विश्वास-प्रस्तुतिः

{अथ द्वितीयो ऽध्यायः}

सूत उवाच
अत्र सुप्तस्य देवस्य नाभौ पद्ममजायत ।
तस्मिन् पद्मे महाभाग वेदवेदाङ्गपारगः ॥००१॥

मूलम्

ब्रहोत्पन्नः स तेनोक्तः प्रजाः सृज महामते ।
एवमुक्त्वा तिरोभावं गतो नारयणः प्रभुः ॥००२॥

तथेत्युक्तं गतं देवं विष्णुं ब्रह्मा विचिन्तयन् ।
आस्ते किञ्चिज्जगद्धेतु नाध्यगच्छत किञ्चन ॥००३॥

तावत्तस्य महान् क्रोधो ब्रह्मणो ऽभून्महात्मनः ।
ततो रुद्रः समुत्पन्नस्तस्याङ्के रोषसम्मवः ॥००४॥

रुदन् स कथितस्तेन ब्रह्मणाव्यक्तजन्मना ।
नाम मे देहि चेद्युक्तन्तस्य रुद्रेत्यसौ ददौ ॥००५॥

सो ऽपि तेन सृजम्वेति प्रोक्तो लोकमिमं पुनः ।
असकृच्छ्रान्तसलिले ससर्ज तपसे धृतः ॥००६॥

[[३६५]]

विश्वास-प्रस्तुतिः

तस्मिन् सलिलमग्ने तु पुनरन्यं प्रजापतिं ।
ब्रह्मा ससर्ज भूतेशो दक्षिणात्तिष्ठतो ऽपरं ॥००७॥

दक्षं वामे ततोत्तिष्ठेत् तस्य पत्नीमजीजनत् ।
स तस्यां जनयामास मनुं स्वायम्भुवं प्रभुं ॥००८॥

तस्मात् सम्भाविता सृष्टिः प्रजानां ब्रह्मणा तथा ।
इत्येवं कथिता सृष्टिर्मया ते मुनिसत्तम ।००९।
सृजतो जगदीशस्य किम्भूयः श्रोतुमिच्छसि ॥००९॥

भरद्वाज उवाच
सङ्क्षेपेणैतदाख्यातं त्वया मे लोमहर्षण ।
विस्तरेण पुनर्व्रूहि आदिसृष्टिं महामते ॥०१०॥

तथैतदण्डावसाने निशासूप्तोत्थितः प्रभुः ।
सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत ॥०११॥

नारायणः परेणार्च्यः पूर्वेषामपि पूर्वजः ।
ब्रह्मस्वरूपो भगवान् अनादिः सर्वसम्भवः ॥०१२॥

इमञ्चे देहवन्तोहा1 श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिनं देवं जगतः प्रभवाव्ययं ॥०१३॥

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य तत् पूर्वं तेन नारायणः स्मृतः ॥०१४॥

सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अवृद्धिपूर्वकन्तस्य प्रादुर्भूतमहोमयः ॥०१५॥

तमो मोहो महामोहस्तामिखाद्यजसञ्ज्ञकः2
अविद्याः पञ्च पूर्वेषां प्रादुर्भूता महात्मनः ॥०१६॥

:न्

[[३६६]]

विश्वास-प्रस्तुतिः

पञ्चधावस्थितः सर्गो ध्यायतः प्रतिबोधनात् ।
मुख्यसर्गः स विज्ञेयः सर्गविद्भिर्विचक्षणैः ॥०१७॥

पुनरन्यन्तथा तस्य ध्यायतः सर्गमुत्तमं ।
तिर्यक्श्रोतः समुत्पन्नस्तिर्यक्श्रोतं ??? ??? स्मृतः ॥०१८॥

पश्वादयस्ते विख्याता उत्पथग्राहिणस्तु ते ।
तमप्यसाधकं मत्वा तिर्यकश्रोतश् चतुर्मुखः ॥०१९॥

ऊर्ध्वश्रोतस्तृतीयस्तु पार्थिवोर्ध्वमवर्तत ।
ततोर्ध्वचारिणो देवाः सहसर्गसमुद्भवाः ॥०२०॥

यदा तुष्टो न सर्गञ्च तदा तस्थौ प्रजापतिः ।
असाधकांस्तु तान्मत्वा मुख्यसर्गसमुद्भवान् ॥०२१॥

ततः स चिन्तयन् विप्र आर्वाक् श्रोतस्तु स स्मृतः ।
अर्वाक्श्रोतस्तथोत्पन्ना मनुष्याः साधका मताः ॥०२२॥

ते च प्रकाशवहनास्तमोद्रिजा रजोधिकाः ।
तस्मात्ते दुःखवहना भूयो भूयश् च कारिणः ॥०२३॥

इत्येते कथिताः सर्गाः ते तत्र मुनिसत्तम ।
प्रथमो महतः सर्गस्तन्मात्राणां द्वितीयकः ॥०२४॥

वैकारिकस्तृतीयस्तु समह ऐन्त्रियकः स्मृतः ।
मुख्यसर्गः चतुर्थस्तु ??? ??? ??? स्थावराः स्मृताः ॥०२५॥

तिर्यक् श्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ।
ततोर्ध्वश्रोतषां षष्ठो देवसर्गस्तु सप्तमः ॥०२६॥

ततोर्वाक् श्रोतसः श्रेष्ठसप्तमः सप्तमानुषः ।
अष्टमोनुग्रहः सर्गः स सात्त्विकस्तामसो हि सः ॥०२७॥

नवमो रुद्रसर्गस्तु नवसर्गाः प्रजापतेः ।

[[३६७]]

विश्वास-प्रस्तुतिः

पञ्चैते वैकृताः सर्गाः प्राकृतास्तु प्रियाः स्मृताः ॥०२८॥

प्राकृतावैकृताश् चैव जगतोमूलहेतवः ।
सृजतो ब्रह्मणः सृष्टिरुत्पन्ना ये मयेरिताः ॥०२९॥

ततो विकारस्तु परापवेशः शक्त्या प्रविश्याथ ससर्ज सर्वं ।
नारायणः सर्वगरैकरूपः ब्रह्मादिरूपैर् जगदेकनाथः ॥०३०॥

{इत्य् आग्नेये महापुराणे सृष्टि-प्रकरणं नाम द्वितियो ऽध्यायः}

  1. आदर्शाक्षरविलोपात् पाठो ऽयं शोधयितुमशक्यः ↩︎ ↩︎

  2. पाठो ऽयं न साधुः ↩︎ ↩︎