००२ मत्स्यावतारवर्णनम्

{अथ द्वितीयो ऽध्यायः}

विश्वास-प्रस्तुतिः

मत्स्यावतारवर्णनं

वशिष्ठ उवाच
मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् ।
पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम् ॥००१॥

मूलम्

अग्निर् उवाच
मत्स्यावतारं वक्ष्ये ऽहं वसिष्ठ शृणु वै हरेः ।
अवतारक्रिया दुष्ट- नष्ट्यै सत्पालनाय हि ॥००२॥

आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।
समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने ॥००३॥

मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये ।
एकदा कृतमालायां कुर्वतो जलतर्पणं ॥००४॥

तस्याञ्जल्युदके मत्स्यः स्वल्प एको ऽभ्यपद्यत ।
क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम1 ॥००५॥

:न्

[[३]]

विश्वास-प्रस्तुतिः

ग्राहादिभ्यो भयं मे ऽद्य2 तच् छ्रुत्वा कलशे ऽक्षिपत् ।
स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे वृहत् ॥००६॥

स्थानमेतद्वचः श्रुत्वा राजाथोदञ्चने ऽक्षिपत् ।
तत्र वृद्धो ऽब्रवीद्भूपं पृथु देहि पदं मनो ॥००७॥

सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् ।
ऊचे देहि वृहत् स्थानं3 प्राक्षिपच्चाम्बुधौ ततः1 ॥००८॥

लक्षयोजनविस्तीर्णः क्षणमात्रेण सो ऽभवत् ।
मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राब्रवीन् मनुः ॥००९॥

को भवान् ननु वै विष्णुर्4 नारायण नमोस्तुते ।
मायया मोहयसि मां किमर्थं त्वं जनार्दन ॥०१०॥

मनुनोक्तो ऽब्रवीन्मत्स्यो मनुं वै पालने रतम् ।
अवतीर्णो भवायास्य जगतो दुष्टनष्टये ॥०११॥

सप्तमे दिवसे त्वब्धिः प्लावयिष्यति वै जगत् ।
उपस्थितायां नावि त्वं वीजादीनि विधाय च ॥०१२॥

सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि ।
उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥०१३॥

इत्युक्त्वान्तर्दधे मत्स्यो5 मनुः कालप्रतीक्षकः6
स्थितः समुद्र उद्वेले नावमारुरुहे तदा ॥०१४॥

एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ।

:न्

[[४]]

विश्वास-प्रस्तुतिः

नावम्बबन्ध तच्छृङ्गे2 मत्स्याख्यं च पुराणकम् ॥०१५॥

शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश् च तं3
ब्रह्मवेदप्रहर्तारं हयग्रीवञ्च दानवं ॥०१६॥

अवधीत्, वेदमत्स्याद्यान् पालयामास केशवः ।
प्राप्ते कल्पे ऽथ वाराहे कूर्मरूपो ऽभवद्धरिः ॥०१७॥

{इत्य् आदिमहापुराणे आग्नेये मत्स्यावतारो नाम द्वितीयो ऽध्यायः ॥ }

  1. न मां क्षिप नृपोत्तम इति ख, ग, घ,
    चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  2. ब्रह्मावगम्यते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎ ↩︎ ↩︎

  3. अगोत्रचरणं परमिति ग, चिह्नितपुस्तकपाठः ↩︎ ↩︎ ↩︎ ↩︎

  4. ननु विष्णुस्त्वमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः ↩︎ ↩︎

  5. इत्य् उक्तान्तर्हितो मत्स्य इति घ, चिह्नितपुस्तकपाठः ↩︎ ↩︎

  6. इत्य् उक्त्वा देवमत्स्यात्मा बृहत्कारणसङ्गत इति ग,
    चिह्नितपुस्तकपाठः ↩︎ ↩︎