३६८

अग्निरुवाच
चतुर्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः ।
सदा विनाशो जातानां ब्राह्मो नैमित्तिको लयः ॥ ३६८.१ ॥

चतुर्यगसहस्त्रान्ते प्राकृतः प्राकृतो लयः
लय आत्यन्तिको ज्ञानादात्मनः परमात्मनि ॥ ३६८.२ ॥

नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते ।
चतुर्युगसहस्नान्ते क्षीणप्राये महीतले ॥ ३६८.३ ॥

अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ।
ततः सत्त्वक्षयः स्याच्च ततो विष्णुर्जगत्पतिः ॥ ३६८.४ ॥

स्थितो जलानि पिवति भानोः सप्तसु रश्मिषु ।
भूपार्तालसमुद्रादितोयं नयति सङ्क्षयं ॥ ३६८.५ ॥

ततस्तस्यानुभावेन तोयाहारोपबृंहिताः ।
त एव रश्मयः सप्त जायन्ते सप्त भास्कराः ॥ ३६८.६ ॥

दहन्त्यऽशेषं त्रैलोक्यं सपातालतलं द्विज।
सूर्म्मपृष्ठसमा भूः स्यात्ततः कालाग्निरुद्रकः ॥ ३६८.७ ॥

शेषाहिश्वाससम्बातात् पातालानि दहत्यधः ।
पातालेभ्यो भुवं विष्णुर्भुवः स्वर्गं दहत्यतः ॥ ३६८.८ ॥

अम्बरी षमिवाभाति त्रैलोक्यामखिलं तथा ।
ततस्तापपरीतास्तु लोकद्वयनिवासिनः ॥ ३६८.९ ॥

गच्छन्ति ते महर्लोकं महर्लोकाज्जनं ततः ।
रुद्ररूपी जगद्दग्ध्वा मुखनिश्वासतो हरेः ॥ ३६८.१० ॥

उत्तिष्ठन्ति ततो मेघा नानारूपाः सविद्युतः ।
शतं वंर्षाणि वर्षन्तः शमयन्त्यग्निमुत्थितम् ॥ ३६८.११ ॥

सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि शतं मरुत् ।
मुखनिश्वासतो विष्णोर्नाशं नयति तान् घनान् ॥ ३६८.१२ ॥

वायुं पीत्वा हरिः शेषे शेते चैकार्णवे प्रमुः ।
ब्रह्मरूपधऱः सिद्धैर्जलगैर्मुनिभिस्तुतः ॥ ३६८.१३ ॥

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।
आत्मानं वासुदेवाख्यां चिन्तयन्मधुसूदनः ॥ ३६८.१४ ॥

कल्पं शेते प्रबुद्धोऽथ ब्रह्मरूपी सृजत्यऽसौ ।
द्विपरार्धन्ततो व्यक्तं प्रकृतौ लीयते द्विज ॥ ३६८.१५ ॥

स्थानात् स्थानं दशगुणमेकस्माद् गुण्यते स्थले ।
ततोऽष्टादशमे भागे परार्द्धमभिधीयते ॥ ३६८.१६ ॥

परार्धं द्विगुणं यत्तु प्राकृतः प्रलयः स्मृतः ।
अनावृष्ट्याऽग्निसम्पर्कात् कृते सञ्ज्वलने द्विज ॥ ३६८.१७ ॥

महदादेर्विकारस्य विशेषान्तस्य सङ्क्षये ।
कृष्णेच्छाकारिते तस्मिन् सम्प्राप्ते प्रतिसञ्चरे ॥ ३६८.१८ ॥

आपो ग्रसन्ति वै पूर्ब्वं भूमेर्गन्धादिकं गुणं ।
आत्मगन्धात्ततो भूमिः प्रलयत्वाय कल्पते ॥ ३६८.१९ ॥

रसात्मिकाश्च तिष्ठन्ति ह्यापस्तासां रसो गुणः ।
पीयते ज्योतिषा तासु नष्टास्वग्निश्च दीप्य्ते ॥ ३६८.२० ॥

ज्योतिषोऽपि गुणं रूपं वायुर्ग्रसति भास्करं ।
नष्टे ज्योतिषि वायुश्च बली दोधूयते महान् ॥ ३६८.२१ ॥

वायोरपि गुणं स्पर्शमाकाशं ग्रसते ततः ।
वायौ नष्टे तु चाकाशन्नीरवं तिष्ठति द्विज ॥ ३६८.२२ ॥

आकाशस्याथ वै शब्दं भूतादिर्ग्रसते च खं ।
अबिमानात्मकं खञ्च भूतादि ग्रसते महान् ॥ ३६८.२३ ॥

भूमिर्याति लयञ्चाप्सु आपो ज्योतिषि तद्‌व्रजेत् ।
वायौ वायुश्च खे खञ्च अहङ्कारे लयं स च ॥ ३६८.२४ ॥

महत्तत्त्वे महान्तञ्च प्रकृतिर्ग्रसते द्विज ।
व्यक्ताऽव्यक्ता च प्रकृतिर्व्यक्तस्याव्यक्तके लयः ॥ ३६८.२५ ॥

पुमानेकाक्षरः शुद्धः सोऽप्यंशः परमात्मनः ।
प्रकृतिः पुरुषशचैचौ लीयेते परमात्मनि ॥ ३६८.२६ ॥

न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः ।
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ॥ ३६८.२७ ॥

इत्यादिमहापुराणे आग्नेये नित्यनैमित्तिकप्राकृतप्रलया नामाष्टषष्ट्यधिकत्रिशततमोऽध्यायः॥