००३ कूर्मावतारवर्णनम्

{अथ तृतीयो ऽध्यायः}

विश्वास-प्रस्तुतिः

कूर्मावतारवर्णनं

अग्निर् उवाच
वक्ष्ये कूर्मावतारञ्च श्रुत्वा पापप्रणाशनम्1
पुरा देवासुरे युद्धे दैत्यैर् देवाः पराजिताः ॥००१॥

मूलम्

दुर्वाससश् च शापेन निश्रीकाश्चाभवंस्तदा ।
स्तुत्वा क्षीराब्धिगं2 विष्णुम् ऊचुः पालय चासुरात् ॥००२॥

ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः3
क्षीराब्धिमथनार्थं हि अमृतार्थं श्रिये ऽसुराः ॥००३॥

अरयो ऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।
युष्मानमृतभाजो हि कारयामि4 न दानवान् ॥००४॥

:न्

[[५]]

विश्वास-प्रस्तुतिः

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु 5 वासुकिम् ।
क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः ॥००५॥

विष्णूक्तां संविदं कृत्वा दैत्यैः
क्षीराब्धिमागताः ।
ततो मथितुमारब्धाः यतः पुच्छन्ततः सुराः ॥००६॥

फणिनिःश्वाससन्तप्ता6 हरिणाप्यायिताः सुराः ।
मथ्यमाने ऽर्णवे सो ऽद्रिर् अनाधारो ह्य् अपो ऽविशत् ॥००७॥

कूर्मरूपं समास्थाय दध्रे विष्णुश् च मन्दरम् ।
क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्य् अभूत् ॥००८॥

हरेण धारितं कण्ठे नीलकण्ठस्ततो ऽभवत्1
ततो ऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः ॥००९॥

गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिङ्गता ।
पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियो ऽभवन् ॥०१०॥

ततो धन्वन्तरिर्विष्णुर् आयुर्वेदप्रवर्तकः2
बिभ्रत् कमण्डलुम्पूर्णम् अमृतेन समुत्थितः ॥०११॥

अमृतं तत्कराद्दैत्या सुरेभ्यो ऽर्धं प्रदाय च ।
गृहीत्वा जग्मुर्जन्माद्या विष्णुः स्त्रीरूपधृक् ततः ॥०१२॥

तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः ।
भव भार्यामृतं गृह्य पाययास्मान् वरानने ॥०१३॥

तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वापाययत्सुरान् ।
चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः 3 ॥०१४॥

[[६]]

विश्वास-प्रस्तुतिः

हरिणाप्यरिणा च्छिन्नं5 स राहुस्तच्छिरः पृथक् ।
कृपयामरतान्नीतं वरदं हरिमब्रवीत् ॥०१५॥

राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः ।
तस्मिन् कले च यद्दानं दास्यन्ते स्यात् तदक्षयं6 ॥०१६॥

तथेत्याहाथ तं विष्णुस् ततः सर्वैः सहामरैः ।
स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय ॥०१७॥

दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः ।
मायया मोहितः शम्भुः गौरीं त्यक्त्वा स्त्रियं गतः ॥०१८॥

नग्न उन्मत्तरूपो ऽभूत् स्त्रियः केशानधारयत्1
अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम् ॥०१९॥

स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि ।
तत्र तत्राभवत् क्षेत्रं लिङ्गानां कनकस्य च 2 ॥०२०॥

मायेयमिति तां ज्ञात्वा स्वरूपस्थो ऽभवद्धरः ।
शिवमाह हरी रुद्र जिता माया त्वया हि मे ॥०२१॥

न जेतुमेनां शक्तो मे त्वदृते ऽन्यः पुमान् भुवि ।
अप्राप्याथामृतं दैत्या देवैर् युद्धे निपातिताः ।०२२।
त्रिदिवस्थाः सुराश्चासन् यः पठेत् त्रिदिवं व्रजेत् ॥०२२॥

{इत्य् आदिमहापुराणे आग्नेये कूर्मावतारो नाम तृतीयो ऽध्यायः ॥ }

:न्

[[७]]

  1. संश्रुतं पापनाशनमिति ख, ग, घ
    चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. सुरा क्षीराब्धिगमिति ग, घ, चिह्नितपुस्त्कद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. सन्धिं कुरुत चासुररिति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  4. भाजो हि करिष्यामि इति ख, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  5. नावं बध्वा तस्य शृङ्गे इति ख, घ,
    चिह्नितपुस्तकद्वयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  6. स्तुतिभिर्मनुरिति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎