पालकाप्य उवाच
गजलक्षअम चिकित्साञ्च लोमपाद वदामि ते ।
दीर्घहस्ता महोच्छ्वासाः प्रशस्तास्ते सहिष्णवः ॥ २८७.१ ॥
विंशत्यष्टादशनखाः शीतकालमदाश्च ये ।
दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं ॥ २८७.२ ॥
कर्णौ च विपुलौ येषां सूक्ष्मविन्द्वन्वितत्वचौ ।
ते धार्य्या न तथा धार्य्या वामना ये च सङ्कुशाः२ ॥ २८७.३ ॥
हस्तिन्यः पार्श्वगर्भिण्यो ये च मूढा मतङ्गजाः ।
वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः ॥ २८७.४ ॥
सप्तस्थितो गजश्वेदृक् सङ्ग्रामेरीञ्जयेत्स च ।
कुञ्जराः परमा शोभा शिविरस्य बलस्य च ॥ २८७.५ ॥
आयत्तं कुञ्जरैश्चैव विजयं पृथिवीक्षितां ।
पाकलेषु च सर्वेषु कर्त्तव्यमनुवासनं ॥ २८७.६ ॥
घृततैलपरीपाकं स्थानं वातविवर्जितं ।
स्कन्धेषु च क्रिया कार्य्या तथा पालकवन्नृपाः ॥ २८७.७ ॥
गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतन्द्विज ।
आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते ॥ २८७.८ ॥
लवणैः पञ्चभिर्म्मिश्रा प्रतिपानाय वारुणी ।
विडङ्गत्रिफलाव्योषसैन्धवैः कवलान् कृतान् ॥ २८७.९ ॥
मृर्च्छासु भोजयेन्नागं क्षौद्रन्तोयञ्च पाययेत् ।
अब्यङ्ग शिरसः शुले नस्यञ्चैव प्रशस्यते ॥ २८७.१० ॥
नागानां स्नेहपुटकः पादरोगानुपक्रमेत् ।
पश्चात् कल्ककषायेण शोधनञ्च विधीयते ॥ २८७.११ ॥
शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः ।
रसैः सम्भोज्येन्नागं वेपथुर्यस्य जायते ॥ २८७.१२ ॥
बालविल्वं तथा लोध्रं धातकी सितया सह ।
अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः ॥ २८७.१३ ॥
नस्यं करग्रहे देयं घृतं लवणसंयुतम् ।
मागधीनागराजाजीयवागूर्मुस्तसाधिता ॥ २८७.१४ ॥
उत्कर्णके तु दातव्या वारहञ्च तथा रसम् ।
दशमूलकुलत्थाम्लकाकमाचीविपाचितम् ॥ २८७.१५ ॥
तैलमूषणसंयुक्तं गलग्रहगदापहम् ।
अष्टभिर्लवणैः पिष्टैः प्रसन्नाः पाययेद्घृतम् ॥ २८७.१६ ॥
मूत्रभङ्गेऽथ वा वीजं क्कथितं त्रपूषस्य च ।
त्वग्दोषेषु पिवेन्निम्बं वृषं वा क्कथितं द्विपः ॥ २८७.१७ ॥
गवां मूत्रं विडङ्गानि कृमिकोष्ठेषु शस्यते ।
श्रृङ्गवेरकणाद्राक्षाशर्कराभिः श्रृतं पयः ॥ २८७.१८ ॥
क्षतक्षयकरं पानं तथा मांसरसः शुभः ।
मुद्गोदनं व्योषयुतमरुचौ तु प्रशस्यते ॥ २८७.१९ ॥
त्रिवृद्व्योषाग्निदन्त्यर्कश्यामाक्षीरे भपिप्पली ।
एतैर्गुल्महरः स्नेहः कृतश्चैव तथापरः ॥ २८७.२० ॥
भेदनद्रावणाभ्यङ्गस्नेहपानानुवासनैः ।
सर्वानेव समुत्पन्नान् विद्रवान् समुपाहरेत् ॥ २८७.२१ ॥
यष्टिकं मुद्गसूपेन शारदेन तथा पिवेत् ।
बालविल्वैस्तथा लेपः कटुरोगेषु शस्यते ॥ २८७.२२ ॥
विडङ्गेन्द्रयवौ हिङ्गु सरलं रजनीद्वयम् ।
पूर्वाह्णे पाययेत् पिण्डात् पिण्डान् सर्वशूलोपशान्तये ॥ २८७.२३ ॥
प्रधानभोजने तेषां यष्टिकब्रीहिशालयः ।
मध्यमौ यवगोधूमौ यवगोधूमौ शेषा दन्तिनि चाधमाः ॥ २८७.२४ ॥
यवश्चैव तथैवेक्षुर्नागानां बलवर्द्धनः ।
नागानां यवसं शुष्कं तथा धातुप्रकोपणं ॥ २८७.२५ ॥
मदक्षीणस्य नागस्य पयःपानं प्रशस्यते ।
दीपनीयैस्तथा द्रव्यैः श्रृतो मांसरसः शुभः ॥ २८७.२६ ॥
चायसः कुक्कुरश्चोभौ काकोलूककुलो हरिः ।
भवेत् क्षौद्रेण संयुक्तः पिण्डो युद्धे महापदि४ ॥ २८७.२७ ॥
कटुमत्स्यविडङ्गानि क्षारः कोषातकी पयः ।
हरिद्राचेति धूपोयं कुञ्जरस्य जयावहः ॥ २८७.२८ ॥
पिप्पलीतण्डुलास्तैलं माध्वीकं माक्षइकम् तथा ।
नेत्रयोः परिषेकोयं दीपनीयः प्रशस्यते ॥ २८७.२९ ॥
पुरीषञ्जतनेत्रस्तु तथा पारावतस्य च ।
क्षीरवृक्षकरीषाश्च प्रसन्नायेष्टमञ्जनं ॥ २८७.३० ॥
अनेनाञ्जिनेत्रस्तु करोति कदनं रणे ।
उत्पलानि च नीलानि सुस्तन्तगरमेव च ॥ २८७.३१ ॥
तण्डुलोदकपिष्टानि नेत्रनिर्वापनं परम् ।
नखवृद्धौ नखच्छेदस्तैलसेकश्च मास्यपि ॥ २८७.३२ ॥
शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस्तथा ।
शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ॥ २८७.३३ ॥
इत्यादिमहापुराणे आग्नेये गजचिकित्सा नाम सप्ताशीत्यधिकद्विशततमोऽध्यायः ॥