अग्निरुवाच
चेष्टाविशेषमप्यङ्गप्रत्यङ्गे कर्म्म चानयोः ।
शरीरारम्भमिच्छन्ति प्रायः पूर्व्वोऽवलाश्रयः ॥ ३४१.१ ॥
लीला विलासो विच्छित्तिर्विभ्रमं किलकिञ्चितं ।
मोट्टायितं कुट्टमितं विव्वोको ललितन्तथा ॥ ३४१.२ ॥
विकृतं क्रीडितं केलिरिति द्वादशधैव सः ।
लीलेष्टजनचेष्टानुकरणं संवृतक्षये ॥ ३४१.३ ॥
विशेषान् दर्शयन् किञ्चिद्विलासः सद्भिरिष्यते ।
हसितक्रन्दितादीनां सङ्करः किलकिञ्चितं ॥ ३४१.४ ॥
विकारः कोपि विव्वोको ललितं सौकुमार्य्यतः ।
शिरः पाणिरुपः पार्श्वङ्गटिरङ्घ्रिरिति क्रमात् ॥ ३४१.५ ॥
अङ्गनि भ्रूलतादीनि प्रत्यङ्गान्यभिजानते ।
अड्गप्रत्यङ्गयोः कर्म्म प्रयलजनितं विना ॥ ३४१.६ ॥
न प्रयोगः क्कचिन्मुख्यन्तिरश्चीनञ्च तत् क्कचिच् ।
आकम्पितं कम्पितञ्च१ धूतं विधूतमेव च ॥ ३४१.७ ॥
परिवाहिनमाधूतमवधूतमथाचितं ।
निकुञ्चितं परवृत्तमुत्क्षिप्तञ्चाप्यधोगतम् ॥ ३४१.८ ॥
ललितञ्चेति विज्ञेयं त्रयोदशविधं शिरः ।
भ्रूकर्म्म सप्तधा ज्ञेयं पातनं भ्रूकुटीमुखं ॥ ३४१.९ ॥
दृष्टिस्त्रिधा रसस्थायिसञ्चारिप्रतिबन्धना ।
षट्त्रिंशद्भेदविधुरा रसजा तत्र चाष्टधा ॥ ३४१.१० ॥
नवधा तारकाकर्म्म भ्रमणञ्चलनादिकं ।
षोढा च नासिका ज्ञेया निश्वासो नवदा मतः ॥ ३४१.११ ॥
षोढौष्ठकर्म्मकं पापं सप्तधा चिवुकक्रिया ।
कलुषादिमुखं षोढा ग्रीवा नवविधा स्मृता ॥ ३४१.१२ ॥
असंयुतः संयुतश्च भूम्ना हस्तः प्रमुच्यते ।
पताकस्त्रिपताकश्च तथा वै कर्त्तरीमुखः ॥ ३४१.१३ ॥
अर्द्धचन्द्रोत्करालश्च शुक्तुण्डस्तथैव च ।
मुष्टिश्च शिखरश्चैव कपित्थः खेटकामुखः ॥ ३४१.१४ ॥
सूच्यास्यः पद्मकोषो हि शिराः समृगशीर्षकाः ।
काम्मूलकालपद्मौ च चतुरभ्रमरौ तथा ॥ ३४१.१५ ॥
हंसास्यहंसपक्षौ च सन्दंशमुकुलौ तथा ।
उर्णनाभस्तात्रचूडश्चतुर्विंशतिरित्यमी ॥ ३४१.१६ ॥
असंयुतकराः प्रोक्ताः संयुतास्तु त्रयोदश ।
अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ ३४१.१७ ॥
कटको वर्द्धमानश्चाप्यसङ्गो निषधस्तथा ।
दोलः पुष्पपुटश्चैव तथा मकर एव च ॥ ३४१.१८ ॥
गजदन्तो वहिस्तम्भो वर्द्धमानोऽपरे कराः ।
उरः पञ्चविधं स्यात्तु आभुग्ननर्त्तनादिकम् ॥ ३४१.१९ ॥
उदरन्दुरतिक्षामं खण्डं पूर्णमिति त्रिधा ।
पार्श्वयोः पञ्चकर्म्माणि जह्घाकर्म च पञ्चवा ॥ ३४१.२० ॥
अनेकधा पादकर्म्म नृत्यादौ नाटके स्मृतम् ॥
इत्यादिमहापुराणे आग्नेये नृत्यादावङ्गकर्म्मनिरूपणं नामएकचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥