३४६

काव्यगुणविवेकः ।

अग्निरुवाच ।
अलङ्कृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् ।
वपुष्य ललिते स्त्रीणां हारो भारयते परं ॥ ३४६.१ ॥

न च वाच्यं गुणो दोषो भाव एव भविष्यति ।
गुणाः श्लेषादयो दोषा गुढार्थाद्याः पृथक् कृताः ॥ ३४६.२ ॥

यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणः ।
सम्भवत्येष सामान्यो वैशेषिक इति द्विधा ॥ ३४६.३ ॥

सर्व्वंसाधारणीभूतः सामान्य इति मन्य्ते ।
शव्दमर्थमुभौ प्राप्तः सामान्यो भवति त्रिधा ॥ ३४६.४ ॥

शब्दमाश्रयते काव्यं शरीरं यः स तद्‌गुणः ।
श्लेषो लालित्यगाम्भीर्य्यसौकुमार्य्यमुदारता ॥ ३४६.५ ॥

सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा ।
सुश्लिष्टसन्निवेशत्वं शब्दानां श्लेष उच्यते ॥ ३४६.६ ॥

गुणादेशादिना पूर्व्वं पदसम्बद्धमक्षरं ।
यत्र सन्धीयते नैव तल्लालित्यमुदाहृतं ॥ ३४६.७ ॥

विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् ।
गाम्भीर्य्यं कथयन्त्यार्य्यास्तदेवान्येषु शब्दतां ॥ ३४६.८ ॥

अनिष्ठुराक्षरप्रायशब्दता सुकुमारता ।
उत्तानपदतौदार्य्ययुतश्लाघ्यैर्विशेषणैः ॥ ३४६.९ ॥

ओजः समासभूयस्त्वमेतत्पद्यादिजीवितं ।
आब्रह्म स्तम्भपर्य्यन्तमोजसैकेन पौरुषं ॥ ३४६.१० ॥

उच्यमानस्य शब्देन येन केनापि वस्तुनः ।
उत्कर्षमावहन्नर्थो गुण इत्यबिधीयते ॥ ३४६.११ ॥

माधुर्य्यं सम्बिधानञ्च कोमलत्वमूदारता ।
प्रौढिः सामयिकत्वञ्च तद्‌भेदाः षट्‌चकाशति ॥ ३४६.१२ ॥

क्रोधेर्ष्याकारगाम्भीर्य्यान्माधुर्य्यं धैर्य्यगाहिता ।
सम्बिधानं परिकरः स्यादपेक्षइतसिद्धये ॥ ३४६.१३ ॥

यत्‌काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता ।
तिरस्कृत्यैव मृकदुता भाति कोमलतेति सा ॥ ३४६.१४ ॥

लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् ।
गुणल्य तदुदारत्वमाशयस्यातिसौष्ठवं ॥ ३४६.१५ ॥

अभिप्रेतं प्रति यतो निर्व्वाहस्योपपादिकाः ।
युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता ॥ ३४६.१६ ॥

स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तः समयोगतः ।
तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा ॥ ३४६.१७ ॥

शब्दार्थावुपकुर्व्वाणो नाम्नोभयगुणः स्मृतः ।
तस्य प्र्सादः सौभाग्यं यथासङ्‌ख्यं प्रशस्तता ॥ ३४६.१८ ॥

काको राग इकति प्राज्ञैः षट् प्रपञ्चविपञ्चिताः । पाको राग इति प्राज्ञैः पाठभेदः
सुप्रसिद्धार्थपदता प्रसाद इति गीयते ॥ ३४६.१९ ॥

उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्तेप्रतीयते ।
तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः ॥ ३४६.२० ॥

यथासङ्‌ख्यमनुद्देशः सामान्यमतिदिश्यते ।
समये वर्णनीयस्य दारुणस्यापि वस्तुनः ॥ ३४६.२१ ॥

अदारुणेन शब्देन प्राशसत्यमुपवर्णनं ।
उच्चैः परिणतिः कापि पाक इत्यभिधीयते ॥ ३४६.२२ ॥

मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुव्विधः ।
आदावन्ते च सौरस्यं मृद्वीकापाक एव सः ॥ ३४६.२३ ॥

काव्येच्छया विशेषो यः स राग इति गीयते ।
अब्यासोपहितः कान्तिं सहजामपि वर्त्तते ॥ ३४६.२४ ॥

हारिद्रश्चैव कौसुम्भो नीली रागश्च स त्रिधा ।
वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः ॥ ३४६.२५ ॥

इत्यादिमहापुराणे आग्नेये काव्यगुणविवेको नाम षट्‌चत्बारिंशदधिकत्रिशततमोऽध्यायः ॥