३३३

अग्निरुवाच
उपचित्रकं ससमनामथभोजभगामय ।
द्रूतमध्या ततभगागथोननजयाः स्मृताः ॥ ३३३.१ ॥

वेगवती ससमगा भभभगोगथो स्मृता ।
रुद्रविस्तारस्तोसभगासमजागोगथा स्मृता ॥ ३३३.२ ॥

रजसागोगथोद्रोणौ गोगौ वै केतुमत्यपि ।
आख्यानिकी ततजगागथोततजगागथ ॥ ३३३.३ ॥

विपरीताख्यानिकी त्तौ जयगातौ जगोगथ ।
सौमलौ गथलभभावौ भवेद्धरिणवल्लभा ॥ ३३३.४ ॥

लौवनौगाथनजजा यः स्यादपरक्रमं ।
पुष्पिता ननवयानजजावोगथो रजौ ॥ ३३३.५ ॥

वोजथो जवजवागौ मूले पनमती शिखा ।
अष्टाविंशतिनागाभा त्रिशन्नागन्ततो युजि ।

खञ्जा तद्विपरीता स्यात् समवृत्तं प्रदर्श्यते ॥ ३३३.६ ॥

इत्यादिमहापुराणे आग्नेये अर्द्धसमनिरूपणं नाम त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः ॥