ईश्वर उवाच
रुद्राक्षकटकं धार्य्यं विषमं सुसमं दृढम् ।
एकत्रिपञ्चवदनं यथालाभन्तु धारयेत् ॥ ३२५.१ ॥
द्विचतुःषण्मुखं शस्तमव्रणं तीव्रकण्ठकं ।
दक्षवाहौ शिखादौ च धारयेच्चतुराननं ॥ ३२५.२ ॥
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ।
हैमी वा मुद्रिका धार्य्या शिवमन्त्रेण चार्च्च्य तु ॥ ३२५.३ ॥
शिवः शिखा तथा ज्योतिः सवित्रश्चेतिगोचराः ।
गोचरन्तु कुलं ज्ञेयं तेन लक्षअयस्तु दीक्षइतः ॥ ३२५.४ ॥
प्राजापत्यो महीपालः कपोतो ग्रन्थिकः शिवे ।
कुटिलाश्चैव वेतालाः पद्महंसाः शिखाकुले ॥ ३२५.५ ॥
धृताराष्ट्रा वकाः काका गोपाला ज्योतिसञ्ज्ञके ।
कुटिका साठराश्चैव गुटिका दण्डिनोऽपरे ॥ ३२५.६ ॥
सावित्री गोचरे चैवमेकैकस्तु चतुर्विधः ।
सिद्धाद्यंशकमाख्यास्ये येन मन्त्रः सुसिद्धिदः ॥ ३२५.७ ॥
भूमौ तु मातृका लेख्याः कूटषण्डविवर्ज्जिताः ।
मन्त्राक्षराणि विश्लिष्य अनुस्वारं नयेत् पृथक् ॥ ३२५.८ ॥
साधकस्य तु या सञ्ज्ञा तस्या विश्लेषणं चरेत् ।
मन्त्रस्यादौ तथा चान्ते साधकार्णानि योजयेत् ॥ ३२५.९ ॥
सिद्धः साध्यः सुसिद्धोऽरिः सञ्ज्ञातो गणयेत् क्रमात् ।
मन्त्रस्यादौ तथा चान्ते सिद्धिदः स्याच्छतांशतः ॥ ३२५.१० ॥
सिद्धादिश्चान्तसिद्धिश्च तत्क्षणादेव सिध्यति ।
सुसुद्धादिः सुसिद्धान्तः सिद्धवत् परिकल्पयेत् ॥ ३२५.११ ॥
अरिमादौ तथान्ते च दूरतः परिवर्ज्जयेत् ।
सिद्धः सुसिद्धश्चैकार्थे अलिः साध्यस्तथैव च ॥ ३२५.१२ ॥
आदौ सिद्धः स्थितो मन्त्रे तदन्ते तद्वदेव हि ।
मध्ये रिपुसहस्राणि न दोषाय भवन्ति हि ॥ ३२५.१३ ॥
मायाप्रसादप्रणवेनांशकः ख्यातमन्त्रके ।
ब्रह्मांशको ब्र्ह्मविद्या विष्णवङ्गोवैष्णवः स्मृतः ॥ ३२५.१४ ॥
रुद्रांशको भवेद्वीर इन्द्रांशश्चेश्वरप्रियः ।
नागांशो नागस्तब्धाक्षो यक्षांशो भूषणप्रियः ॥ ३२५.१५ ॥
गन्धर्व्वाशोऽतिगीतादि भीमांशो राक्षसांशकः ।
दैत्याशः स्याद् युद्धकार्य्यो मानी विद्याधरांशकः ॥ ३२५.१६ ॥
पिशाचांशोमलाक्रान्तो मन्त्रं दद्यान्निरीक्ष्य च ।
मन्त्र एकात् फडन्तः स्यात् विद्यापञ्चाशतावधि ॥ ३२५.१७ ॥
बाला विंशाक्षरान्ता च रुद्रा द्वाविंशगायुधा ।
तत ऊद्र्ध्वन्तु ये मन्त्रा वृद्वा यावच्छतत्रयं ॥ ३२५.१८ ॥
अकारादिहकारान्ताः क्रमात् पक्षौ सितासितौ ।
अनुस्वारविसर्गेण विना चैव स्वरा दश ॥ ३२५.१९ ॥
ह्रस्वाः शुक्ला दीर्घाः श्यामांस्तिथयः प्रतिपन्मुखाः ।
उदिते शान्तिकादीनि भ्रमिते वश्यकादिकम् ॥ ३२५.२० ॥
भ्रामिते सन्धयो द्वेषोच्चाटने स्तम्भनेऽस्तकम् ।
इहावाहे शान्तिकाद्यं पिङ्गले कर्षणादिकम् ॥ ३२५.२१ ॥
मारणोच्चाटनादीनि विषुवे पञ्चधा पृथक् ।
अधरस्य गृहे पृथ्वी ऊद्र्ध्वे तेजोऽन्तरा द्रवः ॥ ३२५.२२ ॥
रन्ध्रपार्श्वे वहिर्वायुः सर्वं व्याप्य महेश्वरः ।
स्तम्भनं पार्थिवे शान्तिर्ज्जले वश्यादि तेजसे ॥ ३२५.२३ ॥
वायौ स्याद् भ्रमणं शून्ये पुण्यं कालं समभ्यसेत् ॥
इत्यादिमहापुराणे आग्नेये अंशकादिर्नाम्म पञ्चविंशत्यधिकत्रिशततमोऽध्यायः ॥