००४ वराह-नृसिंह-वामन-परशुरामावतारवर्णनम्

{अथ चतुर्थो ऽध्यायः}

विश्वास-प्रस्तुतिः

वराहाद्यवतारवर्णनं

अग्निर् उवाच
अवतारं वराहस्य वक्ष्ये ऽहं पापनाशनम् ।
हिरण्याक्षो ऽसुरेशो ऽभूत्1 देवान् जित्वा2 दिवि स्थितः ॥००१॥

मूलम्

देवैर् गत्वा स्तुतो विष्णुर् यज्ञरूपो वराहकः ।
अभूत्, तं दानवं हत्वा दैत्यैः साकञ्च कण्टकम्2 ॥००२॥

धर्मदेवादिरक्षाकृत् ततः सो ऽन्तर्दधे हरिः ।
हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस् तथा3 ॥००३॥

जितदेवयज्ञभागः सर्वदेवाधिकारकृत् ।
नारसिंहवपुः कृत्वा तं जघान सुरैः सह ॥००४॥

स्वपदस्थान् सुरांश् चक्रे नारसिंहः सुरैः स्तुतः ।
देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः ॥००५॥

जिताः स्वर्गात्परिभ्रष्टा हरिं वै4 शरणं गताः ।
सुराणामभयं दत्वा अदित्या कश्यपेन च ॥००६॥

स्तुतो ऽसौ वामनो भूत्वा ह्य् अदित्यां स क्रतुं ययौ ।
बलेः श्रीयजमानस्य, राजद्वारे ऽगृणात् श्रुतिं ॥००७॥

देवान् पठन्तं तं श्रुत्वा वामनं वरदो ऽब्रवीत् ।
निवारितो ऽपि शुक्रेण बलिर् ब्रूहि यद् इच्छसि ॥००८॥

तत्ते ऽहं सम्प्रदास्यामि, वामनो बलिमब्रवीत् ।

:न्

[[८]]

विश्वास-प्रस्तुतिः

पदत्रयं हि गुर्वर्थं1 देहि दास्ये तमब्रवीत् ॥००९॥

तोये तु पतिते हस्ते वामनो ऽभूदवामनः ।
भूर्लोकं स भुवर्लोकं स्वर्लोकञ्च पदत्रयं ॥०१०॥

चक्रे बलिञ्च सूतलं तच्छक्राय ददौ हरिः ।
शक्रो देवैर् हरिं स्तुत्वा भुवनेशः सुखी त्वभूत् ॥०११॥

वक्ष्ये परशुरामस्य चावतारं शृणु द्विज ।
उद्धतान् क्षत्रियान् मत्वा भूभारहरणाय सः ॥०१२॥

अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः ।
जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः ॥०१३॥

दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभृत् ।
सहस्रबाहुः सर्वोर्वी- पतिः स मृगयां गतः ॥०१४॥

श्रान्तो2 निमन्त्रितो ऽरण्ये मुनिना जमदग्निना ।
कामधेनुप्रभावेण भोजितः सबलो नृपः ॥०१५॥

अप्रार्थयत् कामधेनुं5 यदा स न ददौ तदा ।
हृतवानथ रामेण शिरश्छित्वा निपातितः ॥०१६॥

युद्धे परशुना राजा धेनुः स्वाश्रममाययौ3
कार्त्तवीर्यस्य पुत्रैस्तु जमदग्निर्निपातितः ॥०१७॥

रामे वनं गते वैराद् अथ रामः समागतः ।
पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः ॥०१८॥

त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः ।
कुरुक्षेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितॄन् ॥०१९॥

[[९]]

विश्वास-प्रस्तुतिः

काश्यपाय महीं दत्वा महेन्द्रे पर्वते स्थितः ।
कूर्मस्य च वराहस्य नृसिंहस्य च वामनं ।०२०।
अवतारं च रामस्य श्रुत्वा याति दिवं नरः ॥०२०॥

{इत्य् आदिमहापुराणे आग्नेये वराहनृसिंहाद्यवतारो नाम चतुर्थो ऽध्यायः }

  1. सुरेन्द्रोभूदिति घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. सुरान् जित्वेति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. हिरण्यकशिपुस्तदेति घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  4. हरिन्ते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎

  5. सार्धन्तु कण्टकमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎