अग्निरुवाच
अपरां त्वरिताविद्यां वक्ष्येऽहं भुक्तिमुक्तिदां ।
परेवज्राकुले१ देवीं रजोभिर्लिखिते यजेत् ॥ ३१०.१ ॥
पद्मगर्भे दिग्विदिक्षु चाष्टौ वज्राणि वीथिकां ।
द्वाशोभोपशोभाञ्च लिखेच्छीघ्रं स्मरेन्नरः ॥ ३१०.२ ॥
अष्टादशभुजां सिंहे वामजङ्घा प्रतिष्ठिता ।
दक्षिणा द्विगुणा तस्याः पादपीठे समर्पिता ॥ ३१०.३ ॥
नागभूषां वज्रकुण्डे खड्गं चक्रं गदां क्रमात् ।
शूलं शरं तथा शक्तिं वरदं दक्षिणैः करैः ॥ ३१०.४ ॥
धनः पाशं शरं घष्टां तर्ज्जनीं शङ्खमङ्कुशम् ।
अभयञ्च तता वज्रं वामपार्श्वे घृतायुधम् ॥ ३१०.५ ॥
पूजनाच्छत्रुनाशः स्याद्राष्ट्रं जयति लीलया ।
दीर्घायूराष्ट्रभूतिः स्याद्दिव्यादिव्यादिसिद्धिभाक् ॥ ३१०.६ ॥
तलोतिसप्तपातालाः कालाग्निभुवनान्तकाः ।
ओं कारादिस्वरारभ्य यावद्ब्रह्माण्डवाचकम् ॥ ३१०.७ ॥
ओं काराद्भ्रामयेत्तोयन्तोतला त्वरिता ततः ।
प्र्स्तावं सम्प्रवक्ष्यामि स्वरवर्गं लिखेद्भुवि ॥ ३१०.८ ॥
तालुवर्गः कवर्गः स्यात्तृतीयो जिह्वतालुकः ।
चतुर्थस्तालुजिह्वाग्रो जिह्वादन्तस्तु पञ्चमः ॥ ३१०.९ ॥
षष्ठोऽष्टपुटसम्पन्नो मिश्रवर्गस्तु सप्तमः ।
ऊष्माणः स्याच्छवर्गस्तु उद्धरेच्च मनुं ततः ॥ ३१०.१० ॥
षष्ठस्वरसमारूढं ऊष्मणान्तं सविन्दुकम् ।
तालुवर्गाद्वितीयन्तु स्वरैकादशयोजितम् ॥ ३१०.११ ॥
जिह्वातालुसमायोगः प्रथमं केवलं भवेत् ।
तदेव च द्वितायन्तु अधस्ताद्विनियोजयेत् ॥ ३१०.१२ ॥
एकादशस्वरैर्युक्तं प्रथमं तालुवर्गतः ।
ऊष्णाणस्य१ द्वितीयन्तु अधस्ताद् दृश्य योजयेत् ॥ ३१०.१३ ॥
षोडशस्वरसंयुक्तमूष्माणस्य द्वितीयकम् ।
जिह्वादन्तसमायोगे प्रथमं योजयेदधः ॥ ३१०.१४ ॥
मिश्रवर्गाद् द्वितीयन्तु अधस्तात् पुनरेव तु ।
चतुर्थस्वरसमि न्नं तालुवर्गादिसंयुतम् ॥ ३१०.१५ ॥
ऊष्मणश्च द्वितीयन्तु अधस्ताद्विनियोजयेत् ।
स्वरैकादशभिन्नन्तु ऊष्मणान्तं सविन्दुकम् ॥ ३१०.१६ ॥
पञ्चस्वरसमारूढं ओष्ठसम्पुटयोगतः ।
द्वितीयमक्षरञ्चान्यज्जिह्वाग्रे तालुयोगतः ॥ ३१०.१७ ॥
प्रथमं पञ्चमे योज्यं स्वरार्द्धेनोद्धृता इमे ।
ओङ्काराद्या नमोन्ताश्च जपेत् स्वाहाग्निकार्य्यके ॥ ३१०.१८ ॥
ओं ह्रीँ ह्रूँ ह्रः हृदयं हां हश्चेति शिरः । ह्रीँ ज्वल ज्वल शिखा
स्यात् कवचं हनुद्वयम् । हीँ श्रीँ शून्नेत्रत्रयाय विद्यानेत्रं प्रकीर्त्तितम्
क्षौँ हः खौँ हूँ फडस्त्राय गुह्याङ्गानि पुरा न्यसेत् ।
त्वरिताङ्गानि वक्ष्यामि विद्याङ्गानि श्रृणुष्व मे ।
आदिद्विहृदयं प्रोक्तं त्रिचतुःशिर इष्यते ॥ ३१०.१९ ॥
पञ्चषष्ठः शिखा प्रोक्ता कवचं सप्तमाष्टमम् ।
तोरकन्तु भवेन्तेत्रं नवार्द्धाक्षरलक्षणं ॥ ३१०.२० ॥
तोतलेति समाख्याता वज्रतुण्डे ततो भवेत् ।
ख ख हूँ दशवीजा स्याद्वज्रतुण्डेक्षरलक्षणं ॥ ३१०.२१ ॥
खेचरि ज्वालिनीज्वाले खखेति ज्वालिनीदश ।
वर्च्चे शरविभीषणि खखेति च शवर्य्यपि ॥ ३१०.२२ ॥
छे छेदनि करालिनि खखेति च कराल्यपि ।
वक्षःश्रवद्रवप्लवनी ख ख दूतीप्लवङ्ख्यपि ॥ ३१०.२३ ॥
स्त्रीबालकारे धुननि शास्त्री वसनवेगिका ।
क्षे पक्षे कपिले हस हस कपिला नाम दूतिका ॥ ३१०.२४ ॥
ह्रूँ तेजोवति रौद्री च मातङ्गरौद्रिदूतिका ।
पुटे पुटे ख ख खड्गे फट् ब्रह्मकदूतिका ॥ ३१०.२५ ॥
वैतालिनि दशार्णाः स्युस्त्यजान्यहिपलालवत् ।
हृदादिकन्यासादौ स्यान् मध्ये नेत्रे न्यसेत्सुधीः ॥ ३१०.२६ ॥
पादादारभ्य मूर्द्धान्तं शिर आरभ्य पादयोः ।
अङ्घ्निजानूरुगुह्ये च नाभिहृत्कण्ठदेशतः ॥ ३१०.२७ ॥
वज्रमण्डलमूर्द्धे च अधोद्र्ध्वे चादिवीजतः ।
सोमरूपं ततो गावं धारामृतसुवर्षिणम् ॥ ३१०.२८ ॥
विशन्तं ब्रह्मन्ध्रेण साधकस्तु विचिन्तयेत् ।
मूर्द्धास्यकण्ठहृन्नाभौ गुह्येरुजानुपादयोः ॥ ३१०.२९ ॥
आदिवीजं न्यसेन्मन्त्री तर्ज्जन्यादि पुनः पुनः ।
ऊद्र्ध्वं सोममधः पद्म शरीरं वीजविग्रहं ॥ ३१०.३० ॥
योजानाति न मृत्युः स्यात्तस्य न व्याधयो ज्वराः ।
यजेज्जपेत्तां विन्यस्य ध्यायेद्वेवीं शताष्टकम् ॥ ३१०.३१ ॥
मुद्रा वक्ष्ये प्र्णीताद्याः प्रणीताः पञ्चधा स्मृताः ।
ग्रथितौ तु करौ कृत्वा मध्येऽङ्गुष्ठौ निपातयेत् ॥ ३१०.३२ ।.
तर्ज्जनीं मूर्दिध्न संलग्नां विन्यसेत्तां शिरोपरि ।
प्रणीतेयं समाख्याता हृद्देशे तां समानयेत् ॥ ३१०.३३ ॥
ऊद्र्ध्वन्तु कन्यसामध्ये सवीजान्तां विदुर्द्धिजाः ।
नियोज्य तर्ज्जनीमध्येऽनेकलग्नां परस्पराम् ॥ ३१०.३४ ॥
ज्येष्ठाग्रं निक्षिपेन्मध्ये भेदनी स प्रकीर्त्तिता ।
नाभिदेशे तु तां बद्ध्वा अङ्गुष्ठानुन्क्षिपेत्ततः ॥ ३१०.३५ ॥
कराली तु महामुद्रा हृदये योज्य मन्त्रिणः ।
पुनस्तु पूर्व्ववद् बद्धलग्नां ज्येष्ठां समुत्क्षिपेत् ॥ ३१०.३६ ॥
वज्रतुण्डा समाख्याता वज्रदेशे तु बन्धयेत् ।
उभाभ्याञ्चैव हस्ताभ्यां मणिबन्धन्तु बन्धयेत् ॥ ३१०.३७ ॥
त्रीणि त्रीणि प्रसार्य्येति वज्रमुद्रा प्रकीर्त्तिता ।
दण्डः खड्गञ्चक्रगदा मुद्रा चाकारतः स्मृता ॥ ३१०.३८ ॥
अङ्गष्ठेनाक्रमेत् त्रीणि त्रिशूलञ्चोद्र्ध्वतो भवेत् ।
एकातु मध्यमोद्र्ध्वा तु शक्तिरेव विधीयते ॥ ३१०.३९ ॥
शरञ्च वरदञ्चापं पाशं भारञ्च घण्टया ।
शङ्खमङ्कुशमभयं पद्ममष्ट च विंशतिः ॥ ३१०.४० ॥