{अथ चतुर्थो ऽध्यायः}

विश्वास-प्रस्तुतिः

सृष्टि-प्रकरणं

भरद्वाज उवाच
रुद्रसर्गन्तु मे ब्रुहि विस्तरेण महामते ।
अनुसर्गं मरीच्याद्याः ससृजुस्ते कथं पुनः ॥००१॥

मूलम्

[[३६९]]

विश्वास-प्रस्तुतिः

मित्रावरुणपुत्रत्वं वशिष्ठस्य कथं भवेत् ।
ब्रह्मणो मनसः पूर्वमुत्पन्नस्य महागते ॥००२॥

सूत उवाच
रुद्रसृष्टिन्तु वक्ष्यामि तत्सर्गञ्चैव सत्तं ।
प्रतिसर्गं मुनीनान्तु विस्तराद्गदतः शृणु ॥००३॥

कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः ।
प्रादुरासीत् प्रभोरङ्गे कुमारो नीललोहितः ॥००४॥

अर्धनारीश्वरवपुः प्रचण्डो ऽति शरीरवान् ।
तेजसा भासयन् सर्वा दिशश् च विदिशस् तथा ॥००५॥

तं दृष्ट्वा तेजसा दीप्तं प्रत्युवाच प्रजापतिः ।
विभज्यात्मानमद्य त्वं मम वाक्यान्महामते ॥००६॥

इत्युक्तो ब्रह्मणा तेन रुद्रस्तत्र प्रतापवान् ।
स्त्रीभावं पुरुषत्वञ्च पृथक् पृथगथाकरोत् ॥००७॥

विभेद पुरुषत्वञ्च दशधा वैकथा तु सः ।
तेषां नामानि वक्ष्यामि शृणु मे द्विजसत्तम ॥००८॥

अजैकपादहिर्व्रध्नः कपाली रुद्र एव च ।
हरश् च वहुरूपश् च त्र्यम्बकश्चापराजितः ॥००९॥

वृषाकपिश् च शम्भुश् च कपर्दो रैवतस् तथा ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥०१०॥

स्त्रीत्वञ्चैव तथा रुद्रो विभेद दशधैकधा ।
तमेव वहुरूपेण पत्नीत्वेन व्यवस्थिता ॥०११॥

तपस्तप्त्वा जले घोरमुत्तानः स यदा पुरा ।
तदा स सृष्टवान्देवो रुद्रस्तत्र प्रतापवान् ॥०१२॥

तपोबलेन विप्रेन्द्र भूतानि विविधानि च ।

[[३७०]]

विश्वास-प्रस्तुतिः

पिशाचान् कश्मलांश् चैव सिंहोष्ट्रमकराननान् ॥०१३॥

वेतालप्रमुखानन्यानन्यांश् चैव सहस्रशः ।
तेन सृष्टास्तु कैलासे ब्रह्मभूतास्थितनह1 ॥०१४॥

विनायकानां रुद्राणां व्रिंशत्कोट्यर्धमेव च ।
नारकाख्यविनाशाय सृष्टवान्स्कन्दमेव च ॥०१५॥

एवम्प्रकारो रुद्रो ऽसौ मया ते कीर्तितः प्रभुः ।
अनुसर्गं मरीच्यादेः कथयामि निबोध मे ॥०१६॥

देवद्याः स्थावरान्ताश् च प्रजाः सृष्टाः स्वयम्भुवा ।
यदाX स्यX ताः सर्वाः नाभ्यवर्धन्त धीमतः ॥०१७॥

तदा स मानसान् पुत्रान् सदृशानात्मनो ऽसृजत् ।
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुं ॥०१८॥

प्रचेतसं वशिष्ठञ्च ??? ??? ??? ??? महामतिं ।
नव ब्रह्मण इत्य् एते पुराणे निश् चयं गताः ॥०१९॥

अग्निनश् च पितरश् चैव ब्रह्मपुत्रो तु मानसौ ।
सृष्टिकाले महाभाग धर्मं स्वायम्भुवं मनुं ॥०२०॥

शतरूपाञ्च सृष्ट्वा तु कन्यां स मनवे ददौ ।
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत ॥०२१॥

प्रियव्रतोत्तानपादौ प्रसुतीञ्चैव कन्यकां ।
ददौ प्रसूतिं दक्षाय मनुः खायम्भुवः सूतां ॥०२२॥

प्रसूतिश् च तदा दक्षाच्चत्वारो विंशतिस् तथा ।
ससर्ज कन्यकास्तासां शृणु नामानि मे ऽधुना ॥०२३॥

श्रद्धा सूतिर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ।

:न्

[[३७१]]

विश्वास-प्रस्तुतिः

बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥०२४॥

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ।
श्रद्धादीनान्तु पत्नीनां जाताः कामादयः सुताः ॥०२५॥

धर्मस्य पुत्रपौत्राद्यैर् धर्मवंशो विवर्धितः ।
तासु शिष्टा यवीयस्यस्तासां नामानि कीर्तये ॥०२६॥

सम्भूतिश्चानुभूया च स्मृतिः प्रीतिः क्षमा तथा ।
सन्नतिश्चाथ सत्या च उर्जा ख्यातिर्द्विजोत्तम ॥०२७॥

स्वाहा च दशमी ज्ञेया स्वधा चैकादशी स्मृता ।
एताश् च दत्ता दक्षेण ऋषीणां भावितात्मनां ॥०२८॥

मरीच्यादीनाञ्च ये पुत्रास्तानहं कथयामि ते ।
पत्री मरीचेः सम्भूतिर्जज्ञे सा कश्यपं मुनिं ॥०२९॥

स्मृतिश्चाङ्गिरसः पत्नी प्रसूता कन्यकास् तथा ।
सिनीवाली कुहश् चैव राका चानुमतिस् तथा ॥०३०॥

अनसूया तथैवात्रेर्जज्ञे पुत्रानकन्मषान् ।
सोमं दुर्वाससञ्चैव दत्तात्रेयञ्च योगिनं ॥०३१॥

प्रीत्यां पुलस्त्यभार्यायां दादानिस्तत्सुतो ऽभवत् ।
तस्य वै विश्रवाः पुत्रस्तत्पुत्रा रावणादिकाः ॥०३२॥

??? ??? ??? राक्षसाः प्रोक्ता लङ्कापुरनिवासिनः ।
येषां बधाय लोकेषु विष्णुः क्षीरोदनीरधौ ॥०३३॥

ब्रह्माद्यैः प्रार्थितो देवैर् अवतारमिहाकरोत् ।
कर्दमश्चाम्बरीषश् च सहिष्णुश्चे सुतत्रयम् ॥०३४॥

क्षमा तु सुसुवे भार्या पुलस्त्यस्य प्रजापतेः ।

[[३७२]]

विश्वास-प्रस्तुतिः

क्रतोस्तु सत्वतिर्भार्या वालिखिल्वानसूयत ॥०३५॥

षष्टि तानि सहस्रानि ऋषीणामूर्ध्वरेतसां ।
अङ्गुष्ठपर्वमानानां ज्वलद्भास्करतेजसां ॥०३६॥

प्रचेतसो ऽथ सत्यायां सत्यसन्ध्यास्त्रयः सुताः ।
जातास्तत्पुत्रपौत्राश् च शतशो ऽथ सहस्रशः ॥०३७॥

उर्जायाञ्च वसिष्ठस्य सप्ताजायन्त वै सुताः ।
राजा चोर्ध्ववाहुश् च सरनश्चानघन्तिमे1 ॥०३८॥

सुर्रूपाः शुक्र इत्य् एते सर्वे सप्तर्षयो ऽभवन् ।
भृगोःख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहा ॥०३९॥

तथा धाताविधातार्रौ खात्यां जातौ सुतौ भृगोः ।
आयतिर्नियतिश् चैव मेरोः कन्ये सुशोभने ॥०४०॥

धाताविधात्रोस्ते भार्ये तयोर्जातौ सुताबुभौ ।
प्राणश् चैवमृकण्डुश् च मार्कण्डेयो मृकण्डुजः ॥०४१॥

येन मृत्युर्जितो विप्र पुरा नारायणाय या ।
ततो देवशिवा जज्ञे प्राणस्यापि सुतो ऽभवत् ॥०४२॥

द्युतिमानिति विख्यातः सञ्जयस्तत्सुतो ऽभवत् ।
ततो वंशो महाभाग भार्गवो विस्तरं गतः ॥०४३॥

यश्चासावग्निनामा च ब्रह्मणस्तनयो ऽग्रजः ।
तस्मात् स्वाहा सुताल्लेभे त्रीनुदारौजसो द्विजाः ॥०४४॥

पावकं पवमानञ्च शुचिञ्चापि जलाशिनं ।
तेषान्तु वंशजान् वक्ष्ये षट्चत्वारिंशदीरितान् ॥०४५॥

[[३७३]]

विश्वास-प्रस्तुतिः

कथ्यन्ते वहुशश् चैते पिता पौत्रत्रयञ्च यत् ।
एवमेकोनपञ्चाशदन्वयात् परिकीर्तिताः ॥०४६॥

पितेरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव ।
तेभ्यः स्वधा सुते जज्ञे मेना वै धरणीधरा ॥०४७॥

प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।
यथा ससर्ज भूतानि तथा मे शृणु सत्तम ॥०४८॥

भूतानि मनसा पूर्वं दक्षX ??? असृजन्सुने ।
देवानृषीन् सगन्धर्वानसुरान् पन्नगांस्तदा ॥०४९॥

पदास्य सृजमानस्य न व्यवर्धन्त वै प्रजाः ।
तदा सञ्चिन्त्य स मुनिः सृष्टिहेतोः प्रजापतिः ॥०५०॥

मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः ।
असिक्नी यद्वृहत्कन्या वीरणस्य प्रजापतेः ॥०५१॥

षष्टि दक्षो ऽसृजत् कन्या वैरिण्यामितिं नः श्रुतिः ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥०५२॥

सप्तविंशति सोमाय चतस्रो विष्णुनेमिने ।
द्वे चैव बुद्धपुत्राय द्वे चैवाङ्गिरसे तदा ॥०५३॥

द्वे कृशाश्वाय विदुषे तदपत्यानि मे शृणु ।
विश्वेदेवास्तु विश्वाय साध्यासाध्यानसुयत ॥०५४॥

मरुत्यान्तु मरुत्वन्तो वसो ऽस्तु वसवः स्मृताः ।
भानोस्तु भानवो देवा मुहूर्तायां मुहूर्तजाः ॥०५५॥

नद्यायाञ्चैव घोपाख्यो नागवीथ्याञ्च जामिजाः ।
पृथिवीविषयं पूर्वमरुन्धत्यां व्यजायत ॥०५६॥

[[३७४]]

विश्वास-प्रस्तुतिः

सङ्कल्पायान्तु सङ्कल्पः पुत्रो यज्ञे महामते ।
ये त्वनेकवसुप्राणा देवज्योतिःपुरोगमाः ॥०५७॥

वसवो ऽष्टौ समाख्यातास्तेषां नामानि मे शृणु ।
आपो ध्रवश् च सोमश् च धरश् चैवानिलो ऽनलः ॥०५८॥

प्रत्यूषश् च प्रभाषश् च वसवो ऽष्टौ प्रकीर्तिताः ।
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशः ॥०५९॥

साध्याश् च वहवः प्रोक्तास्तत्पुत्राश् च सहस्रशः ।
अदितिर्दितिर्दनुश् चैव अरिष्टा सुरसा तथा ॥०६०॥

सुरभिर्विनता चैव ताम्रा क्रोधा खसा इरा ।
कद्रुर्मुनिश् च धर्मज्ञ तदपत्यानि मे शृणु ॥०६१॥

अदित्यां कश्यपाज्जाताः पुत्रा द्वादश शोभनाः ।
तानहं नामतो वक्ष्ये शृणुष्व गदतो मम ॥०६२॥

मर्गो ऽंशुरर्यमान् चैव मित्रो ऽथ वरुणस् तथा ।
सविता चैव धाता च विवस्वांश् च महामते ॥०६३॥

त्वष्टा पूषा तथैवेन्द्रो द्वादश विष्णुरुच्यते ।
दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतं ॥०६४॥

हिरण्याक्षो महाकायो वाराहेण तु यो हतः ।
अन्ये च वहवो दैत्या दितिपुत्रा महाबलाः ॥०६५॥

अरिष्टायान्तु गन्धर्वाज् जज्ञिरे । । । । । ।
सुरसायामथोत्पन्ना विद्याधरगणा वहुः ॥०६६॥

गास्तु वै जनयामास सुरभ्यां कश्यपो मुनिः ।
विनतायान्तु पुत्रौ द्वौ प्रख्यातौ गरुडारुणौ ॥०६७॥

[[३७५]]

विश्वास-प्रस्तुतिः

गरुडो देवदेवस्य विष्णोरमिततेजसः ।
वाहनत्वं गतः प्रीत्या अरुणः सूर्यासारथिः ॥०६८॥

ताम्रायाः कश्यपाज्जाताः षट्पुत्रास्तान् निबोध मे ।
अश्व+उष्ट्रा गर्दभाश् च हस्तिनो गवया मृगाः ॥०६९॥

क्रोधायां जज्ञिरे तद्वत् पशवो दुष्टजातयः ।
इरा वृक्षलतावल्लीतृणजात्यश्वपुत्रिकाः ॥०७०॥

खसा तु यक्षरक्षांसि मुनेरप्सरसस् तथा ।
कद्रुपुत्रा महानागा दन्दशूका विषोर्वणाः ॥०७१॥

सप्तविंशति याः प्रोक्ताः सोमपत्न्यो ऽथ सुव्रताः ।
तासां पुत्रा महासत्वा बुधाद्या अभवन्द्विज ॥०७२॥

अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।
वहुपुत्रस्य विदुषः ताम्रायां विद्युदादयः ॥०७३॥

प्रत्यङ्गिरःसुताः श्रेष्ठा ऋषयो ऋषिसत्कृताः ।
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः ॥०७४॥

एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः ॥०७५॥

एतेषां पुत्रपौत्राद्यैर् वृद्धा सृष्टिः प्रजापतेः ।
स्थिरौ स्थितस्य देवस्य नारसिंहस्य धीमतः ॥०७६॥

एता विभृतयो विप्र मया ते परिकीर्तिताः ।
कथिता दक्षकन्यानां मया ते ऽपत्यसन्ततिः ।०७७।
श्रद्धावान् यः स्मरेदेतान् यशःसन्तानवान् भवेत् ॥०७७॥

सर्गानुसर्गौ कथितौ मया ते समासतः सृष्टिविवृद्धिहेतोः ।

[[३७६]]

विश्वास-प्रस्तुतिः

पठन्ते ये विष्णुपराः सदा नराः इदं द्विजास्ते विमला
भवन्ति च ॥०७८॥

{इत्य् आग्नेये महापुराणे सृष्टिप्रकरणं नाम चतुर्थो ऽध्यायः} ॥

  1. पाठो ऽयं न साधुः ↩︎ ↩︎ ↩︎ ↩︎