{अथ षष्ठो ऽध्यायः}
विश्वास-प्रस्तुतिः
मार्कण्डेयोपाख्यानं
भरद्वाज उवाच
मार्कण्डेयेन मिनिना कथं मृत्युः पराजितः ।
एतदाख्याहि मे सूत त्वयैतत् सुचिरं पुरा ॥००१॥
मूलम्

सूत उवाच
इदन्तु महादाख्यानं भरद्वाज शृणष्व मे ।
शृण्वन्तु ऋषयः सर्वे पुरावृत्तं व्रवीम्यहं ॥००२॥

कुरुक्षेत्रे महापुण्ये व्यासपीठौ वराश्रमे ।
तत्रासीनं मुनिश्रेष्ठं कृष्णद्वैपायणं मुनिं ॥००३॥

कृतस्नानं कृतजपं मुनिशिष्यैः समावृतं ।
वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रविशारदं ॥००४॥

प्रणिपत्य यथान्यायं शुकः परमधार्मिकः ।
इदमेव समुद्दिश्य तम् पप्रच्छ कृताञ्जलिः ॥००५॥

यदुद्दिश्य वयं पृष्टास्त्वयात्र मुनिसन्निधौ ।
नरसिंहस्य भक्तेन पुण्यतीर्थनिवासिना ॥००६॥

शुक उवाच
मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः ।
एतदाख्याहि मे तात श्रोतुमिच्छामि ते ऽधुना ॥००७॥

व्यास उवाच
मार्कण्डेयेन मुनिना यथा मृत्युः पराजितः ।
तथा ते कथयिष्यामि शृणु वत्स समाहितः ॥००८॥

[[३८२]]
विश्वास-प्रस्तुतिः
महिष्याश् चैव शृन्वन्तु महदाख्यानमुत्तमं ॥००९॥

भृगोः ख्यात्यां ममुत्पन्नो मृकण्डुर्नाम वै सुतः ।
सुमित्रा नाम पत्री च मृकण्डोस्तु महात्मनः ॥०१०॥

धर्मज्ञा धर्मनिरतां पतिशुश्रूषणे रता ।
तस्यां तस्य सुतो जातो मार्कण्डेयो महामतिः ॥०११॥

भृगोः पौत्रो महाभागो वमोत्वच1 महामतिः ।
बुबुधे वल्लभो वालः पिता तत्र कृतक्रियः ॥०१२॥

तस्मिन् वै जातमात्रे तु आदेशी कश्चिदब्रवीत् ।
वर्षे द्वादशमे पुत्रो मृत्व्यार्तश् च भविष्यति ॥०१३॥

श्रुत्वा तन्मातापितरौ दुःखितौ तौ बभूवतुः ।
परिभूयमानहृदयौ तं निरीक्ष्य महामतिं ॥०१४॥

तथापि तत् पिता धीमान् यत्नात् कालक्रियां ततः ।
चकार सर्वां मेधावी प्रहितो ऽसौ गुरोर्गृहं ॥०१५॥

वेवमेवाद्यस्त्रास्ते2 गुरुशुश्रुषनोद्यतः ।
स्वीकृत्य वेदशास्त्राणि स पुण्यगृहमागतः ॥०१६॥

मातापित्रोर्नमस्कृत्य पादयोर्विनयान्वितः ।
तस्थौ तत्र गृहे धीमान् मार्कण्डेयो महाद्युतिः ॥०१७॥

तं निरीक्ष्य महात्मानं तत्श्रद्धाञ्च विलक्षणां ।
दुःखितौ तौ भृशं तत्र तन्मातृपितरौ शुक ॥०१८॥

:न्
[[३८३]]
विश्वास-प्रस्तुतिः
उवाच वचनं तत्र किमर्थं दुःखमीदृशं ॥०१९॥
मूलम्
उवाच वचनं तत्र किमर्थं दुःखमीदृशं ॥०१९॥
विश्वास-प्रस्तुतिः
यदेतत् कुरुषे मातस्तातेन सह धीमता ।
वक्तुम् अर्हसि दुःखस्य कारणं मम पृच्छतः ॥०२०॥

इत्युक्ता पुत्रकेणाथ माता तस्य महात्मनः ।
कथयामास तत्सर्वं आदेशी यद् उवाच ह ॥०२१॥

तच् छ्रुत्वासौ सुनिश्चाह मातरं पितरं पुनः ।
पित्रा सार्धं त्वया मातर्मर्कार्यं दुःखमन्वपि ॥०२२॥

अपनेष्यामि मृत्युं X तपसा नात्र संशयः ।
यथा चाहं चिरायुःस्थां कुर्यां तथा महत्तपः ॥०२३॥

इत्युक्त्वासौ समाश्वासन् पितरौ न सद्यसात्[^३] ।
त्यजन्वीन(?) वनं नाम नानाऋषिसमाकुलं ॥०२४॥

तत्रासौ मुनिभिः सार्धं स्वासीनं स्वपितामहं ।
भृगुं ददर्श धर्मज्ञं मार्कण्डेयो महामतिः ॥०२५॥

भृगुराह महाभागं मार्कण्डेयं तदा शिशुं ।
किमागतो ऽसि पुत्रस्तु पितुस्ते कुशलं पुनः ॥०२६॥

मातुश् च बान्धवानाञ्च किमागमनकारणं ।
इत्येवमुक्तो मुनिना मार्कण्डेयो महात्मना ॥०२७॥

उवाच सकलं तस्मै आदेशिवचनन्तदा ।
पौत्रस्य वचनं श्रुत्वा पुनस्तं भृगुरब्रवीत् ।०२८।
एवं मतिमहावुद्धे किं त्वं कर्म चिकीर्षसि ॥०२८॥

मार्कण्डेय उवाच
भूतापहारिणं मृत्युं जेतुमिच्छामि साम्प्रतं ।
:न्
[[३८४]]
विश्वास-प्रस्तुतिः
तवओपदेशात्तु गुरो तत्रोपायं वदस्व नः ॥०२९॥

गुरुर् उवाच
नारायणमनभ्यर्च्य तपसा मनसा सुत ।
को जेतुं शक्नुयान् मृत्युं ततस्तं तपसार्चय ॥०३०॥

तम ??? न्तमजं विष्णुं अच्युतं पुरुषोत्तमं ।
भक्तप्रियं सुरश्रेष्ठं भक्त्या तं शरणं व्रज ॥०३१॥

तमेव शरणं पूर्वं गतवान्नारदो मुनिः ।
तपसा महता वत्स नारायणमनामयं ॥०३२॥
मूलम्
तमेव शरणं पूर्वं गतवान्नारदो मुनिः ।
तपसा महता वत्स नारायणमनामयं ॥०३२॥
विश्वास-प्रस्तुतिः
तत्प्रसादान्महाभाग नारदो ब्रह्मणः सुतः ।
जरां मृत्युं विजित्यासौ दीर्घायुर्वर्तते सुखं ॥०३३॥

तमृते पुण्डरीकाक्षं नारसिंहं जनार्दनं ।
भक्तानां वत्सलः कुर्यात् मृत्युसेनानिवारणं ॥०३४॥

तस्मात् त्वं लोककर्तारं विष्णुं जिष्णुं श्रियःपतिं ।
गोविन्दं गोपतिं देवं सततं शरणं व्रज ॥०३५॥

नारसिंहमजं देवं यदि पूजयसे सदा ।
वत्स जेतासि मृत्युं त्वं ससैन्यं नात्र संशयः ॥०३६॥

उक्तः पितामहेनैवं भृगुणाथ तमब्रवीत् ।
मार्कण्डेयो महातेजा विनयात्स पितामहं ॥०३७॥

आराध्यः कथितस्तात विष्णुरेवेति निश् चयात् ।
आराधितश् च भगवान् मम मृत्युं हरेदिति ॥०३८॥

कथमत्र मया काम्यमच्युताराधनं गुरो ।
येनासौ मम तुष्टस्तु मृत्युं सद्यो ऽपनेष्यति ॥०३९॥

[[३८५]]