ईश्वर उवाच
व्रतेश्वरांश्च सत्यादीनिष्ट्वा व्रतसम्र्पणम्।
अरिष्टशमने शस्तमरिष्टं सूत्रनायकम् ॥ ३२७.१ ॥
हेमरत्नमयं भूत्यै महाशङ्खञ्च मारणे ।
आप्यायने शङ्खसूत्रं मौक्तिकं पूत्रवर्द्धनम् ॥ ३२७.२ ॥
स्फाटिकं भूतिदं कौशं मुक्तिदं रुद्रनेत्रजं ।
धात्रीफलप्रमाणेन रुद्राक्षँ चोत्तमन्ततः ॥ ३२७.३ ॥
समेरुं मेरुहीनं वा सूत्रं जप्यन्तु मानसम् ।
अनामाङ्गुष्ठमाक्रम्य जपं भाष्यन्तु कारयेत् ॥ ३२७.४ ॥
तर्ज्जन्यङ्गुष्ठमाक्रम्य न मेरुं लङ्घयेज्जपे ।
प्रमादात् पतिते सूत्रे जप्तव्यन्तु शतद्वयम् ॥ ३२७.५ ॥
सर्ववाद्यमयी घण्टा तस्या वादनमर्थकृत् ।
गोशकृन्मूत्रवल्मीकमृत्तिकाभस्मवारिभिः ॥ ३२७.६ ॥
वेस्मायतनलिङ्गादेः कार्य्यमेवं विशोधनम् ।
स्कन्दो नमः शिवायेति मन्त्रः सर्व्वार्थसाधकः ॥ ३२७.७ ॥
गीतः पञ्चाक्षरो वेदे लोके गीतः षडक्षरः ।
ओमित्यन्ते स्थितः शम्भुर्म्मुद्रार्थं वटवीजवत् ॥ ३२७.८ ॥
क्रमान्नमः शिवायेति ईशानाद्यानि वै विदुः ।
षडक्षरस्य सूत्रस्य भाष्यद्विद्याकदम्बकं ॥ ३२७.९ ॥
यदोँनमः शिवायेति एतावत् परमं पदम् ।
अनेन पूजयेल्लिङ्गं लिङ्गे यस्मात् स्थितः शिवः ॥ ३२७.१० ॥
अनुग्रहाय लोकानां धर्म्मकामार्थमुक्तिदः ।
यो न पूजयते लिङ्गन्न स धर्म्मादिभाजनं ॥ ३२७.११ ॥
लिङ्गार्च्चनाद्भुक्तिमुक्तिर्यावज्जीवमतो यजेत् ।
वरं प्राणपरित्यागो भुञ्जीतापूज्य नैव तं ॥ ३२७.१२ ॥
रुद्रस्य पूजनाद्रुद्रो विष्णुः स्याद्विष्णुपूजनात् ।
सूर्य्यः स्यात् सूर्य्यपूजातः शक्त्यादिः शक्तिपूजनात् ॥ ३२७.१३ ॥
सर्वयज्ञतपोदाने तीर्थे वेदेषु यत् फलं ।
तत् फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः ॥ ३२७.१४ ॥
त्रिसन्ध्यं योर्च्चयेल्लिङ्गं कृत्वा विल्वेन पार्थिवम् ।
शतैकादशिकं यावत् कुलमुद्धृत्य नाकभाक् ॥ ३२७.१५ ॥
भक्त्या वित्तानुसारेण कुर्य्यात् प्रासादसञ्चयम् ।
अल्पे महति वा तुल्यफलमाढ्यदरिद्रयोः ॥ ३२७.१६ ॥
भागद्वयञ्च धर्मार्थं कल्पयेज्जीवनाय च ।
धनस्य भागमेकन्तु अनित्यं जीवितं यतः ॥ ३२७.१७ ॥
त्रिसप्तकुलमुद्धृत्य देवागारकृदर्थम्भाक् ।
मृत्कष्ठेष्टकशैलाद्यैः क्रमात् कोटिगुणं फलम् ॥ ३२७.१८ ॥
अष्टेष्टकसुरागारकारी स्वर्गमवाप्नुयात् ।
पांशुना क्रीडमानोपि देवागारकृदर्थभाक् ॥ ३२७.१९ ॥
इत्यादिमहापुराणे आग्नेये देवालयमाहात्म्यादिर्नाम सप्तविंशत्यधिकत्रिशततमोऽध्यायः ॥