अथाग्निपुराण परिशिष्टम्
अग्निपुराणस्य ककारादि-चिह्नित-दशसङ्ख्यकादर्श-पुस्तकानां
मध्ये नवसु आदर्शपुस्तकेषु यमगीताध्यायात् परं
पुराण-माहात्म्याध्यायेन पुस्तकं सम्पूर्णं । ग-चिह्नित-पुस्तके
तु यम-गीताध्यायात् परं अतिरिक्तत्रयस्त्रिंशत्
सङ्ख्यकसृष्टिप्रकरणाद्यध्याया वर्तन्ते । उक्ताध्यायानां
नवसु आदर्शपुस्तकेषु अविद्यमानत्वात् प्रमाण्यं सन्दिग्धं ।
प्रामाण्येपि स्थानविशेषे
विलुप्ताक्षरपरिशुद्धग-चिह्नितैकमात्रादर्शपुस्तकमवलम्ब्य
उक्तातिरिक्ताध्यायात्रमुद्रापणे समर्थो नाभूवं ।
परन्त्वेतद्विज्ञापनाय गचिह्नितादर्शपुस्तकमात्रस्थितातिरिक्त
कतिपयाध्याया यथाशक्ति परिशोध्य परिशिष्टरूपेण
मुद्रापिताः । गचिह्नितादर्शपुस्तकस्य
विलुप्ताक्षरत्वादपरिशुद्धत्वाच्च अस्य परिशिष्टस्य वहुषु
स्थानेषु असाधुपाठा वर्तन्ते इति