अग्निरुवाच
उक्तानि यममार्गाणि वक्ष्येऽथ मरणे नृणां ।
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ॥ ३७१.१ ॥
शरीरमुपरुध्याऽथ कृत्स्नान्दोषान्रुणद्धि वै ।
छिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि ॥ ३७१.२ ॥
शैत्यात् प्रकुपितो वायुश्छिद्रमन्विष्यते ततः ।
द्वे नेत्रे द्वौ तथा कर्णौ द्वौ तु नासापुटौ तथा ॥ ३७१.३ ॥
ऊद्ध्वन्तु सप्त च्छिद्राणि अष्टमं वदनं तथा ।
एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणं ॥ ३७१.४ ॥
अधः पायुरुपस्थञ्च अनेनाशुभकारिणां ।
मूर्द्धानं योगिनो भित्त्वा जीवो यात्यथ चेच्छया ॥ ३७१.५ ॥
अन्तकाले तु सम्प्राप्ते प्राणेऽपानमुपस्थिते ।
तमसा संवृते ज्ञाने संवृतेषु च मर्म्मसु ॥ ३७१.६ ॥
स जीवो नाभ्यधिष्ठानश्चाल्यते मातरिश्वना ।
बाध्यमाणश्चानयते अष्टाङ्गाः प्राणवृत्तिकाः ॥ ३७१.७ ॥
च्यवन्तं जायमानं वा प्रविशन्तञ्च योनिषु ।
प्रपश्यन्ति च तं सिद्धा देवा दिव्येन चक्षुषा ॥ ३७१.८ ॥
गृह्णाति तत्क्षणाद् योगे शरीरञ्चातिवाहिकम् ।
आकाशवायुतेजांसि विग्रहादूद्र्ध्वगामिनः ॥ ३७१.९ ॥
जलं मही च पञ्चत्वमापन्नः पुरुषः स्मृतः ।
आतिवाहिकदेहन्तु यमदूता नयन्ति तं ॥ ३७१.१० ॥
याम्यं मार्गं महाघोरं षडशीतिसहस्रकम् ।
अन्नोदकं नीयमानो बान्धवैर्दत्तमश्नुते ॥ ३७१.११ ॥
यमं दृष्ट्वा यमोक्तेन चित्रगुप्तेन चेरितान् ।
प्राप्नोति नरकान्रौद्रान्धर्मी शुभपथैर्दिवम् ॥ ३७१.१२ ॥
भुज्यन्ते पापिभिर्वक्ष्ये नरकांस्ताश्च यातनाः ।
अष्टाविंशतिरेवाधः क्षितेर्नरककोटयः ॥ ३७१.१३ ॥
सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः ।
घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता ॥ ३७१.१४ ॥
अतिघोरा महाघोरा घोररूपा च पञ्चमी ।
षष्ठी तरलताराख्या सप्तमी च भयानका ॥ ३७१.१५ ॥
भयोत्कटा कालरात्री महाचण्डा च चण्डया ।
कोलाहला प्रचण्डाख्या पद्मा नरकनायिका ॥ ३७१.१६ ॥
पद्मावती भीषणा च भीमा चैव करालिका ।
विकराला महावज्रा त्रिकोणा पञ्चकोणिका ॥ ३७१.१७ ॥
सुदीर्खघा वर्तुला सप्तभूमा चैव सुभूमिका ।
दीप्तमायाऽष्टाविंशतयः कोटयः पापिदुःशदाः ॥ ३७१.१८ ॥
अष्टाविंशतिकोटीनां पञ्च पञ्च च नायकाः ।
रौरवाद्याः शतञ्चैकं चत्वारिंशच्चतुष्टयं ॥ ३७१.१९ ॥
तामिश्रमन्घतामिश्रं महारौरवरौरवौ ।
असिपत्रं वनञ्चैव लोहभारं तथैव च ॥ ३७१.२० ॥
नरकं कालसूत्रञ्च महानरकमेव च ।
सञ्जीवनं महावीचि तपनं सम्प्रतापनं ॥ ३७१.२१ ॥
सङ्घातञ्च सकाकोलं कुद्मलं पूतिमृत्तिकं ।
लोहशङ्कुमृजीषञ्च प्रधानं शाल्मलीं नदीम् ॥ ३७१.२२ ॥
नरकान् विद्धि कोटीशनागान्वै घोरदर्शनान् ।
पात्यन्ते पापकर्म्माण एकैकस्मिन्बहुष्वपि ॥ ३७१.२३ ॥
मार्जारोलूकगोमायुगृध्रादिवदनाश्च ते ।
तैलद्रोण्यां नरं क्षिप्त्वा ज्वालयन्ति हुताशनं ॥ ३७१.२४ ॥
अम्बरीषेषु चैवान्यांस्ताम्रपात्रेषु चापरान् ।
अयःपात्रेषु चैवान्यान् बकहुवह्निकणेषु च ॥ ३७१.२५ ॥
शूलाग्रारोपिताश्चान्ये छिद्यन्ते नरकेऽपरे ।
ताड्यन्ते च कशाभिस्तु भोज्यन्ते चाप्ययोगुडान् ॥ ३७१.२६ ॥
यमदूतैर्नराः पांशून्विष्ठारक्तकफादिकान् ।
तप्तं मद्यं पाययन्ति पाटयन्ति पाटयन्ति पुनर्नरान् ॥ ३७१.२७ ॥
यन्त्रेषु पीडयन्ति स्म भक्ष्यन्ते वायसादिभिः ।
तैलेनोष्णेन सिच्यन्ते छिद्यन्ते नैकधा शिरः ॥ ३७१.२८ ॥
हा तातेति क्रन्दमानाः स्वकन्नन्दन्ति कर्म्म ते ।
महापातकजान्घोरान्नरकान्प्राप्य गर्हितान् ॥ ३७१.२९ ॥
कर्म्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ।
मृगश्वशूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ॥ ३७१.३० ॥
खरपुक्कशम्लेच्छानां मद्यपः स्वर्णहार्य्यम्पि ।
कृमिकीटपतङ्गत्वं गुरुगस्तृणगुल्मतां ॥ ३७१.३१ ॥
ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः ।
स्वर्णहारी तु कुनखी दुश्चर्म्मा गुरुतल्पगः ॥ ३७१.३२ ॥
यो येन संस्पृशत्येषां स तल्लिह्गोऽभिजायते ।
अन्नहर्ता मायावी स्याम्मूको वागपहारकः ॥ ३७१.३३ ॥
धान्यं हृत्वाऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः ।
तैलहृत्तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः ॥ ३७१.३४ ॥
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ।
अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ॥ ३७१.३५ ॥
रत्नहारी हीनजातिर्गन्धान् छुछुन्दरी शुभान् ।
पत्रं शाकं शिखी हृत्वा मुखरो धान्यहारकः ॥ ३७१.३६ ॥
अजः पशुम्पयः काको यानमुष्ट्रः फलं कपिः ।
मधु दंशः फलं गृध्रो गृहकाक उपस्करं ॥ ३७१.३७ ॥
श्वित्री वस्त्रं सारसञ्च झिल्ली लवणहारकः ।
उक्त आध्यात्मिकस्तापः शत्राद्यैराधिभौतिकः ॥ ३७१.३८ ॥
ग्रहाग्निदेवपीडाद्यैराधिदैविक ईरितः ।
त्रिधा तापं हि संसारं ज्ञानयोगाद्विनाशयेत् ॥
कृच्छ्रैर्व्रतैश्च दानाद्यैर्विष्णुपूजादिभिर्नरः ॥ ३७१.३९ ॥
इत्यादिमहापुराणे आग्नेये नरकनिरूपणं नामैकसप्तत्यधिकत्रिशततमोऽध्यायः ॥