अग्निरुवाच
यदा जन्मर्क्षगश्चन्द्रो भानुः सप्तमराशिगः ।
पौष्णः कालः स विज्ञेयस्तदा ग्रासं परीक्षयेत् ॥ ३०३.१ ॥
कण्ठेष्ठै चलतः स्थानाद्यस्य वक्रा च नासिका ।
कृष्णा च जिह्वा सप्ताहं जीवितं तस्य वै भवेत् ॥ ३०३.२ ॥
तारो मेषो विषं दन्ती नरो दीर्घो घणा रसः ।
क्रुद्धोल्काय महोल्काय वीरोत्लाय शिखा भवेत् ॥ ३०३.३ ॥
ह्यल्काय सहसोल्काय वैष्णवोष्टाक्षरो मनुः ।
कनिष्ठादितदष्टानामङ्गुलीनाञ्च पर्वसु ॥ ३०३.४ ॥
ज्येष्ठाग्रेण क्रमात्तावन् मूर्द्धन्यष्टाक्षरं न्यसेत् ।
तर्ज्जन्यान्तारमङ्गुष्ठे लग्ने मध्यमया च तत् ॥ ३०३.५ ॥
तलेङ्गुष्ठे तदुत्तारं वीजोत्तारं ततो न्यसेत् ।
रक्तगौरधूम्रहरिज्जातरूपाः सितास्त्रथः ॥ ३०३.६ ॥
एवं रूपानिमान् वर्णान् भाववुद्धान्न्यसेत् क्रमात् ।
हृदास्यनेत्रमूर्द्धाङ्घ्रितालुगुह्यकरादिषु ॥ ३०३.७ ॥
अङ्गानि च न्यसेद्वीजान्न्यस्याथ करदेहयोः ।
यथात्मनि तथा देवेन्यासः सार्य्यः करं विना ॥ ३०३.८ ॥
हृदादिस्थानगान् वर्णान् गन्धपुष्पैः समर्च्चयेत् ।
धर्म्माद्यग्न्याद्यधर्मादि गात्रे पीठेऽम्बुजे न्यसेत् ॥ ३०३.९ ॥
यत्र केशरकिञ्चल्कव्यापिसूर्य्येन्दुदाहिनां ।
मण्डलन्त्रितयन्तावद् भेदैस्तत्र न्यसेत् क्रमात् ॥ ३०३.१० ॥
गुणाश्च तन्त्रसत्वाद्याः केशरन्थाश्च शक्तयः ।
विमलोत्कर्षणीज्ञानक्रियायोगाश्च वै क्रमात् ॥ ३०३.११ ॥
प्रह्वी सत्या तथेशानानुग्रहा मध्यतस्ततः ।
योगपीठं समभ्यर्च्य समावाह्य हरिं यजेत् ॥ ३०३.१२ ॥
पाद्यार्घ्याचमनीयञ्च पीतवस्त्रविभूषणं ।
योगपीठं समभ्यर्च्य समावाह्य हरिं यजेत् ॥ ३०३.१२ ॥
वासुदेवादयः पूज्याश्चत्वारो दिक्षु मूर्त्तयः ।
विदिक्षु श्रईसरस्वत्यै रतिशान्त्यै च पूजयेत् ॥ ३०३.१४ ॥
शङ्खं चक्रं गदां पद्मं मुषलं खड्गशार्ङ्गिके ।
वनमालान्वितं दिक्षु विदिक्षु च यजेत् क्रमात् ॥ ३०३.१५ ॥
अब्यर्च्य च चवहिस्तार्क्ष्यं देवस्य पुरतोऽर्च्चयेत् ।
विश्वक्सेनञ्च सोमेशं मध्ये आवरणाद्वहिः ॥ ३०३.१६ ॥
इन्द्रादिपरिचारेण पूज्य सर्व्वमवाप्नुयात् ॥ ३०३.१७ ॥
इत्यादिमहापुराणे आग्नेये अङ्गाक्षरार्च्चनं नाम त्र्यधिकत्रिशततमोऽध्यायः ॥