३४०

अग्निरुवाच
वाग्विद्यासम्प्रतिज्ञने रीतिः सापि चतुर्विधा ।
पाञ्चली गौडदेशीया वैदर्भी लाटजा तथा ॥ ३४०.१ ॥

उपचारयुता मृद्वी पाञ्चाली ह्रस्वविग्रहा ।
अनवस्थितसन्दर्भा गौडीया दीर्घविग्रहा ॥ ३४०.२ ॥

उपचारैर्न्न बहुभिरुपचारैर्विवर्ज्जिता ।
नातिकोमलसन्दर्भा वैदर्भी मुक्तविङ्ग्रहा ॥ ३४०.३ ॥

लाजीया स्फुजसन्दर्भा नातिविस्फुरविग्राहा ।
परित्यक्तापि भूयोभिरुपचारैरुदाहृता ॥ ३४०.४ ॥

क्रियास्वविषमा वृत्तिर्भारत्यारभटी तथा ।
कौशिकी सात्वती चैति सा चतुर्द्धा प्रतिष्ठिता ॥ ३४०.५ ॥

वाक्‌प्रधाना नरप्राया स्त्रीयुक्ता प्राकृतोक्तिता ।
भरतेन प्रणीतत्वात् भारती रीतिरुच्यते ॥ ३४०.६ ॥

चत्वार्य्यङ्गानि भारत्या वीथी प्रहसनन्तथा ।
प्रस्तावना नाटकादेर्व्वीथ्यङ्गाश्च त्रयोदश ॥ ३४०.७ ॥

उद्‌घातकं तथैव स्याल्लपितं स्याद्‌द्वितीयकम् ।
असत्प्रलापो वाक्‌श्रेणी नान्निका विपणन्तथा ॥ ३४०.८ ॥

व्याहारस्रिमतञ्चैव छलावस्कन्दिते तथा ।
गण्डोऽथ मृदवश्चैव त्रयोदशमथाचितम् ॥ ३४०.९ ॥

तापसादेः प्रहसनं परिहासपरं वचः ।
मायेन्द्रजालयुद्धादिबहुलारभटी स्मृता ॥ ३४०.१० ॥

सङ्‌क्षिप्तकारपातौ च वस्तूत्थापनमेव च ॥ ३४०.११ ॥

इत्यादिमहापुराणे आग्नेये रीतिनिरूपणं नाम चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥