अग्निरुवाच
आयुर्वेदं प्रवक्ष्यामि सुश्रुताय यमब्रवीत् ।
देवो धन्वन्तरिः सारं मृतसञ्जीवनीकरं ॥ २७९.१ ॥
सुश्रुत उवाच
आयुर्वेदं मम ब्रूहि नराश्वेभरुगर्दनम् ।
सिद्धयोगान् सिद्धमन्त्रान् मृतसञ्जीवनीकरान् ॥ २७९.२ ॥
धन्वन्तरिरुवाच
रक्षन् बलं हि ज्वरितं लङ्घितं भोजयेद्भिषक् ।
सविश्वं लाजमण्डन्तु तृड्ज्वरान्तं श्रृतं जलम् ॥ २७९.३ ॥
मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।
षडहे च व्यतिक्रान्ते तिक्तकं पाययेद्ध्रुवम् ॥ २७९.४ ॥
स्नेहयेत्त्यक्तदोषन्तु ततस्तञ्च विरेचयेत् ।
जीर्णाः षष्टिकनीवाररक्तशालिप्रमोदकाः ॥ २७९.५ ॥
तद्विधास्ते ज्वरेष्विष्टा यवानां विकृतिस्तथा ।
मुद्गा मसूराश्चणकाः कुलत्थास्च सकुष्ठकाः ॥ २७९.६ ॥
आटक्यो नारकाद्याश्च कर्क्कोटककटोल्वकम् ।
पटोलं सफलं निम्बं पर्पटं दाडिमं ज्वरे ॥ २७९.७ ॥
अधोगे वमनं शस्तमूद्र्ध्वगे च विरेचनम् ।
रक्तपित्ते तथा पानं षडङ्गं शुण्ठिवर्ज्जितम् ॥ २७९.८ ॥
शक्रुगोधूमलाजाश्च यवशालिमसूरकाः ।
सकुष्ठचणका मुद्गा भक्ष्या गोधूमका हिताः ॥ २७९.९ ॥
साधिता घृतदुग्धाभ्यां क्षौद्रं वृषरसो मधु ।
अतीसारे पुराणानां शालीनां भक्षणं हितं ॥ २७९.१० ॥
अनभिष्यन्दि यच्चान्नं लोध्रवल्कलसंयुतम् ।
मारुतं वर्ज्जयेद् यत्नः कार्य्यो गुल्मेषु सर्वथा ॥ २७९.११
वाट्यं क्षीरेण चाश्नीयाद्वास्तूकं घृतसाधितं ।
गोधूमशालयस्तिक्ता हिता जठरिणामथ ॥ २७९.१२ ॥
गोधूमशालयो मुद्गा ब्रह्मर्क्षखदिरोऽभया ।
पञ्चकोलञ्जाङ्गलाश्च निम्बधात्र्याः पटोलकाः ॥ २७९.१३ ॥
मातुलङ्गरसाजातिशुष्कमूलकसैन्धवाः ।
कुष्ठिनाञ्च तता शस्तं पानार्थे खदिरोदकं ॥ २७९.१४ ॥
मसूरमुद्गौ पेयार्थे भोज्या जीर्णाश्च शालयः ।
निम्बपर्पटकैः शाकैर्ज्जाङ्गलानां तथा रसः ॥ २७९.१५ ॥
विडङ्गं मरिचं मुस्तं कुष्ठं लोध्रं सुवर्च्चिका ।
मनः शिला च वालेयः कुष्ठहा मूत्रपेषितः ॥ २७९.१६ ॥
अपूपकुष्ठकुल्माषयवाद्या मेहिनां हिताः ।
यवान्नविकृतिर्मुद्गा कुलत्था जीर्णशालयः ॥ २७९.१७ ॥
तिक्तरुक्षाणि शाकानि तिक्तानि हरितानि च ।
तैलानि तिलशिग्रुकविभीतकेङ्गुदानि च ॥ २७९.१८ ॥
मुद्गाः सयवगोधूमा धान्यं वर्षस्थितञ्च यत् ।
जाङ्गलस्य रसः शस्तो भोजने राजयक्ष्मिणां ॥ २७९.१९ ॥
कौलत्थमौद्गको रास्नाशुष्कमूलकजाङ्गलैः ।
पूपैर्वा विस्किरैः सिद्धैर्दधिदाडिमसाधितैः ॥ २७९.२० ॥
मातुलङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः ।
यवगोधूमशाल्यन्नैर्भोज्येच्छ्वासकासिनं ॥ २७९.२१ ॥
दशमूलवलारास्नाकुलत्थैरुपसाधिताः ।
पेयाः पूपरसाः क्काथाः श्वासहिक्कानिवारणा ॥ २७९.२२ ॥
शुष्कमूलककौलत्थमूलजाह्गलजै रसैः ।
यवगोधूमशाल्यन्नं जीर्णं सोशीरमाचरेत् ॥ २७९.२३ ॥
शोथवान् सगुडां पथ्यां खादेद्वा गुडनागरम् ।
तक्रञ्च चित्रकञ्चोभौ ग्रहणीरोगनाशनौ ॥ २७९.२४ ॥
पुराणयवगोधूमशालयो जाङ्गलो रसः ।
मुद्गामलकखर्जूरमृद्वीकावदराणि च ॥ २७९.२५ ॥
मधु सर्पिः पयः शक्र निम्बपर्पटकौ वृषम् ।
तक्रारिष्टाश्च शस्यन्ते सततं वातरोगिणाम् ॥ २७९.२६ ॥
हृद्रोगिणो विरेच्यास्तु पिप्पल्यो हिक्किनां हिताः ।
तक्रावलालसिन्धूनि मुक्तानि शिशिराम्भसा ॥ २७९.२७ ॥
मुक्ताः सौवर्चलाजादि मद्यं शस्तं मदात्यये ।
सक्षोद्रपयसा लाक्षआं पिवेच्च क्षचवान्नरः ॥ २७९.२८ ॥
क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत् ।
शालयो भोजने रक्ता नीवारकलमादयः ॥ २७९.२९ ।
यवान्नविकृतिर्म्मांसं शाकं सौवर्चलं शटी ।
पथ्या तथैवार्शसां यन्मण्डं तक्रञ्च वारिणा ॥ २७९.३० ॥
मुस्ताभ्यासस्तथा लोपश्चित्रकेण हरिद्रया ।
यवान्नविकृतिः शालिर्व्वास्तूकं ससुवर्च्चलम् ॥ २७९.३१ ॥
त्रपुषैर्वारुगोधूमाः क्षीरेक्षुघृतसंयुताः ।
मूत्रकृच्छ्रे च शस्ताः स्युः पाने मण्डसुरादयः ॥ २७९.३२ ॥
लाजाः शक्तुस्तथा क्षौद्रं शूल्यं मांसं परूषकम् ।
वार्त्ताकुलावशिखिनश्छर्द्दिघ्नाः पानकानि च ॥ २७९.३३ ॥
शाल्यन्नन्तोयपयसी केवलोष्णे श्रृतेऽपि वा ।
तृष्णाघ्ने मुस्तगुडयोर्गुटिका वा मुखे धृता ॥ २७९.३४ ॥
यवान्नविकृतिः पूपं शुष्कमूलकजन्तथा ।
शाकं पटोलवेत्राग्रमुरुस्तम्भविनाशनम् ॥ २७९.३५ ॥
मुद्गाढकमसूराणां सतिलैर्जाङ्गलै रसैः ।
ससैन्धवघृतद्राक्षाशुण्ठ्यामलककोलजैः ॥ २७९.३६ ॥
यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् ।
विसर्पी ससिताक्षौद्रमृद्वीकादाडिमोदकम् ॥ २७९.३७ ॥
रक्तयष्टिकगोधूमयवमुद्गादिकं लघु ।
काकमारी च वेत्राग्रं वास्तुकञ्च सुवर्च्चला ॥ २७९.३८ ॥
वातशोणितनाशाय तोयं शस्तं मधु ।
नाशारोगेषु च हितं घृतं दुर्व्वाप्रसाधितम् ॥ २७९.३९ ॥
भृङ्गराजरसे सिद्धं तैलं धात्रीरसेऽपि वा ।
नश्यं सर्वामयेष्विष्टं मूर्द्धजन्तूद्भवेषु च ॥ २७९.४० ॥
शीततोयान्नपानञ्च तिलानां विप्र भक्षणम् ।
द्विजजाढर्यकरं प्रोक्तं तथा तुष्टिकरम्परम् ॥ २७९.४१ ॥
गण्डूषं तिलतैलेन द्विजजार्ढ्यकरं परं ।
विडङ्गचूर्णं गोमूत्रं सर्व्वन्त्र कृमिनाशने ॥ २७९.४२ ॥
धात्रीफलान्यथाज्यञ्च शिरोलेपनमुत्तमम् ।
शिरोरोगविनाशाय स्रिग्धमुष्णञ्च भोजनम् ॥ २७९.४३ ॥
तैलं वा वस्तमूत्रञ्च कर्णपूरणमुत्तमम् ।
कर्णशूलविनाशाय सर्वशुक्तानि वा द्विज ॥ २७९.४४ ॥
गिरिमृच्चन्दनं लाक्षा मालती कलिका तथा ।
संयोज्या या कृता वर्त्तिः क्षतशुक्रहरी तु सा ॥ २७९.४५ ॥
व्योषं त्रिफलया युक्तं तुच्छकञ्च तथा जलम् ।
सर्वाक्षिरोगशमनं तथा चैव रसाञ्जनम् ॥ २७९.४६ ॥
आज्यभृष्टं शिलापिष्टं लोध्रकाञ्जीकसैन्धवैः ।
आश्च्योतनाविनाशाय सर्वनेत्रामये हितम् ॥ २७९.४७ ॥
गिरिमृच्चन्दनैर्लेपो वरिर्नेत्रस्य शस्यते ।
नेत्रामयविघातार्थं त्रिफलां शीलयेत् सदा ॥ २७९.४८ ॥
रात्रौ तु मधुसर्पिभ्यां दीर्घमायुर्ज्जिजीविषुः ।
शतावरीरसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ ॥ २७९.४९ ॥
कलम्बिकानि माषाश्च वृष्यौ क्षीरघृतौ तथा ।
आयुष्या त्रिफला ज्ञेया पूर्ववन्मधुकान्विता ॥ २७९.५० ॥
मधुकादिरसोपेता बलीपलितनाशिनी ।
वचासिद्धघृतं विप्रं भूतदोषविनाशनम् ॥ २७९.५१ ॥
कव्यं बुद्धिप्रदञ्चैव तथा सर्वार्थसाधनम् ।
वलाकल्ककषायेण सिद्धमभ्यञ्जने हितम् ॥ २७९.५२ ॥
रास्नासहचरैर्वापि तैलं वातविकारिणाम् ।
अनभिष्यन्दि यच्चान्नं तद्व्रणेषु प्रशस्यते ॥ २७९.५३ ॥
शक्तुपिण्डी तथैवाम्ला पाचनाय प्रशस्यते ।
पक्कस्य च तथा भेदे निम्बचूर्णञ्च रोपणे ॥ २७९.५४ ॥
तथा शूच्युपचारश्च बलिकर्म विशेषतः ।
सूतिका च तथा रक्षा प्राणिनान्तु सदा हिता ॥ २७९.५५ ॥
भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् ।
तालनिम्बदलङ्केश्यं जीर्णन्तैलं यवा घृतम् ॥ २७९.५६ ॥
धूपो वृश्चिकदष्टस्य शिखिपत्रघृतेन वा ।
अर्कक्षीरेण सम्पिष्टं लोपा वीजं पलाशजं ॥ २७९.५७ ॥
वृश्चिकार्त्तस्य कृष्णा वा शिवा च फलसंयुता ।
अर्कक्षीरं लितं तैल पललञ्च गुडं समम् ॥ २७९.५८ ॥
पानाज्जयति दुर्बारं श्वविषं शीघ्रमेव तु ।
पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा ॥ २७९.५९ ॥
सर्पकीटविषाण्याशु जयत्यतिबलान्यपि ।
चन्दनं पद्मकङ्कुष्ठं तलाम्बूशीरपाटलाः ॥ २७९.६० ॥
निर्गुण्डी शारिवा सेलुर्लूताविषहरो गदः ।
शिरोविरेचनं शस्तं गुडनागरकं द्विज ॥ २७९.६१ ॥
स्नेहपाने तथा वस्तौ तैलं घृतमनुत्तमम् ।
स्वेदनीयः परो वह्निः शीताम्भः स्तम्भनं परम् ॥ २७९.६२ ॥
त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा ।
वस्तिर्विरेको वमनं तैलं सर्पिस्तथा मधु ॥ २७९.६३ ॥
वातपित्तबलाशानां क्रमेण परमौषधं ॥ २७९.६४ ॥
इत्यादिमहापुराणे आग्नेये सिद्धौषधानि नामोनाशीत्यधिकद्विशततमोऽध्यायः ॥