अग्निरुवाच
अद्वैतब्रह्मविज्ञानं वक्ष्ये यद्भवतोऽगदत् ।
शालग्रामे तपश्चक्रे वासुदेवार्चनादिकृत् ॥ ३८०.१ ॥
मृगसङ्गान्मृगो बूत्वा ह्यन्तकाले स्मरन् मृगं ।
जातिस्मरो मृगस्त्यक्त्वा देहं योगात्स्वतोऽभवत् ॥ ३८०.२ ॥
अद्वैतब्रह्मभूतश्च जडवल्लोकमाचरत् ।
क्षत्ताऽसौ वीरराजस्य विष्टियोगममन्यत ॥ ३८०.३ ॥
उवाह शिविकामस्य क्षत्तुर्वचनचोदितः ।
गृहीतो विष्टिना ज्ञानी उवाहात्मक्षयाय तं ॥ ३८०.४ ॥
ययौ जडगतिः पश्चाद् ये त्वन्ये त्वरितं ययुः ।
शीघ्रान् शीघ्रगतीन् दृष्ट्वा अशीघ्रं तं नृपोऽव्रवीत् ॥ ३८०.५ ॥
राजोवाच
किं श्रान्तोऽस्यल्पमध्वानं त्वयोढा शिविका मम ।
किमायाससहो न त्वं पीवानसि निरीक्ष्यसे ॥ ३८०.६ ॥
ब्राह्मण उवाच
नाहं पीवान्न वैषोढा शिविका भवतो मया ।
न श्रान्तोऽस्मि न वायासो वोढव्योऽसि महीपते ॥ ३८०.७ ॥
भूमौ पादयुगन्तस्थौ जङ्घे पादद्वये स्थिते ।
उरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥ ३८०.८ ॥
वक्षःस्थलं तथा वाहू स्कन्धौ चोदरसंस्थितौ ।
स्कन्धस्थितेयं शिविका मम भावोऽत्र किं कृतः ॥ ३८०.९ ॥
शिविकायां स्थितञ्चेदं देहं त्वदुपलक्षितं ।
तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ॥ ३८०.१० ॥
अहं त्वञ्च तथान्यं च भूतैरुह्याम पार्थिव ।
गुणप्रवाहपतितो गुणवर्गो हि यात्ययं ॥ ३८०.११ ॥
कर्म्मवश्या गुणाश्चैते सत्वाद्याः पृथिवीपते ।
अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ॥ ३८०.१२ ॥
आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः ।
प्रवृद्ध्यपचयौ नाम्य एकस्याखिलजन्तुषु ॥ ३८०.१३ ॥
यदा नोपचयस्तस्य यदा नापचयो नृप।
तदा पीवानसीति त्वं कया युक्त्या त्वयेरितं ॥ ३८०.१४ ॥
भूजङ्घापादकट्यूरुजठरादिषु संस्थिता ।
शिविकेयं तथा स्कन्धे तदा भावः समस्त्वया ॥ ३८०.१५ ॥
तदन्यजन्तुभिर्भूप शिविसोत्थानकर्मणा ।
शैलद्रव्यगृहोत्थोपि पृथिवीसम्भवोपि वा ॥ ३८०.१६ ॥
यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप ।
सोढव्यः स महाभारः कतरो नृपते मया ॥ ३८०.१७ ॥
यद्द्रव्या शिविका चेयं तद्द्रव्यो भूतसङ्ग्रहः ।
भवतो मेऽखिलस्यास्य समत्वेनोपबृंहितः ॥ ३८०.१८ ॥
तच्छ्रु त्वोवाच राजा तं गृहीत्वाङ्घ्री क्षमाप्य च ।
प्रसादं कुरु त्वक्त्वेमां शिविकां ब्रूहि श्रृण्वते ।
यो भवान् यन्निमित्तं वा यदागमनकारणम् ॥ ३८०.१९ ॥
श्रूयतां कोहमित्येतद्वक्तु नैव च शक्यते ।
उपभोगनिमित्तञ्च सर्वत्रागमनक्रिया ॥ ३८०.२० ॥
सुखदुःखोपभोगौ तु तौ देशाद्युपपादकौ ।
धर्माघर्मोद्भवौ भोक्तुं जन्तुर्देशादिमृच्छति ॥ ३८०.२१ ॥
राजोवाच
योऽस्ति सोहमिति ब्रह्मन् कथं वक्तुं न शक्यते ।
आत्मन्येष न दोषाय शब्कदोहमिति यो द्विज ॥ ३८०.२२ ॥
शब्दोहमित्रि दोषाय नात्मन्येष तथैव तत् ।
अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥ ३८०.२३ ॥
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।
तदा हि को भवान् कोहमित्येतद्विफलं वचः ॥ ३८०.२४ ॥
त्वं राजा शिविका चेयं वयं वाहाः पुरःसराः ।
अयञ्च भवतो लोको न सदेनन्नृपोच्यते ॥ ३८०.२५ ॥
वृक्षाद्दारु ततश्चेयं शिविका त्वदधिष्ठता ।
का वृक्षसञ्ज्ञा जातास्य दारुसञ्ज्ञाथ वा नृप ॥ ३८०.२६ ॥
वृक्षारूढो महाराजो नायं वदति चेतनः ।
न च दारुणि सर्वस्त्वां ब्रवीति शिविकागतं ॥ ३८०.२७ ॥
शिविकादारुसङ्घातो रचनास्थितिसंस्थितः ।
अन्विष्यतां नृपश्रेष्ट तद्भेदे शिविका त्वया ॥ ३८०.२८ ॥
पुमान् स्त्री गौरयं वाजी कुञ्जरो विहगस्तरुः ।
देहेषु लोकसञ्ज्ञेयं विज्ञेया कर्महेतुषु ॥ ३८०.२९ ॥
जिह्वा व्रवीत्यहमिति दन्तौष्ठौ तालुकं नृप ।
एते नाहं यतः सर्व्वेवाङ्निपादनहेतवः ॥ ३८०.३० ॥
किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयं ।
तथापि वाङ्नाहमेतदुक्तं मिथ्या न युज्यते ॥ ३८०.३१ ॥
पिण्डः पृथग् यतः पुंसः शिरःपाय्वादिलक्षणः ।
ततोऽहमिति कुत्रैतां सञ्ज्ञां राजन् करोम्यहं ॥ ३८०.३२ ॥
यदन्योऽस्ति परः कोपि मत्तः पार्थिवसत्तम ।
तदेषोहमयं चान्यो वक्तुमेवमपीष्यते ॥ ३८०.३३ ॥
परमार्थभेदो न नगो न पशुर्नच पादपः ।
शरीराश्च विभेदाश्च य एते कर्मयोनयः ॥ ३८०.३४ ॥
यस्तु राजेत् यल्लोके यच्च राजभटात्मकम् ।
तच्चान्यच्च नृपेत्थन्तु न सत् सम्यगनामयं ॥ ३८०.३५ ॥
त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपोरिपुः ।
पत्न्याः पतिः पिता सूनोः कस्त्वां भूप वदाम्यहं ॥ ३८०.३६ ॥
त्वं किमेतच्छिरः किन्नु शिरस्तव तथोदरं ।
किमु पादादिकं त्वं वै तवैतत् किं महीपते ॥ ३८०.३७ ॥
समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ।
कोहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव ॥
तच्छ्रत्वोवाच राजा तमवधूतं द्विजं हरिं ॥ ३८०.३८ ॥
श्रेयोऽर्थमुद्यतः प्रष्ट्रं कपिलर्षिमहं द्विज ।
तस्याशः कपिलर्षेस्त्वं मत् कृते ज्ञानदो भुवि ॥
ज्ञानवीच्युदधेर्यस्माद्यच्छ्रेयस्तच्च मे वद ॥ ३८०.३९ ॥
ब्राह्मण उवाच
भूयः पृच्छसि किं श्रेयः परमार्थन्न पृच्छसि ।
श्रेयांस्यपरमार्थानि अशेषाण्येव भूपते ॥ ३८०.४० ॥
देवताराधनं कृत्वा धनसम्पत्तिमिच्छति ।
पुत्रानिच्छति राज्यञ्च श्रेयस्तस्यैव किं नृपः ॥ ३८०.४१ ॥
विवेकिनस्तु संयोगः श्रेयो यः परमात्मनः ।
यज्ञादिका क्रिया न स्यात् नास्ति द्रव्योपपत्तिता ॥ ३८०.४२ ॥
परमार्थात्मनोर्योगः परमार्थ इतीष्यते ।
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ॥ ३८०.४३ ॥
जन्मवृद्ध्यादिरहित आत्मा सर्वगतोऽव्ययः ।
परं ज्ञानमयोऽसङ्गी गुणजात्यादिभिर्विभुः ॥ ३८०.४४ ॥
निदाघऋतुसंवादं वदामि द्विज तं श्रृणु२ ।
ऋतुर्ब्रह्मसुतो ज्ञानी तच्छिष्योऽभूत् पुलत्स्यजः ॥ ३८०.४५ ॥
निदाघः प्राप्तविद्योऽस्मान्नगरे वै पुरे स्थितः ।
देविकायास्तटे तञ्च तर्कयामास वै ऋतुः ॥ ३८०.४६ ॥
दिव्ये वर्षसहस्रेऽगान्निदाघमवलोकितुं ।
निदाघो वैश्वदेवान्ते भुक्त्वान्नं शिष्यमब्रवीत् ॥
भुक्तन्ते तृप्तिरुत्पन्ना तुष्टिदा साऽक्षया यतः ॥ ३८०.४७ ॥
ऋतुरुवाच ।
क्षुदस्ति यस्य भुक्तेऽन्ने तुष्टिर्ब्राह्मण जायते ।
न मे क्षुदभवत्तृप्तिं कस्मात्त्वं परिपृच्छसि ॥ ३८०.४८ ॥
क्षुत्तृष्णे देहधर्म्माख्ये न ममैते यतो द्विज ।
पृष्टोहं यत्त्वाया ब्रूयां३ तृप्तिरस्त्येव मे सदा ॥ ३८०.४९ ॥
पुमान् सर्वगतो व्यापी आकाशवदयं यतः ।
अतोऽहं प्रत्यगात्मास्मीत्येतदर्थे भवेत् कथं४ ॥ ३८०.५० ॥
सोऽहं गान्ता५ न चागन्ता नैकदेशनिकेतनः ।
त्वं चान्यो न भवेन्नापि नान्यस्त्वक्तोऽस्मि वा प्यहं ॥ ३८०.५१ ॥
मृण्मयं हि गृहं यद्वन्मृदालिप्तं स्थिरीभबेत् ।
पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ॥ ३८०.५२ ॥
ऋतुरस्मि तवाचार्य्यः प्रज्ञादानाय ते द्विज ।
इहागतोऽहं यास्यामि परमार्थस्तवोदितः ॥ ३८०.५३ ॥
एकमेवमिदं विद्धि न भेदः सकलं जगत् ।
वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ॥ ३८०.५४ ॥
ऋतुर्वर्षसहस्रान्ते पुनस्तन्नगरं ययौ ।
निदाघं नगरप्रान्ते एकान्ते स्थितमव्रवीत् ॥
एकान्ते स्थीयते कस्मान्निदाघं ऋतुरव्रवीत् ॥ ३८०.५५ ॥
निदाघ उवाच
भो विप्र जनसंवादो महानेष नरेश्वर ।
प्रविवीक्ष्य पुरं रम्यं तेनात्र स्थीयते मया ॥ ३८०.५६ ॥
ऋतुरुवाच
नराधिपोऽत्र कतमः कतमश्चेतरो जनः ।
कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो द्विजोत्तम ॥ ३८०.५७ ॥
योऽयं गजेन्द्रमुन्मत्तमद्रिश्रृङ्गसमुत्थितं ।
अधिरूढो नरेन्द्रोऽयं परिवारस्तथेतरः६ ॥ ३८०.५८ ॥
गजो योऽयमधो ब्रह्मन्नुपर्य्येष स भूपतिः ।
ऋतुराह गजः कोऽत्र राजा चाह निदाघकः ॥ ३८०.५९ ॥
ऋतुर्निदाघ आरुढो दृष्टान्तं पश्य वाहनं ।
उपर्य्यहं यथा राज त्वमधः कुञ्जरो यथा ॥ ३८०.६० ॥
ऋतुः७ प्राह निदाघन्तं कतमस्त्वामहं वदे ।
उक्तो निदाघस्तन्नत्वा प्राह मे त्वं गुरुर्घ्रुवम् ॥ ३८०.६१ ॥
नात्यस्माद्द्वैतसंस्कारसंस्कृतं मानसं तथा ।
ऋतुः प्राह निदाघन्तं ब्रह्मज्ञानाय चागतः ।
परमार्थं सारभूतमद्वैतं दर्शितं मया ॥ ३८०.६२ ॥
ब्राह्मण उवाच
निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ।
सर्वभूतान्यभेदेन ददृशे स तदात्मनि ॥ ३८०.६३ ॥
अवाप मुक्ति ज्ञानात्स तथा त्वं मुक्तिमाप्स्यसि ।
एकः समस्तं त्वञ्चाहं विष्णुः सर्वगतो यतः ॥ ३८०.६४ ॥
पीतनीलादिभेदेन यथैकं दृश्यते तमः ।
भ्रान्तिदृष्टिभिरात्मापि तथैकः स पृथक् पृथक् ॥ ३८०.६५ ॥
अग्निरुवाच
मुक्तिं ह्यवाप भवतो ज्ञानसारेण भूपतिः८ ।
संसाराज्ञानवृक्षारिज्ञानं ब्रह्मेति चिन्तय ॥ ३८०.६६ ॥
इत्यादिमहापुराणे आग्नेये अद्वैतब्रह्मविज्ञानं नामाशीत्यधिकत्रिशततमोऽध्यायः ॥