{अथ तृतीयो ऽध्यायः}
विश्वास-प्रस्तुतिः
सृष्टि-प्रकरणं
भरद्वाज उवाच
नवधा सृष्टिरुत्पाना ब्रह्मनो ऽव्यक्तजन्मनः ।
कथं सा ववृधे सूत एतत्कथय मे ऽधुना ॥००१॥
मूलम्

सूत उवाच
प्रथमं ब्रह्मणा सृष्टा रुद्रस्यानु तपोधनाः ।
सनकादयश् च ये सृष्टा मरीच्यादय एव च ॥००२॥

मरीचिरत्रिश् च तथा अङ्गिराः पुलहःकतुः ।
पुनस्त्यश् च महातेजाः प्रचेता भृगुरेव च ॥००३॥

नारदो दशमश् चैव वसिष्ठश् च महाद्युतिः ।
सनकादयो निवृत्त्याख्ये ते च छर्मे नियोजिताः ॥००४॥

[[३६८]]
विश्वास-प्रस्तुतिः
प्रवृत्त्याख्ये मरीच्याद्या मोक्षैके नारदो मुनिः ।
यो ऽसौ प्रजापतिस्थस्य दक्षो नामाङ्गसम्भवः ॥००५॥

तस्य दौहित्रवंशेन जगदेतच्चराचरं ।
देवाश् च दानवाश् चैव गन्धर्वोरगपक्षिणः ॥००६॥

सर्वे दक्षस्य कन्यासु जाताः परमधार्मिकाः ।
चतुर्विधानि भूतानि स्थावराणि चराणि च ॥००७॥

वृद्धिं गतानि तान्येव मनुसर्गोद्भवानि च ।
मनुसर्गस्य कर्तारो मरीच्याद्या महर्षयः ।००८।
वसिष्ठाद्या महाभागा ब्रह्मणो मानसोद्भवाः ॥००८॥

सर्गेषु भूतानि वियन्मुखानि कालेन चासौ सृजते परात्मा ।
स एव पश्चा ??? ??? राज्यरूपी मुनिस्वरूपी च सृजत्यनन्तः ॥००९॥

{इत्य् आग्नेये महापुराणे सृष्टि-प्रकरणं नाम त्रितीयो ऽध्यायः}