२९३

अग्निरुवाच
मन्त्रविद्याहरिं वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ।२९३.००१
विंशत्यर्णाधिका मन्त्रा मालामन्त्राः स्मृता द्विज ॥२९३.००१
दशाक्षराधिका मन्त्रास्तदर्वाग्वीजसञ्ज्ञिताः ।२९३.००२
वर्धक्ये सिद्धिदा ह्येते मालामन्त्रास्तु यौवेन ॥२९३.००२
पञ्चाक्षराधिका मन्त्राः सिद्धिदाः सर्वदापरे ।२९३.००३
स्त्रीपुन्नपुंसकत्वेन त्रिधाः स्युर्मन्त्रजातयः ॥२९३.००३
स्त्रीमन्त्रा वह्निजायन्ता नमोन्ताश्च नपुंसकाः ।२९३.००४
शेषाः पुमांसस्ते शस्ता वक्ष्योच्चाटविषेषु च(१) ॥२९३.००४
क्षुद्रक्रियामयध्वंसे स्त्रियोऽन्यत्र(२) नपुंसकाः ।२९३.००५
मन्त्रावाग्नेयसौम्याख्यौ ताराद्यन्तार्द्वयोर्जपेत् ॥२९३.००५
तारान्त्याग्निवियत्प्रायो मन्त्र आग्नेय इष्यते ।२९३.००६
शिष्टः सौम्यः प्रशस्तौ तौ कर्मणोः क्रूरसौम्ययोः ॥२९३.००६

विस्तीर्यताम्
टिप्पणी