अग्निरुवाच
ब्रह्मज्ञानं प्रवक्ष्यामि संसाराज्ञानमुक्तये ।
अयमात्मा परं ब्रह्म अहमस्मीति मुच्यते ॥ ३७७.१ ॥
देह आत्मा न भवति दृश्यत्वाच्च घटादिवत् ।
प्रसुप्ते मरणे देहादात्माऽन्यो ज्ञायते ध्रुवं ॥ ३७७.२ ॥
देहः स चेद्व्यवहरेदविकार्य्यादिसन्निभः ।
चक्षुरादीनीन्द्रियाणि नात्मा वै करणं त्वतः ॥ ३७७.३ ॥
मनो धीरपि आत्मा न दीपवत् करणं त्वतः ।
प्राणोऽप्यात्मा न भवति सुषुप्ते चित्प्रभावतः ॥ ३७७.४ ॥
जाग्रत्स्वप्ने च चैतन्यं सङ्कीर्णत्वान्न बुध्यते ।
विज्ञानरहितः प्राणः सुषुप्ते ज्ञायते यतः ॥ ३७७.५ ॥
अतो नात्मेन्द्रियं तस्मादिन्द्रियादिकमात्मनः ।
अहङ्काराऽपि नैवात्मा देहवद्व्यभिचारतः ॥ ३७७.६ ॥
उक्तेभ्यो व्यतिरिक्तोऽयमात्मा सर्वहृदि स्थितः ।
सर्वद्रष्टा च भोक्ता च नक्तमुज्ज्वलदीपवत् ॥ ३७७.७ ॥
समाध्यारम्भकाले च एवं सञ्चिन्तयेन्मुनिः ।
यतो ब्रह्मण आकाशं खाद्वायुर्वायुतोऽनलः ॥ ३७७.८ ॥
अग्नेरापो जलात्पृथ्वी ततः सूक्ष्मं शरीरकं ।
अपञ्चीकृतभूतेभ्य आसन् पञ्चीकृतान्यतः ॥ ३७७.९ ॥
स्थूलं शरीरं ध्यात्वास्माल्ल्यं ब्रह्मणि चिन्तयेत् ।
पञ्चोकृतानि भूतानि तत्कार्य्यञ्च विराट्स्मृतम् ॥ ३७७.१० ॥
एतत् स्थूलं शरीरं हि आत्मनो ज्ञानकल्पितं ।
इन्द्रियैरथ विज्ञानं धीरा जागरितं विदुः ॥ ३७७.११ ॥
विश्वस्तदबिमानी स्यात् त्रयमेनदकारकं ।
अपञ्चीकृतभूतानि तत्कार्थं लिङ्गमुच्यते ॥ ३७७.१२ ॥
संयुक्तं सप्तदशभिर्हिरण्यगर्भसञ्ज्ञितं ।
शरीरमात्मनः सूक्ष्मं लिङ्गमित्यभिधीयते ॥ ३७७.१३ ॥
जाग्रत्संस्कारजः स्वप्नः प्रत्ययो विषयात्मकः ।
आत्मा तदुपमानी स्यात्तैजसो ह्यप्रपञ्चतः ॥ ३७७.१४ ॥
स्थूलसूक्षअमशरीराख्यद्वयस्यैकं हि कारणं ।
आत्मा ज्ञानञ्च साभासं तदध्याहृतमुच्यते ॥ ३७७.१५ ॥
न सन्नासन्न सदसदेतत्सावयवं न तत् ।
निर्गतावयवं नेति नाभिन्नं भिन्नमेव च ॥ ३७७.१६ ॥
भिन्नाभिन्नं ह्यनिर्वाच्यं बन्धसंसारकारकं ।
एकं स ब्रह्म विज्ञानात् प्राप्तं नैव च कर्म्मभिः ॥ ३७७.१७ ॥
सर्वात्मना हीन्द्रियाणां संहारः कारणात्मनां ।
बुद्धेः स्थानं सुषुप्तं स्यात्तद्द्वयस्याभिमानवान् ॥ ३७७.१८ ॥
प्राज्ञ आत्मा त्रयञ्चैतत् ङ्कारः प्रणवः स्मृतः ।
अकारश्च उकारोऽसौ मकारो ह्ययमेव च ॥ ३७७.१९ ॥
अहं साक्षी च चिन्मात्रो जाग्रत्स्वप्नादिकस्य च ।
नाज्ञानञ्चैव तत्कार्यं संसारादिकबन्धनं ॥ ३७७.२० ॥
नित्यशुद्धबन्धमुक्तसत्यमानन्दमद्वयं ।
ब्रह्माहमस्म्यहं ब्रह्म परं ज्योतिर्विमुक्त ओं ॥ ३७७.२१ ॥
अहं ब्रह्म परं ज्ञानं समाधिर्बन्धघातकः ।
चिरमानन्दकं ब्रह्मा सत्यं ज्ञानमनन्तकं ॥ ३७७.२२ ॥
अयमात्मा परम्ब्रह्म तद् ब्रह्म त्वमसीति च ।
गुरुणा बोधितो जीवो ह्यहं ब्रह्मस्मि वाह्यतः ॥ ३७७.२३ ॥
सोऽसावादित्यपुरुषः सोऽसावहमखण्ड ओं ।
मुच्यतेऽसारसंसाराद् ब्रह्मज्ञो ब्रह्म तद्भवेत् ॥ ३७७.२४ ॥
इत्यादिमहापुराणे आग्नेये ब्ह्मज्ञानं नाम सप्तसप्तत्यधिकत्रिशततमोऽध्यायः ॥