अग्निरुवाच
वक्ष्ये भूपुराद्रिवनौषधिसिंहादिवर्गकान् ।
भूरनन्ता क्षमा धात्री क्ष्माप्या कुः स्याद्धरित्र्यपि ॥ ३६३.१ ॥
मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका ।
जगत्त्रिपिष्टपं लोकं भुवनं जगती समा ॥ ३६३.२ ॥
अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।
सरणिः पद्धतिः पद्या वर्त्तन्येकपदीति च ॥ ३६३.३ ॥
पूः स्त्री पुरीनगर्य्यौ वा पत्तनं पुटभेदनम् ।
स्यानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥ ३६३.४ ॥
तच्छाशानगरं वेशो वेश्याजनसमाश्रयः ।
आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥ ३६३.५ ॥
रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियां ।
प्राकारो वरणः शालः प्राचीरं प्रान्ततो वृतिः ॥ ३६३.६ ॥
भित्तिः स्त्री कुड्यमेडूकं यदन्तर्नस्तकीकसं ।
वासः कुटी द्वयोः शाला सभा सञ्जवनन्त्विदम् ॥ ३६३.७ ॥
चतुःशालं मुनीनान्तु पर्णशालोटजोऽस्त्रियां ।
चैत्यमायतनन्तुल्ये वाजिशाला तु मन्दुरा ॥ ३६३.८ ॥
हर्म्यादि धनिनां वासः प्रासादो देवभूभुजां ।
स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्द्दिस्तु वेदिका ॥ ३६३.९ ॥
कपोतपालिकायान्तु विटङ्कं पुन्नपुंसकं ।
कवाटमवरन्तुल्ये निःश्रेणिस्त्वधिरोहिणी ॥ ३६३.१० ॥
सम्मार्जनी सोधनी स्यात् सङ्रोऽवकरस्तथा ।
अद्रिगोत्रगिरिग्रावा गहनं काननं वनं ॥ ३६३.११ ॥
आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ।
स्यादेतदेव प्रमदवनमन्दः पुरोचितं ॥ ३६३.१२ ॥
वीथ्यालिरावलिः पङ्क्तिश्रेणीलेखास्तु राजयः ।
वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः ॥ ३६३.१३ ॥
ओषध्यः फलपाकान्ताः पलाशी द्रुद्रुमागमाः ।
स्थाणु वा ना ध्रुवः शङ्कुः प्रफुल्लोत्फुल्लसंस्फुटाः ॥ ३६३.१४ ॥
पलाशं छदनं पर्णमिध्ममेधः समित् स्त्रियां ।
बोधिद्रुमश्चलदलो दधित्थग्राहिमन्मथाः ॥ ३६३.१५ ।
तस्मिन् दधिफलः पुष्पफलदन्तशठावपि ।
उडुम्बरे हेमदुग्धः कोविदारे द्विपत्रकः ॥ ३६३.१६ ॥
सप्तपर्णो विशालत्वक् कृतमालं सुवर्णकः ।
आरेवतव्याधिघातसम्पाक चतुरङ्गुलाः ॥ ३६३.१७ ॥
स्याज्जम्बीरे दन्तशठो वरुणे तिक्तशावकः ।
पुन्नागे पुरुषस्तुङ्गः केशरो देववल्लभः ॥ ३६३.१८ ॥
पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ।
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ॥ ३६३.१९ ॥
आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ।
पीलौ गुडफलः स्रंसी नीदेयी चाम्बुवेतसः ॥ ३६३.२० ॥
शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीरमोचकाः ।
रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेणिलः समौ ॥ ३६३.२१ ॥
गालवः शावरो लोध्रस्तिरीटस्तिल्वमार्जनौ ।
शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३६३.२२ ॥
वैकङ्कतः श्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ।
तिन्दुकः स्फूर्जकः कालो नादेयी भूमिजम्बुकः ॥ ३६३.२३ ॥
काकतिन्दौ पीलुकः स्याकत् पाटलिर्मोक्षमुष्ककौ ।
क्रमुकः पट्टिकाख्यः स्यात् कुम्भी कैटर्य्यकट्फले ॥ ३६३.२४ ॥
वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ।
सर्जकासनजीवश्च पीतसालेऽथ मालके ॥ ३६३.२५ ॥
सर्जाश्वकर्णौ वीरेन्द्रौ इन्द्रद्रुः ककुभोऽर्जुनः ।
इङ्गुदी तापसतरर्मोचा शाल्मलिरेव च ॥ ३६३.२६ ॥
चिरविल्वो नक्तमालः करजश्च करञ्चके ।
प्रकीर्य्यः पूतिकरजो मर्कट्यङ्गरवल्लरी ॥ ३६३.२७ ॥
रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ।
गायत्री बालतनयः खदिरो दन्तधावनः ॥ ३६३.२८ ॥
अरिमेदो विट्खदिरे कदरः खदिरे सिते ।
पञ्चाङ्गुलो वर्द्धमानस्चञ्चुर्गन्धर्वहस्तकः ॥ ३६३.२९ ॥
पिण्डीतको मरुवकः पीतदारु च दारु च ।
देवादारुः पूतिकाष्ठं श्यामा तु महीलाह्वया ॥ ३६३.३० ॥
लता गोवन्दनी गुन्दा प्रियङ्गुः फलिनी फली ।
मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ॥ ३६३.३१ ॥
श्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः ।
पीतद्रुः सरलश्चाथ निचुलोऽम्बुज इज्जलः ॥ ३६३.३२ ॥
काकोडुम्बरिका फल्गुररिष्टः पिचुमर्दकः ।
सर्व्वतोभद्रको निम्बे शिरीषस्तु कपीतनः ॥ ३६३.३३ ॥
वकुलो वञ्जुलः प्रोक्तः पिच्छिलाऽगुरुशिंशपाः ।
जया जयन्ती तर्कारी कणिका गणिकारिका ॥ ३६३.३४ ॥
श्रीपर्णमग्निमन्धः स्याद्वत्सको गिरिमल्लिका ।
कालस्कन्धस्तमालः स्यात् तण्डुलीयोऽल्पमारिषः ॥ ३६३.३५ ॥
सिन्धुवारस्तु निर्गुण्डी सैवास्फोता वनोद्भवा ।
गणिका यूथिकाऽम्बष्ठा सप्तला नवमालिका ॥ ३६३.३६ ॥
अतिमुक्तः पुण्ड्रकः स्यात्कुमारी तरणिः सहा ।
तत्र शोणे कुरुवकस्तत्र पीते कुरुष्टकः ॥ ३६३.३७ ॥
नीला झिण्टी द्वयोर्वाणा भ्क्तिण्टी सैरीयकस्तथा ।
तस्मिन् रक्ते कुरुवकः पीते सहचरी द्वयोः ॥ ३६३.३८ ॥
धुस्तूरः कितवो धूर्त्तो रुचको मातुलङ्गके ।
समीरणो मरुवकः प्रस्थपुष्पः फणिज्भ्क्तकः ॥ ३६३.३९ ॥
कुठेरकस्तु पर्णासेऽथास्फोतो वसुकार्कके ।
शिवमल्ली पाशुपतो वृन्दा वृक्षादनी तथा ॥ ३६३.४० ॥
जीवन्तिका वृक्षरुहा गुडूची तन्त्रिकाऽमृता ।
सोमवल्ली मधुपर्णी मूर्वा तु मोरटी तथा ॥ ३६३.४१ ॥
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ।
पाठाऽम्बष्ठा विद्धकर्णी प्राचीना वनतिक्तिका ॥ ३६३.४२ ॥
कटुः कटुम्भरा चाथ चक्राङ्गी शकुलादनी ।
आत्मगुप्ता प्रावृषायी कपिकच्छुश्च मर्कटी ॥ ३६३.४३ ॥
अपामार्गः शैखरिकः प्र्त्यक्पर्णी मयूरकः ।
फञ्चिका ब्राह्मणो भार्गी द्रवन्ती शम्भरी वृषा ॥ ३६३.४४ ॥
मण्डूकपर्णी भण्डीरी समङ्गा कालमेषिका ।
रोदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा ॥ ३६३.४५ ॥
पृश्निपर्णी पृथक्पर्णी कलशिर्धावनिर्गुहा ।
निदीग्धिका स्पृशी व्याघ्री क्षुद्रा दुस्पर्श्या सह ॥ ३६३.४६ ॥
अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ।
कालमेषी कृष्णाफ्ला वाकुची पूतिफल्यऽपि ॥ ३६३.४७ ॥
कणोषणोपकुल्या स्याच्छ्रेयसी गजपिप्पली ।
चव्यन्तु चविका काकचिञ्ची गुञ्चे तु कृष्णला ॥ ३६३.४८ ॥
विश्वा विषा प्रतिविषा वनश्रृङ्गाटगोक्षुरौ ।
नारायणी शतमूली कालेयकहरिद्रवः ॥ ३६३.४९ ॥
दार्वी पचम्पचा दारु शुक्ला हैमवती वचा ।
वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विङ्का ॥ ३६३.५० ॥
आस्फोता गिरिकर्णी स्यात् सिंहास्यो वासको वृषः ।
मिशी मधुरिकाच्छत्रा कोकिलाक्षेक्षुरक्षुरा ॥ ३६३.५१ ॥
विडङ्गोऽस्त्री कृमिघ्नः स्यात् वज्रद्रुस्रुक्स्नुही सुधा ।
गृद्वीका गोस्तनी द्राक्षा वला वाट्यालकस्तथा ॥ ३६३.५२ ॥
काला मसूरविदला त्रिपुटा त्रिवृत् ।
मधुकं क्लीतकं यष्टिमधुका मधुयष्टिका ॥ ३६३.५३ ॥
विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता ।
गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा ॥ ३६३.५४ ॥
मोचा रम्भा च कदली भष्टाकी दुष्प्रधर्षिणी ।
स्थिरा ध्रुवा सालपर्णी श्रृङ्गी तु वृषभो वृषः ॥ ३६३.५५ ॥
गाङ्गेरुकी नागबला मुषली तालमूलिका ।
ज्योत्स्नी पटोलिका जाली अजश्रृङ्गी विषाणिका ॥ ३६३.५६ ॥
स्याल्लाङ्गलिक्यग्निशिखा ताम्बूली गगवल्ल्यपि ।
हरेणू रेणुका कौन्ती ह्रीवेरो दिव्यनागरं ॥ ३६३.५७ ॥
कालानुसार्य्यवृद्धाश्मपुष्पशीतशिवानि तु ।
शिवा तामलकी चाथ हनुर्हट्टविलासिनी ॥ ३६३.५८ ॥
ग्रन्थिपर्णं शुकं वर्हि वला तु त्रिपुटा त्रुटिः ।
शिवा तामलकी चाथ हनुर्हट्टविलासिनी ॥ ३६३.५९ ॥
कुटं नटं दशपुरं वानेयं परिपेलवम् ।
तपस्विनी जटामांसी पृक्का देवी लता लक्षू ॥ ३६३.६० ॥
कर्चुरको द्राविडको गन्धमूली शठी स्मृता ।
स्यादृक्षगन्धा छगलान्त्रा वेगी वृद्धदारकः ॥ ३६३.६१ ॥
तुण्डिकेरी रक्तफला विम्बिका पीलुपर्ण्यऽपि ।
चाङ्गेरी चुक्रिकाम्बष्ठा स्वर्णक्षीरी हिमावती ॥ ३६३.६२ ॥
सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि ।
जीवन्ती जीवनी जीवा भूमिनिम्बः किरातकः ॥ ३६३.६३ ॥
कूर्चशीर्षो मधुकरश्चन्द्रः कपिवृकस्तथा ।
दद्रुघ्नः स्यादेडगजो वर्षाभूः शोथहारिणी ॥ ३६३.६४ ॥
कुनन्दती निकुम्भस्त्रा१ यमानी वार्षिका तथा ।
लशुनङ्गृञ्जनारिष्टमहाकन्दरसोनकाः ॥ ३६३.६४ ॥
वाराही वदरा गृष्टिः काकमाची तु वायसी ।
शतपुष्पा सिचच्छत्राऽतिच्छत्रा मधुरा मिसिः ॥ ३६३.६६ ॥
अवाक्पुष्पी कारवी च सरणा तु प्रसारणी ।
कटम्भरी भद्रवला कर्व्वूरश्च शटी ह्यथ ॥ ३६३.६७ ॥
पटोलः कुलकस्तिक्तः कारवेल्लः कटिल्लकः ।
कुष्माण्डकस्तु कर्कारुरिर्वारुः कर्कटी स्त्रियौ ॥ ३६३.६८ ॥
इक्ष्वाकुः कटुतुम्बी स्याद्विशाला त्विन्द्रावरुणी ।
अर्शोघ्नः शूरणः कन्दो मुस्तकः कुरुविन्दकः ॥ ३६३.६९ ॥
वंशे त्वक्सारकर्म्मारवेणुमस्करतेजनाः ।
छत्रातिच्छत्रपालघ्नी मालातृणकभूस्तृणे ॥ ३६३.७० ॥
तृणराजाह्वयस्तालो घोण्टा क्रमुकपुगकौ ।
शार्दूलद्वीपिनौ व्याघ्ने हर्य्यक्षः केशरी हरिः ॥ ३६३.७१ ॥
कोलः पोत्री वराहः स्यात् कोक ईहामृगो वृकः ।
लूतोर्णनाभौ तु समौ तन्तुवायश्च मर्कटे ॥ ३६३.७२ ॥
वृश्चिकः शूककीटः स्यात्सारङ्गस्तोककौ समौ ।
कृकवाकुस्ताम्रचूडः पिकः कोकिल इत्यपि ॥ ३६३.७३ ॥
काके तु करटारिष्टौ वकः कह्व उदाहृतः ।
कोकश्चक्रश्चक्रवाको कादम्बः कलहंसकः ॥ ३६३.७४ ॥
पतङ्गिका पुत्तिका स्यात्सरघा मधुमक्षइका ।
द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमराऽलयः ॥ ३६३.७५ ॥
केकी शिख्यस्य वाक्केका शकुन्तिशकुनिद्विजाः ।
स्त्री पक्षतिः पक्षमूलञ्चञ्चूस्तोटिरुभे स्त्रियौ ॥ ३६३.७६ ॥
गतिरुडडीनसण्डीनौ कुलायो नीडमस्त्रियां ।
पेशी कोषो द्विहीनेऽण्डं पृथुकः शावकः शिशु ॥ ३६३.७७ ॥
पोतः पाकोऽर्भको डिम्भः सन्दोहव्यूहको गणः ।
स्तोमौवनिकरव्राता निकुरम्बं कदम्बकं ॥
सङ्घातसञ्चयौ वृन्दं पुञ्जरीशी तु कूटकं ॥ ३६३.७८ ॥
इत्यादिमहापुराणे आग्नेये भूमिवनौषध्यादिवर्गा नाम त्रिषष्ट्यधिकत्रिशततमोऽध्यायः ॥