अग्निरुवाच
वारणा मनसो ध्येये संस्थितिर्ध्यानवद् द्विधा ।
मूर्त्तामूर्तहरिध्यानमनोधारणतो हरिः ॥ ३७५.१ ॥
यद्वाह्यावस्थितं लक्षअयं तस्मान्न चलते मनः ।
तावत् कालं प्रदेशेषु धारणा मनसि स्थितिः ॥ ३७५.२ ॥
कालावधि परिच्छिन्नं देहे संस्थापितं मनः ।
न प्रच्यवति यल्लक्ष्याद्धारणा साऽभिधीयते ॥ ३७५.३ ॥
धारणा द्वादशायामा ध्यानं द्वादशधारणाः ।
ध्यानं द्वादशकं यावत्समाधिरभिधीयते ॥ ३७५.४ ॥
धारणाभ्यासयुक्तात्मा यदि प्राणैर्विमुच्यते ।
कुलैकविंशमुत्तार्य्य स्वर्य्याति परमं पदं ॥ ३७५.५ ॥
यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः ।
तत्तदङ्गं धिया व्याप्य दारयेत्तत्त्वधारणं ॥ ३७५.६ ॥
आग्नेयी वारुणी चैव ऐशानी चामृतात्मिका ।
साग्निः शिखा फडन्ता च विष्णोः कार्य्या द्विजोत्तम ॥ ३७५.७ ॥
नाडीभिर्विकटं दिव्यं शूलाग्रं वेधयेच्छुभम् ।
पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डलमावृतं ॥ ३७५.८ ॥
तिर्य्यक्चाधोद्र्ध्वभागेभ्यः प्रयान्त्योऽतीव तेजसा ।
चिन्तयेत् साध्केन्द्रस्तं यावत्सर्वं महामुने ॥ ३७५.९ ॥
भस्मीभूतं शरीरं स्वन्ततश्चैवोपसंहरेत् ।
शीतश्लेष्मादयः पापं विनश्यन्ति द्विजातयः ॥ ३७५.१० ॥
शिरो धीरञ्च कारञ्च कण्ठं चाधोमुखे स्मरेत् ।
ध्यायेदच्छिन्नचित्तात्मा भूयो भूतेन चात्मना ॥ ३७५.११ ॥
स्फुरच्छीकरसंस्पर्शप्रभूते हिमगामिभिः ।
धाराभिरखिलं विश्वमापूर्य्य भुवि चिन्तयेत् ॥ ३७५.१२ ॥
ब्रह्मरन्ध्राच्च सङ्क्षोभाद्यावदाधारमण्डलम् ।
सुषुम्नान्तर्गतो बूत्वा सम्पूर्णेन्दुकृतालयं ॥ ३७५.१३ ॥
सम्प्लाव्य हिमसंस्पर्श तोयेनामृतमूर्त्तिना ।
क्षुत् पिपासाक्रमप्रायसन्तापपरिपीडितः ॥ ३७५.१४ ॥
धारयेद्वारुणीं मन्त्री तुष्ट्यर्थं चाप्यतन्त्रितः ।
वारुणी धारणा प्रोक्ता ऐशानीधारणां श्रृषु ॥ ३७५.१५ ॥
व्योग्नि ब्रह्ममये पद्मे प्राणापणे क्षयङ्गते ।
प्रसादं चिन्तयेद् विष्णोर्यावच्चिन्ता क्षयं गता ॥ ३७५.१६ ॥
महाभावञ्चपेत् सर्व्वं ततो व्यापक ईश्वरः ।
अर्द्धेन्दुं परमं शान्तं निराभासन्निरञ्जनं ॥ ३७५.१७ ॥
असत्यं सत्यमाभाति तावत्सर्वं चराचरं ।
यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः ॥ ३७५.१८ ॥
दृष्टे तस्मिन् परे तत्त्वे आब्रह्म सचराचरं ।
प्रमातृमानमेयञ्च ध्यानहृत्पद्मकल्पनं ॥ ३७५.१९ ॥
मातृमोदकवत्सर्वं जपहोमार्चनादिकं ।
विष्णुमन्त्रेण वा कुर्य्यादमृतां धारणां वदे ॥ ३७५.२० ॥
सम्पूर्णेन्दुनिभं ध्यायेत् कमलं तन्त्रिमुष्टिगं ।
शिरःस्थं चिन्तयेत् यत्नाच्छशाङ्गायुतवर्चसं ॥ ३७५.२१ ॥
सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितं ।
तथा हृत्कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत् ॥
साधको विगतक्लेशो जायते दारणादिभिः ॥ ३७५.२२ ॥
इत्यादिमहापुराणे आग्नेये धारणा नाम पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः ॥