अग्निरुवाच
वक्ष्ये रुद्रविधानन्तु पञ्चाङ्गं सर्व्वदं परं ।
हृदयं शिवसङ्कल्पः शिवः सूक्तन्तु पौरुषम् ॥ २९६.१ ॥
शिखाभ्यः सम्भृतं सूक्तमाशुः कवचमेव च ।
शतरुद्रियमस्त्रञ्च रुद्रस्याह्गानि पञ्च हि ॥ २९६.२ ॥
पञ्चाङ्गान्न्यस्य तं ध्यात्वा जपेद्रुद्रांस्ततः क्रमात् ।
यज्जाग्रत इति रूक्तं यदृचं मानसं विदुः ॥ २९६.३ ॥
ऋषिः स्याच्छिवसङ्कल्पश्छन्दस्त्रिष्टुवुदाहृतं ।
शिवः सहस्रशीर्षेति तस्य नारायणोऽप्यृपिः ॥ २९६.४ ॥
देवता पुरुषोऽनुष्टुप्छन्दो ज्ञेयञ्च त्रेष्टुभम् ।
अभ्यश्रसम्भृतं सूक्तमृषिरुत्तरगोनरः ॥ २९६.५ ॥
आद्यानान्तिसृणां त्रिष्टुप्छन्दोऽनुष्टुव्द्वयोरपि ।
छन्दस्रैष्टुभमन्त्यायाः पुरुषोऽस्यापि देवता ॥ २९६.६ ॥
आशुरिन्द्रो द्वादशानां छन्दस्त्रिष्टुवुदाहृतं ।
ऋषिः प्रोक्तः प्रतिश्थः सूक्ते सप्तदशार्च्चके ॥ २९६.७ ॥
पृथक्पृथक् देवताः स्युः पुरुविदङ्गदेवता ।
अवशिष्टदैवतेषु छन्दोऽनुष्टुवुदाहृतं ॥ २९६.८ ॥
असौ यमो भवित्रीन्द्रः पुरुलिङ्गोक्तदेवताः ।
पङ्क्तिच्छन्दोऽथ मर्म्माणि त्वपलिङ्गोक्तदेवताः ॥ २९६.९ ॥
रौद्राध्याये च सर्व्वस्मिन्नार्ष स्यात् परमेष्वपि ।
प्रजापतिर्व्व देवानां कुत्सस्य तिसृणां पुनः ॥ २९६.१० ॥
मनोद्वयोरुमैका स्याद्रुद्रो रुद्राश्च देवताः ।
आद्योनुवाकोऽथ पूर्व्व एकरुद्राख्यदैवतः ॥ २९६.११ ॥
छन्दो गायत्र्यमाद्याया अनुष्टुप् तिसृणामृचाम् ।
तिसृणाञ्च तथा पङ्क्तिरनुष्टुवथ संस्मृतम् ॥ २९६.१२ ॥
द्वयोश्च जगतीछन्दो रुद्राणामप्यशीतयः ।
हिरण्यवाहवस्तिस्रो नमो वः किरिकाय च ॥ २९६.१३ ॥
पञ्चर्च्चो रुद्रदेवाः स्युर्मन्त्रो रुद्रानुवाककः ।
विशके रुद्रदेवास्ताः प्रथमा वृहती स्मृता ॥ २९६.१४ ॥
ऋग्द्वितीया त्रिजगती तृतीया त्रिष्टुवेव च ।
अनुष्टुभो यजुस्तिस्र आर्यादिज्ञः सुसिद्धिभाक् ॥ २९६.१५ ।
त्रैलोक्यमोहनेनापि विषव्याध्यरिमर्द्दनं ।
इँ श्रीँ ह्रीँ ह्रैँ हूँ त्रैलोक्यमोहनाय विष्णवे नमः ॥ २९६.१६ ॥
ओं इँ इँ उग्रवीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युन्नमाम्यहं ॥ २९६.१७ ॥
अयमेव तु पञ्चाङ्गो मन्त्रः सर्वार्थसाधकः ।
द्वादशाष्टाक्षरौ मन्त्रौ विषव्याधिविमर्द्दनौ ॥ २९६.१८ ॥
कुब्जिका त्रिपुरा गौरी चन्द्रिका विष्हारिणी ।
प्रसादमन्त्रो विषहृदायुरारोग्यवर्द्धनं ॥ २९६.१९ ॥
सौरो विनायकस्तद्वद्रुद्रमन्त्राः सदाखिलाः ॥ २९६.२० ॥
इत्यादिमहापुराणे आग्नेये पञ्चाङ्गरुद्रविधानं नाम षण्नवत्यधिकद्विशततमोऽध्यायः ॥