३१८

ईश्वर उवाच
विश्वरूपं समुद्धृत्य तेजस्युपरि संस्थितम् ।
नरसिंहं ततोऽधस्तात्कृतान्तं तदधो न्यसेत् ॥०१
प्रणवं तदधःकृत्वा ऊहकं तदधः पुनः ।
अंशुमान् विश्वमूर्तिस्थं कण्ठोष्ठप्रणवादिकम् ॥०२
नमोऽन्तः स्याच्चतुर्वर्णो विश्वरूपञ्च कारणम् ।
सूर्यमात्राहतं ब्रह्मण्यङ्गानीह तु पूर्ववत्(१) ॥०३
उद्धरेत्प्रणवं पूर्वं प्रस्फुरद्वयमुच्चरेत् ।
घोरघोरतरं पश्चात्तत्र रूपमतः स्मरेत् ॥०४
चटशब्दं द्विधा कृत्वा ततः प्रवरमुच्चरेत् ।
दहेति च द्विधा कार्यं वमेति च द्विधा गतम्(२) ॥०५
घातयेति द्विधाकृत्य हूम्फडन्तं समुच्चरेत् ।
अघोरास्त्रन्तु नेत्रं स्याद्गायत्री चोच्यतेऽधुना ॥०६
तन्महेशाय विद्महे महादेवाय धीमहि ।
तत्रः शिवः प्रचोदयात्गायत्री सर्वसाधनी ॥०६*१
यात्रायां विजयादौ च यजेत्पूर्वङ्गणं श्रिये ।
तुर्यांशे तु पुरा क्षेत्रे समन्तादर्कभाजिते ॥०७
चतुष्पदं त्रिकोणे तु त्रिदलं कमलं लिखेत् ।०८