००७

{अथ सप्तमो ऽध्यायः}

विश्वास-प्रस्तुतिः

रामायणवर्णनं

नारद उवाच

रामो वशिष्ठं मातॄञ्च नत्वातिञ्च प्रणम्य सः ।
अनसूयाञ्च तत्पत्नीं शरभङ्गं सुतीक्ष्णकम् ॥००१॥

मूलम्

:न्

[[१६]]

विश्वास-प्रस्तुतिः

अगस्त्यभ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः ।
धनुःखड्गञ्च सम्प्राप्य दण्डकारण्यमागतः ॥००२॥

जनस्थाने पञ्चवट्यां स्थितो गोदावरीतटे ।
तत्र सूर्पणखायाता भक्षितुं तान् भयङ्करी ॥००३॥

रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत् ।
कस्त्वं कस्मात्समायातो भर्ता मे भव चार्थितः ॥००४॥

एतौ च भक्षयिष्यामि इत्य् उक्त्वा तं समुद्यता ।
तस्या नासाञ्च कर्णौ च रामोक्तो लक्ष्मणो ऽच्छिनत् ॥००५॥

रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत् ।
मरिष्यामि विनासाहं खर जीवामि वै तदा ॥००६॥

रामस्य भार्या सीतासौ तस्यासील्लक्ष्मणो ऽनुजः ।
तेषाम् यद्रुधिरं1 सोष्णं पाययिष्यसि मां यदि ॥००७॥

खरस्तथेति तामुक्त्वा चतुर्दशसहस्रकैः ।
रक्षसां दूषणेनागाद् योद्धुं2 त्रिशिरसा सह ॥००८॥

रामं रामो ऽपि युयुधे शरैर् विव्याध राक्षसान् ।
हस्त्यश्वरथपादातं बलं निन्ये यमक्षयं ॥००९॥

त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चैव दूषणम् ।
ययौ सूर्पणखा लङ्कां रावणाग्रे ऽपतद् भुवि ॥०१०॥

अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः ।
खरादिहन्तू रामस्य सीतां भार्यां हरस्व च ॥०११॥

रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा ।
तथेत्याह च तच् छ्रुत्वा मारीचं प्राह वै व्रज ॥०१२॥

स्वर्णचित्रमृगो भूत्वा रामलक्ष्मणकर्षकः ।

:न्

[[१७]]

विश्वास-प्रस्तुतिः

सीताग्रे तां हरिष्यामि अन्यथा मरणं तव ॥०१३॥

मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः1
रावणादपि मर्तव्यं मर्तव्यं राघवादपि ॥०१४॥

अवश्यं यदि मर्तव्यं वरं रामो न रावणः ।
इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः ॥०१५॥

सीतया प्रेरितो2 रामः शरेणाथावधीच्च तं ।
म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च ॥०१६॥

सौमित्रिः सीतयोक्तो ऽथ विरुद्धं राममागतः ।
रावणोप्यहरत् सीतां हत्वा गृध्रं जटायुषं ॥०१७॥

जटायुषा स भिन्नाङ्गो3 अङ्केनादाय जानकीम् ।
गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत् ॥०१८॥

भव भार्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् ।
रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत् ॥०१९॥

मायामृगो ऽसौ सौमित्रे यथा त्वमिह चागतः ।
तथा सीता हृता नूनं नापश्यत् स गतो ऽथ ताम् ॥०२०॥

शुशोच विललापार्तो मान्त्यक्त्वा क्व गतासि वै ।
लक्ष्मणाश्वासितो रामो मार्गयामास4 जानकीम् ॥०२१॥

दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश् च तां ।
मृतो ऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः ॥०२२॥

शापमुक्तो ऽब्रवीद्रामं स त्वं सुग्रीवमाव्रज ॥०२२॥

{इत्य् आदिमहापुराणे आग्नेये रामायणे आरण्यककाण्डवर्णनं नाम सप्तमो ऽध्यायः }

:न्

[[१८]]

  1. यतो बली इति ख, ग, चिह्नितपुस्तकद्वयपाठः गतो बली इति ख, ङ,
    चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. नाहं राज्यं प्रयास्यामि इति ख, चिह्नितपुस्तकपाठः राज्यं
    नाहं प्रयास्यामि इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. विरथ इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎

  4. आह्वयामास इति ङ, चिह्नितपुस्तकपाठः ↩︎ ↩︎