विश्वास-प्रस्तुतिः
{प्रथमो ऽध्यायः}
सूत उवाच
ब्रह्मा भूत्व जगत्सृष्टौ नरसिंहः प्रवर्तते ।
तथा ते कथयिष्यामि भरद्वाज निबोध मे ॥००१॥
मूलम्

नारायणाख्यो भगवान् ब्रह्मा लोकपितामहः ।
उत्पन्नः प्रोह्यते प्रियप्रियामरोपचारतः1 ॥००२॥

:न्
[[३६२]]
विश्वास-प्रस्तुतिः
निजेन तस्य मानेन आयुर्वर्षशतं स्मृतं ।
कालश् च विष्णुर्यस्तेन तस्यायुः परिगण्यते ॥००३॥

अन्येषाञ्चैव भूतानां चराणामचराश् च ये ।
भूमिमृत्सागरादीनामशेषाणाञ्च सत्तम ॥००४॥
मूलम्
अन्येषाञ्चैव भूतानां चराणामचराश् च ये ।
भूमिमृत्सागरादीनामशेषाणाञ्च सत्तम ॥००४॥
विश्वास-प्रस्तुतिः
अष्टादश निमेषाश् च काष्ठैका परिकीर्तिता ।
काष्ठास्त्रिंशत् कलास्त्रिंशत् कला ज्ञेया मुहूर्तकं ॥००५॥

तावत् सङ्ख्यैर् अहोरात्रं मुहूर्तैर् मानुषं स्मृतं ।
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥००६॥

तैः षडभिरयनं मासैर् द्वे ऽयने दक्षिणोत्तरे ।
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनं ॥००७॥

अयनद्वयञ्च वर्षञ्च मर्त्यानां परिकीर्तितं ।
नृणां मासः पितॄणान्तु अहोरात्रमुदाहृतं ॥००८॥

वस्वादीनामहोरात्रं मानुषो वत्सरः स्मृतः ।
दिव्यैर् वर्षसहस्रैस्तु कृतत्रेतादिसञ्ज्ञितं ॥००९॥

चतुर्दर्शद्वादशभिस्तद्विभागं निबोध मे ।
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमं ॥०१०॥

दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः ।
तत्प्रमाणैः शतैः सन्ध्या पूर्वा तत्राभिधीयते ॥०११॥

सन्ध्यांशकश् च तत्तुल्यो युगस्यानन्तरो हि सः ।
सन्ध्यासन्ध्यांशयोर्मध्ये यः कालो वर्तते द्विज ॥०१२॥

युगाख्यं स तु विज्ञेयः कृतत्रे तादिसञ्ज्ञितं ।
कृतं त्रेता द्वापरञ्च कलिश्चेति चतुयुगं ॥०१३॥

[[३६३]]
विश्वास-प्रस्तुतिः
ब्रह्मणो दिवसे ब्रह्मन्मनवश् च चतुर्दश ॥०१४॥

भवन्ति प्रतिमानञ्च तेषां कालकृतं शुभं ।
सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृपाः ॥०१५॥

एककाले हि सृज्यन्ते सङ्क्रियन्ते च पूर्ववत् ।
चतुर्युगानां सङ्ख्याता साह्येकान्तेकसप्तती ॥०१६॥

मन्वन्तरं मनोः कालः शक्रादीनामपि द्विज ।
अष्ठौ शतसहस्राणि दिव्यया सङ्ख्यया सूत1 ॥०१७॥

एकपञ्चाशत्तथान्यानि सप्त चान्यानि वै मुने ।
विंशतिश् च सहस्राणि कालोयं साधिकः स्मृतः ॥०१८॥

ब्राह्ममेवमहर्ज्ञेयमेतदेवानुकीर्तितं ।
एतस्मिन् वै स मनसा सृष्ट्वा देवांस् तथा पितॄन् ॥०१९॥

गन्धर्वान् दानवान् यक्षान् राक्षसान् गुह्यकांस् तथा ।
ऋषीन् विद्याधरांश् चैव मनुष्यांश् च पशूंस् तथा ॥०२०॥

पक्षिणः स्थावरांश् चैव पिपीलिकभुजङ्गमान् ।
चातुर्वर्ण्यं तथा सृष्टं नियुज्याधरकर्मणि ॥०२१॥

पुनर्दिनान्ते त्रैलोक्यमपसंहृत्य स प्रभुः ।
शेते सो ऽनन्तशयने तावतीं रात्रिमव्ययः ॥०२२॥

तस्यान्ते ऽभून्महाकल्पः पाद्म इत्य् अभिविश्रुतः ।
तस्मिन्मत्स्यावतारो ऽभून्मन्थनार्थं महोदधेः ॥०२३॥

तद्वद्वराहकल्पश् च तृतीयः परिकल्पितः ।
तत्र विष्णुः स्वयं वाराहं वपुरास्थितः ॥०२४॥

[[३६४]]
विश्वास-प्रस्तुतिः
सृष्ट्वा जगद्व्योम धरान्तु तोयं प्रजास्तु सृष्ट्वा
सकलास्तथेशः ।
नैमित्तिकाख्ये प्रलये समस्तं हृत्वावशेते हरिरादिदेवः ॥०२५॥

{इत्य् आग्नेये महापुराणे सृष्टि-प्रकरणं नाम प्रथमो ऽध्यायः}