{अथ पञ्चमो ऽध्यायः}
विश्वास-प्रस्तुतिः
श्रीरामावतारवर्णनम्
अग्निर् उवाच
रामायणमहं वक्ष्ये नारदेनोदितं पुरा ।
वाल्मीकये यथा तद्वत् पठितं भुक्तिमुक्तिदम् ॥००१॥
मूलम्

नारद उवाच
विष्णुनाभ्यब्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः ।
मरीचेः कश्यपस्तस्मात् सूर्यो वैवस्वतो मनुः ॥००२॥

ततस्तस्मात्तथेक्ष्वाकुस् तस्य वंशे ककुत्स्थकः ।
ककुत्स्थस्य रघुस्तस्माद् अजो दशरथस्ततः ॥००३॥

रावणादेर्बधार्थाय चतुर्धाभूत् स्वयं हरिः ।
राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह ॥००४॥

कैकेय्यां भरतः पुत्रः सुमित्रायाञ्च लक्ष्मणः ।
शत्रुघ्न ऋष्यशृङ्गेण तासु सन्दत्तपायसात् ॥००५॥

प्राशिताद्यज्ञसंसिद्धाद् रामाद्याश् च समाः पितुः ।
यज्ञविघ्नविनाशाय विश्वामित्रार्थितो नृपः ॥००६॥

[[१०]]
विश्वास-प्रस्तुतिः
रामो गतो ऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत्1 ॥००७॥

मारीचं मानवास्त्रेण मोहितं दूरतो ऽनयत् ।
सुबाहुं यज्ञहन्तारं सबलञ्चावधीत् बली ॥००८॥

सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह ।
गतः क्रतुं मैथिलस्य द्रष्टुञ्चापं सहानुजः ॥००९॥

शतानन्दनिमित्तेन विश्वामित्रप्रभावितः ।
रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ ॥०१०॥

धनुरापूरयामास लीलया स बभञ्ज तत्2 ।
वीर्यशुक्लाञ्च जनकः सीतां कन्यान्त्वयोनिजाम् ॥०११॥

ददौ रामाय रामो ऽपि पित्रादौ हि समागते ।
उपयेमे जानकीन्ताम् उर्मिलां लक्ष्मणस् तथा3 ॥०१२॥

श्रुतकीर्तिं माण्डवीञ्च कुशध्वजसुते तथा ।
जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ ॥०१३॥

कन्ये द्वे उपयेमाते जनकेन सुपूजितः ।
रामो ऽगात्सवशिष्ठाद्यैर् जामदग्न्यं विजित्य च ।०१४।
अयोध्यां भरतोभ्यागात्4 सशत्रुघ्नो युधाजितः ॥०१४॥

{इत्य् आदिमहापुराणे आग्नेये रामायणे बालकाण्डवर्णनं नाम पञ्चमो ऽध्यायः }
:न्
[[११]]