{अथ पञ्चमो ऽध्यायः}
विश्वास-प्रस्तुतिः
वासिष्ठस्य मित्रावरुणपुत्रत्वकथनं
सूत उवाच
सृष्टिस्ते कथिता विष्णोर्मया ते जगतो द्विज ।
देवदानवयक्षाद्या यथोत्पन्ना महात्मना ॥००१॥
मूलम्

यमुदिश्य त्वया पृष्ठः पुराहमृषिसन्निधौ ।
मित्रावरुणपुत्रत्वं वसिष्ठस्य कथन्त्विति ॥००२॥

तदहं कथयिष्यामि पुण्याख्यानं पुरातनं ।
शृणुष्वैकाग्रमनसा भरद्वाज मयेरितं ॥००३॥
मूलम्
तदहं कथयिष्यामि पुण्याख्यानं पुरातनं ।
शृणुष्वैकाग्रमनसा भरद्वाज मयेरितं ॥००३॥
विश्वास-प्रस्तुतिः
सर्वधर्मार्थतत्वज्ञः सर्ववेदिदांवरः ।
पारागः सर्वविद्यानां दक्षो नाम प्रजापतिः ॥००४॥

तेन दत्ताः शुभाः कन्याः कश्यपाय त्रयोदश ।
तासां नामानि वक्ष्यामि निबोध च ममाधुना ॥००५॥

अदितिर्दितिर्दनुः काष्ठा मुहूर्ता सिंहिका मुने ।
स्रुता क्रोष्टा च सुरभिर्विनता सुरसा— ॥००६॥

कद्रुश् च सुरसा चैव यातुदेवी शुनी स्मृता ।
दक्षस्यैता दुहितरस्ताः प्रादात् कश्यपाय सः ॥००७॥

[[३७७]]
विश्वास-प्रस्तुतिः
तासां ज्येष्ठा वरिष्ठा च अदितिर्नामनामतः ।
अदितिः सुसुवे पुत्रान् द्वादशाग्निसमप्रभान् ॥००८॥

तेषां नामानि वक्ष्यामि शृणुत द्विजसत्तमाः ।
यैर् इदं वासवं नक्तं वर्तते क्रमशः सदा ॥००९॥

भर्गो ऽंशुश्चार्यमा चैव मित्रो ऽथ वरुणस् तथा ।
सविता चैव धाता च विवस्वांश् च महामत ॥०१०॥

त्वष्टा पूषा ततैवेन्द्रो विष्णुर्द्वादशमः स्मृतः ।
एते वै द्वादशादित्या वर्षन्ति—पतन्ति च ॥०११॥

तस्यास्तु मध्यमः पुत्रो वरुणो नामनामतः ।
लोकपाल इतिख्यातो वारुण्यां दिशि शब्द्यते ॥०१२॥

पश्चिमस्य समुद्रस्य प्रतीच्यां दिशि राजते ।
जातरूपमयः श्रीमानस्तो नाम शिलोच्चयः ॥०१३॥

सर्वरत्नमयैः शृङ्गैः धातुप्रस्रवणान्वितैः ।
संयुक्तोभाति शैलो ऽसौ नानारत्नमयः शुभः ॥०१४॥

महोदरीगुहाभिश् च सिंहसार्दूलनादितः ।
नानाविविक्तभूमीषु देवगन्धर्वसेवितः ॥०१५॥

यस्मिन् गते दिनकरे तमसा पूर्यते जगत् ।
तस्य शृङ्गे महादिव्या जाम्बुनदमयी शुभा ॥०१६॥

रम्या मणिमयैस्तम्भैर् विहिता विश्वकर्मणा ।
पुरी सुखावती नाम समृद्धा भोगसाधनैः ॥०१७॥

तस्यां वरुण आदित्यो दीप्यमानः स्वतेजसा ।
पाति सर्वानिमान् लोकान्नियुक्तो ब्रह्मणा स्वयं ॥०१८॥

[[३७८]]
विश्वास-प्रस्तुतिः
उपास्यमानीगन्धर्वैस्तथैवाप्सरसाङ्गणैः ।
दिव्यगन्धानुदीप्ताङ्गो दिव्याभरणभूषितः ॥०१९॥

कदाचिद्वरुणो यातो मित्रेण सहितो वनं ।
कुरुक्षेत्रे शभे ऽरण्ये सदा ब्रह्मर्षिसेविते ॥०२०॥

नानापुष्पफलोपेते नानार्थो — समन्विते ।
आश्रमायX दृश्यन्ते मुनीनामूर्धरेतसां ॥०२१॥

तस्मिंस्तीर्थे समाश्रित्य वहुपुष्पफलोदके ।
चीरकृष्णाजिनधरौ चेरतुस्तप उत्तमं ॥०२२॥

तत्रैकस्मिन् वनोद्देशे विमलो ऽथ ह्रदः शुभः ।
बहुगुल्मलताकीर्णो नानापक्षिनिषेवितः ॥०२३॥

नानातरुवनच्छन्नो नलिन्या चोपशोभितः ।
पौण्डरीक इतिख्यातो मीनकच्छपसेवितः ॥०२४॥
मूलम्
नानातरुवनच्छन्नो नलिन्या चोपशोभितः ।
पौण्डरीक इतिख्यातो मीनकच्छपसेवितः ॥०२४॥
विश्वास-प्रस्तुतिः
चेरतुर्मित्रावरुणौ भ्रातरौ ब्रह्मचारिणौ ।
तन्तु देशं गतौ देशात् विचरन्तौ यदृच्छया ॥०२५॥

ताभ्यां तत्र तदाकृष्टा उर्वशी तु वराप्सराः ।
स्नापयन्ती सहितान्याभिः सखीभिः सा वरानना ॥०२६॥

गायन्ती दिहसन्ती च मनोज्ञा मधुरस्वना ।
गौरी कमलगर्भाभा स्निग्धा कृष्णशिरोरुहा ॥०२७॥

पद्मपत्रविशालाक्षी रक्तोष्ठी मृदुभाषिणी ।
शङ्खकुन्देन्दुसदृशैर् दन्तैर् अविरलैः समैः ॥०२८॥

सुभ्रुः सुनासा सुनखा सुरनाटा मनस्विनी ।
करसम्मितमध्याङ्गी पीनोरुजघनस्थली ॥०२९॥
मूलम्
सुभ्रुः सुनासा सुनखा सुरनाटा मनस्विनी ।
करसम्मितमध्याङ्गी पीनोरुजघनस्थली ॥०२९॥
[[३७९]]
विश्वास-प्रस्तुतिः
तन्वङ्गी मधुरालापा सुमध्या चारुहासिनी ।
रक्तोत्पलकरापादामुपदी विनयान्विता ॥०३०॥
मूलम्
तन्वङ्गी मधुरालापा सुमध्या चारुहासिनी ।
रक्तोत्पलकरापादामुपदी विनयान्विता ॥०३०॥
विश्वास-प्रस्तुतिः
पूर्णचन्द्रनिभा बाला मत्ताकुञ्जरगामिनी ।
दृष्ट्वा तन्व्यास्तु तद्रूपं तौ देवौ विषयङ्गतौ ॥०३१॥

तस्या हास्येन लास्येन स्मितेन ललितेन च ।
मृदुना वामनाचैव1 शीतलेन सुगन्धिना ॥०३२॥

मत्तभ्रमरगीतेन पुंस्कोकिलरुतेन च ।
सुस्वरेण हि गीतेन उर्वश्या मधुरेण च ।०३३।
ईक्षितौ च कटाक्षेण स्कन्दतुस्ता वुभावपि2 ॥०३३॥

वसिष्ठ मित्रावरुणात्मजो ऽसि तत्रोचुरागत्य हि विश्वदेवाः ।
रेतस्त्रभागं कमलेच वन्तौ वसिष्ठ सेवन्तु पितामहोजं3 ॥०३४॥

तत्त्रिधा पतितं रेतः कमले ऽथ स्थले जले ।
कमले ऽथ वसिष्ठस्तु जातो हि मुनिसत्तम ।०३५।
स्थले त्वगस्त्यः सम्भूतो जले मत्स्यो महाद्युतिः ॥०३५॥

स तत्र जातो महिमान् वसिष्ठः ।
कुम्भेत्वगस्त्यः सलिले च मत्स्यः ॥०३६॥
मूलम्
स तत्र जातो महिमान् वसिष्ठः ।
कुम्भेत्वगस्त्यः सलिले च मत्स्यः ॥०३६॥
:न्
[[३८०]]
विश्वास-प्रस्तुतिः
तपसा प्राप्तकामो ऽसौ परं ज्योतिः सनातनं ॥०३७॥

तपस्यन्तौ सुरश्रेष्ठौ ब्रह्मागत्येदमब्रवीत् ।
मित्रावरुणौ देवौ पुत्रवन्तौ महाद्युती ॥०३८॥

सिद्धिर्भवत्वतिशया युवयोर्वैष्णवी पुनः ।
खाधिकारे तु स्थीयेतामधुना लोकसाक्षिणौ ॥०३९॥

इत्युक्त्वान्तर्दधे ब्रह्मा तौ स्थित्रौ स्वाधिकारके ।
एवं ते कथितं विप्र वसिष्ठस्य महात्मनः ॥०४०॥

मित्रावरुणपुत्रत्वमगस्त्यस्य च धीमतः ।
इदं पुंसीयमाख्यानं पुराणं पापनाशनं ॥०४१॥

सामात्यपुत्रो नृपतिः श्रुत्वा पापात् प्रमुच्यते ।
पुत्रकामाश् चये केचित् शृण्वन्तीदं शुचिव्रताः ॥०४२॥

अचिरादेव पुत्रांस्तु लभन्ते नात्र संशयः ।
यश् चैतत् पठते नित्यं हव्यकव्ये द्विजोत्तम ॥०४३॥

देवाश् च पितरस्तस्य तृप्ता यान्ति यथासुखं ।
यश् चैतत् पठते नित्यं प्रातरुत्थाय मानवः ॥०४४॥

विन्दते सुमहापुत्रान् स्वर्गलोकञ्च गच्छति ।
वरं मयेरितं पुरा वेदपरैर् उदीरितं ॥०४५॥

पठिष्यते यस्तु शृणोति सर्वदा ।
स यातिशुद्धो ऽधिकलोकमञ्जसा ॥०४६॥
मूलम्
पठिष्यते यस्तु शृणोति सर्वदा ।
स यातिशुद्धो ऽधिकलोकमञ्जसा ॥०४६॥
{इत्य् आग्नेये महापुराणे वसिष्ठस्य मित्रावरुणपुत्रत्वकथनं नाम पञ्चमो ऽध्यायः ॥ }
[[३८१]]