{अथ षष्ठो ऽध्यायः}
विश्वास-प्रस्तुतिः
श्रीरामावतारवर्णनं
नारद उवाच
भरते ऽथ गते रामः पित्रादीनभ्यपूजयत् ।
राजा दशरथो रामम् उवाच शृणु राघव ॥००१॥
मूलम्
श्रीरामावतारवर्णनं
नारद उवाच
भरते ऽथ गते रामः पित्रादीनभ्यपूजयत् ।
राजा दशरथो रामम् उवाच शृणु राघव ॥००१॥
विश्वास-प्रस्तुतिः
गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः ।
मनसाहं प्रभाते ते यौवराज्यं ददामि ह ॥००२॥

रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव ।
राज्ञश् च मन्त्रिणश्चाष्टौ सवसिष्ठास् तथाब्रुवन् ॥००३॥

सृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः1 ।
अशोको धर्मपालश् च सुमन्त्रः सवसिष्ठकः2 ॥००४॥
विश्वास-प्रस्तुतिः
पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः ।
स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत् ॥००५॥

राजोवाच वसिष्ठादीन् रामराज्याभिषेचने ।
सम्भारान् सम्भवन्तु स्म इत्य् उक्त्वा कैकेयीङ्गतः ॥००६॥

अयोध्यालङ्कृतिं दृष्ट्वा ज्ञात्वा रामाभिषेचनं ।
भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी3 ॥००७॥

पादौ गृहीत्वा रामेण कर्षिता सापराधतः ।
तेन वैरेण सा राम- वनवासञ्च काङ्क्षति ॥००८॥

कैकेयि त्वं समुत्तिष्ठ रामराज्याभिषेचनं ।
मरणं तव पुत्रस्य मम ते नात्र संशयः ॥००९॥

:न्
[[१२]]
विश्वास-प्रस्तुतिः
कब्जयोक्तञ्च तच् छ्रुत्वा एकमाभरणं ददौ ।
उवाच मे यथा रामस् तथा मे भरतः सुतः ॥०१०॥

उपायन्तु न पश्यामि भरतो येन राज्यभाक् ।
कैकेयीमब्रवीत् क्रुद्धा हारं त्यक्त्वाथ मन्थरा ॥०११॥

बालिशे रक्ष भरतम् आत्मानं माञ्च राघवात् ।
भविता राघवो राजा राघवस्य ततः सुतः ॥०१२॥

राजवंशस्तु कैकेयि भरतात् परिहास्यते ।
देवासुरे पुरा युद्धे शम्बरेण हताः सुराः ॥०१३॥

रात्रौ भर्ता गतस्तत्र रक्षितो विद्यया त्वया ।
वरद्वयन्तदा प्रादाद् याचेदानीं नृपञ्च तत् ॥०१४॥

रामस्य च वनेवासं नव वर्षाणि पञ्च च ।
यौवराज्यञ्च भरते तदिदानीं प्रदास्यति ॥०१५॥

प्रोत्साहिता कुब्जया सा अनर्थे चार्थदर्शिनी ।
उवाच सदुपायं मे कच्चित्तं1 कारयिष्यति ॥०१६॥

क्रोधागारं प्रविष्टाथ पतिता भुवि मूर्छिता ।
द्विजादीनर्चयित्वाथ राजा दशरथस्तदा ॥०१७॥

ददर्श केकयीं रुष्टाम् उवाच कथमीदृशी ।
रोगार्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् ॥०१८॥

येन रामेण हि विना न जीवामि मुहूर्तकम् ।
शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि ॥०१९॥

सत्यं ब्रूहीति सोवाच नृपं मह्यं ददासि चेत् ।
वरद्वयं पूर्वदत्तं सत्यात् त्वं देहि मे नृप ॥०२०॥

[[१३]]
विश्वास-प्रस्तुतिः
सम्भारैर् एभिरद्यैव भरतोत्राभिषेच्यताम् ॥०२१॥

विषं पीत्वा मरिष्यामि दास्यसि त्वं न चेन्नृप ।
तच् छ्रुत्वा मूर्छितो भूमौ वज्राहत इवापतत् ॥०२२॥

मुहूर्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत् ।
किं कृतं तव रामेण मया वा पापनिश् चये ॥०२३॥

यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि ।
केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः ॥०२४॥

या त्वं भार्या1 कालरात्री भरतो नेदृशः सुतः ।
प्रशाधि विधवा राज्यं मृते मयि गते सुते ॥०२५॥

सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत् ।
कैकेय्या वञ्चितो राम राज्यं कुरु निगृह्य माम् ॥०२६॥

त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः ।
पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणं ॥०२७॥

कृत्वा नत्वा च कौशल्यां समाश्वस्य सलक्ष्मणः ।
सीतया भार्यया सार्धं सरथः ससुमन्त्रकः ॥०२८॥

दत्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः ।
मातृभिश् चैव विप्राद्यैः शोकार्तैर् निर्गतः पुरात् ॥०२९॥

उषित्वा तमसातीरे रात्रौ पौरान् विहाय च ।
प्रभाते तमपश्यन्तो ऽयोध्यां ते पुनरागताः ॥०३०॥

रुदन् राजापि कौशल्या- गृहमागात् सुदुःखितः ।
पौरा जना स्त्रियः सर्वा रुरुदू राजयोषितः ॥०३१॥

रामो रथस्थश्चीराढ्यः शृङ्गवेरपुरं ययौ ।
गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः2 ॥०३२॥

[[१४]]
विश्वास-प्रस्तुतिः
लक्ष्मणः स गुहो रात्रौ चक्रतुर्जागरं हि तौ ।
सुमन्त्रं सरथं त्यक्त्वा प्रातर् नावाथ जाह्नवीं ॥०३३॥

रामलक्ष्मणसीताश् च तीर्णा आपुः प्रयागकम् ।
भरद्वाजं नमस्कृत्य चित्रकूटं गिरिं ययुः ॥०३४॥

वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे ।
सीतायै दर्शयामास चित्रकूटञ्च राघवः ॥०३५॥

नखैर् विदारयन्तन्तां काकन्तच्चक्षुराक्षिपत् ।
ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहायसः ॥०३६॥

रामे वनं गते राजा षष्ठे ऽह्नि निशि चाब्रवीत् ।
कौशल्यां स कथां पौर्वां1 यदज्ञानद्धतः पुरा ॥०३७॥

कौमारे शरयूतीरे यज्ञदत्तकुमारकः ।
शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश् च तत्पिता ॥०३८॥

शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः ।
पुत्रं विना मरिष्यावस् त्वं च शोकान्मरिष्यसि ॥०३९॥

पुत्रं विना स्मरन् शोकात् कौशल्ये मरणं मम ।
कथामुक्त्वाथ हा रामम् उक्त्वा राजा दिवङ्गतः ॥०४०॥

सुप्तं मत्त्वाथ कौशल्या सुप्ता शोकार्तमेव सा ।
सुप्रभाते गायनाश् च सूतमागधवन्दिनः ॥०४१॥

प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः2 ।
कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत्3 ॥०४२॥

नरा नार्यो ऽथ रुरुदुर् आनीतो भरतस्तदा ।
वशिष्ठाद्यैः सशत्रुघ्नः शीघ्रं राजगृहात्पुरीम् ॥०४३॥

[[१५]]
विश्वास-प्रस्तुतिः
दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुःखितः ।
अकीर्तिः पातिता मूर्ध्नि कौशल्यां स प्रशस्य च ॥०४४॥

पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे ।
वशिष्ठाद्यैर् जनैर् उक्तो राज्यं कुर्विति सो ऽब्रवीत् ॥०४५॥

व्रजामि राममानेतुं रामो राजा मतो बली1 ।
शृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः ॥०४६॥

नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः ।
पिता स्वर्गं गतो राम अयोध्यायां नृपो भव ॥०४७॥

अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः ।
रामः श्रुत्वा जलं दत्वा गृहीत्वा पादुके व्रज ॥०४८॥

राज्यायाहन्नयास्यामि2 सत्याच्चीरजटाधरः ।
रामोक्तो भरतश्चायान् नन्दिग्रामे स्थितो बली ॥०४९॥

त्यक्त्वायोध्यां पादुके ते पूज्य राज्यमपालयत् ॥०४९॥

{इत्य् आदिमहापुराणे आग्नेये रामायणे ऽयोध्याकाण्डवर्णनं नाम षष्ठो ऽध्यायः ॥ }