह संसक्तो5 गतं कालं न बुद्धवान् ॥००७॥

इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः ।
आनीता वानराः सर्वे सीतायाश् च गवेषणे ॥००८॥

:न्

[[१९]]

विश्वास-प्रस्तुतिः

त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम् ।
पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान् ॥००९॥

इत्युक्ता वानराः पूर्व- पश्चिमोत्तरमार्गगाः ।
जग्मू रामं ससुग्रीवम् अपश्यन्तस् तु जानकीम् ॥०१०॥

रामाङ्गुलीयं सङ्गृह्य हनूमान् वानरैः सह ।
दक्षिणे मार्गयामास सुप्रभाया गुहान्तिके ॥०११॥

मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम् ।
ऊचुर्वृथा मरिष्यामो जटायुर्धन्य एवसः ॥०१२॥

सीतार्थे यो ऽत्यजत् प्राणान् रावणेन हतो रणे ।
तच् छ्रुत्वा प्राह सम्पातिर् विहाय कपिभक्षणं ॥०१३॥

भ्रातासौ मे जटायुर्वै मयोड्डीनो ऽर्कमण्डलम् ।
अर्कतापाद्रक्षितो ऽगात् दग्धपक्षो ऽहमब्भ्रगः ॥०१४॥

रामवार्ताश्रवात् पक्षौ जातौ भूयो ऽथ जानकीम् ।
पश्याम्यशोकवनिका- गतां लङ्कागतां किल ॥०१५॥

शतयोजनविस्तीर्णे लवणाब्धौ त्रिकूटके ।
ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै ॥०१६॥

{इत्य् आदिमहापुराणे आग्नेये रामायाणे किष्किन्धाकाण्डवर्णनं नाम अष्टमो ऽध्यायः }

  1. गौरवाच्छवरीनतः इति ङ, चिह्नितपुस्तकपाठः । शवरीं
    तत इति ख, ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  2. हनूमता वानरेन्द्रमिति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  3. अब्रवीत्तत् इति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  4. प्राप्स्यसि यथा इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  5. सुग्रीवमाह सङ्क्रुद्ध इति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
    सुग्रीव ऋद्धिसंसक्त इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎