विश्वास-प्रस्तुतिः
{अथ प्रथमो ऽध्यायः}
ग्रन्थप्रस्तावना
श्रियं1 सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् ।
ब्रह्माणं वह्निमिन्द्रादीन् वासुदेवं नमाम्यहम् ॥००१॥
मूलम्

नैमिषे हरिमीजाना ऋषयः शौनकादयः ।
तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन् ॥००२॥

ऋषय ऊचुः
सूत त्वं पूजितो ऽस्माभिः सारात्सारं वदस्व नः ।
येन विज्ञानमात्रेण2 सर्वज्ञत्वं प्रजायते ॥००३॥

सूत उवाच
सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः ।
ब्रह्माहमस्मि तं ज्ञात्वा सर्वज्ञत्वं प्रजायते ॥००४॥

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्3 ।
द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः ॥००५॥

अहं शुकश् च पैलाद्या गत्वा वदरिकाश्रमम् ।
व्यासं नत्वा पृष्टवन्तः सो ऽस्मान् सारमथाब्रवीत् ॥००६॥

व्यास उवाच
शुकाद्यैः शृणु सूत त्वं वशिष्ठो मां यथाब्रवीत्4 ।
ब्रह्मसारं हि पृच्छन्तं मुनिभिश् च परात्परम् ॥००७॥

:न्
[[१]]
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच
द्वैविध्यं ब्रह्म1 वक्ष्यामि शृणु व्यासाखिलानुगम्2 ।
यथाग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह ॥००८॥

पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् ।
ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम्3 ॥००९॥

अग्निनोक्तं पुराणम् यद् आग्नेयं ब्रह्मसम्मितम्5 ।
भुक्तिमुक्तिप्रदं दिव्यं4 पठतां शृण्वतां नृणाम् ॥०१०॥

कालाग्निरूपिणम् विष्णुं ज्योतिर्ब्रह्म परात्परम् ।
मुनिभिः पृष्टवान् देवं पूजितं ज्ञानकर्मभिः ॥०११॥

संसारसागरोत्तार- नावं ब्रह्मेश्वरं वद ।
विद्यासारं यद्विदित्वा6 सर्वज्ञो जायते नरः ॥०१२॥

अग्निर् उवाच
विष्णुः कालाग्निरुद्रो ऽहं7 विद्यासारं वदामि ते ।
विद्यासारं पुराणं8 यत् सर्वं सर्वस्य कारणं ॥०१३॥

सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च ।
वंशानुचरितादेश् च, मत्स्यकूर्मादिरूपधृक् ॥०१४॥

द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह ।
ऋग्यजुःसामाथर्वाख्या वेदाङ्गानि च षड् द्विज9 ॥०१५॥

[[२]]
विश्वास-प्रस्तुतिः
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ।
छन्दो ऽभिधानं मीमांसा धर्मशास्त्रं पुराणकम् ॥०१६॥

न्यायवैद्यकगान्धर्वं धनुर्वेदो ऽर्थशास्त्रकम् ।
अपरेयं परा विद्या यया ब्रह्माभिगम्यते1 ॥०१७॥

यत्तददृश्यमग्राह्यम् अगोत्रचरणम् ध्रुवम्2 ।
विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा ।०१८।
तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम् ॥०१८॥

{इत्य् आदिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः ॥ }